________________ 176 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे | 1 प्रत्यक्षपरि० अर्थापत्याख्यस्य तद्ग्राहकप्रमाणस्य सद्भावात् / तथाहि-'क्रिया न काचित् निष्फला संभवति' इति ज्ञानक्रिया प्रकटनाख्यं फलम् अर्थे प्रादुर्भावयति, तस्माच्च फलात् प्रतिप्राणि सुप्रसिद्धात् अन्यथाऽनुपपद्यमानाद् आत्मनि अहम्प्रत्ययग्राह्ये नित्यपरोक्षं क्रियारूपं ज्ञानमुपकल्प्यत इति / उक्तञ्च-"अप्रत्यक्षा नो बुद्धिः प्रत्यक्षोऽर्थः, स हि बहिर्देशसम्बद्धः प्रत्यक्षमनुभूयते, ज्ञाते 5 त्वनुमानादवगच्छति बुद्धिम् / " [ शावरभा० 1 / 1 / 5 ] इति / प्रवृत्त्यन्यथानुपपत्त्या च ज्ञानमनु मीयते ; अज्ञाते प्रवृत्तिविषये प्रवृत्त्यनुपपत्तेः, प्रयोजनार्थी हि पुरुषः कदाचित् प्रवर्तते कदाचिन्न प्रवर्तते इत्यत्र न ज्ञानादन्यत् तदा तत्प्रवृत्तेः कारणमस्ति / न हि इष्टसाधनोऽप्यर्थः स्वरूपेणैव प्रवृत्तिहेतुर्घटते सर्वदा प्रवृत्तिप्रसङ्गात् , न चैवम् , अतः कादाचित्कत्वात् प्रवृत्तेः अर्थाऽ तिरिक्तम् 'अन्यदपि किञ्चित्कारणमस्ति' इत्यवगम्यते यस्मिन् सति अर्थः प्रवृत्तियोग्यतामा१० पद्यते, तच्च ज्ञानमिति / ___ अत्र प्रतिविधीयते / यत्तावदुक्तम्-'कर्मत्वेनाऽप्रतीयमानत्वात्' इति; तद् आत्मना फलज्ञा नेन चाऽनैकान्तिकम् तयोः कर्मत्वेनाऽप्रतीयमानयोरपि प्रत्यक्षज्ञानस्य अस्वसंविदितत्व त्वेनाऽभ्युपगमात् / अथ अनयोः कर्मत्वेनाऽप्रतीतावपि कर्तृत्वेन निरसन पुरस्सर स्वसंवेदनत्वव्यवस्थापनम् फलत्वेन च प्रतीतेः प्रत्यक्षता इष्यते ; तर्हि प्रमाणाऽभिमत ज्ञानस्य कर्मत्वेनाऽप्रतीतावपि करणत्वेन प्रतीतेः प्रत्यक्षता इष्यताम् अविशेषात् / अथ करणत्वेन प्रतीयमानं ज्ञानं करणमेव स्यान्न प्रत्यक्षम् , तर्हि कर्तृफ १-ख्यस्य प्रमा-आ०, भां० / “तत्रात्मना न शक्यं तत्रान्योत्पत्तिस्तदस्ति वा। तेनैतत्कारणाभावात् तदानीं नानुभूयते // 181 / नान्यथा ह्यर्थसद्भावो दृष्टः सन्नुपपद्यते / ज्ञाने चेन्नेत्यतः पश्चात् प्रमाणमुपजायते // 182 // " "अर्थापत्तिः ज्ञानस्य प्रमाणम् , सा च अर्थस्य ज्ञातत्वान्यथानुपपत्तिप्रभवा / प्रागर्थस्य ज्ञातत्वाभावान्नोत्पद्यते / ज्ञाते त्वर्थे पश्चात्तज्ज्ञातत्वानुपपत्त्या अर्थपित्तिप्रमाणमुपजायते.." मीमां• श्लो० टी० सू० 1 / 1 / 5 / शून्यवाद / “ज्ञानक्रिया हि सकर्भिका कर्मभूतेऽर्थे फलं जनयति पाकादिवत् / तच्च फलमैन्द्रियकज्ञानजन्यमापारोक्ष्यम् लिङ्गादिज्ञानजन्यं तु पारोक्ष्यमित्युच्यते तदेव च फलं कार्यभूतं कारणभूतं विज्ञानमुपकल्पयतीति सिद्धयत्यप्रत्यक्षमपि ज्ञानम् / अथवा ज्ञानक्रियाद्वारको यः कर्तृभूतस्य आत्मनः कर्मभूतस्य च अर्थस्य परस्परं सम्बन्धो व्याप्तृव्याप्यत्वलक्षणः स मानसप्रत्यक्षावगतो विज्ञानं कल्पयति / न आगन्तुककारणमन्तरेण आत्मनोऽर्थं प्रति व्याप्तृत्वमुत्पत्तुमर्हति, तच्च कारणं लोके ज्ञानशब्देन अभिधीयते..." शास्त्रदी० 1 / 1 / 5 / 2 प्रादुर्भवति भां०, श्र० / ३-ग्राह्यं नि-आ० / 4 "ज्ञाते त्वर्थेऽनुमानादवगच्छति बुद्धिरिति शावरभाष्ये श्रवणात् / " प्रमाणपरी० पृ. 60 / तत्त्वार्थश्लो० पृ. 47 / न्यायवि० टी० पृ. 14 पू० / ५-ते च प्र-भां०। ६-न्यत यथा तत्प्रवृआं० / 7 पृ० 17550 १।८"कर्मत्वेनाऽप्रतिभासमानत्वात् करणज्ञानमप्रत्यक्ष करणत्वेन प्रतिभासमानस्य प्रत्यक्षत्वोपपत्तेः / कथञ्चित् प्रतिभासते च कर्म च न भवतीति व्याघातस्य प्रतिपादितत्वात् / कथञ्चायं फलज्ञानं कर्मत्वेनाऽप्रतिभासमानमपि प्रत्यक्षमुपयन् करणज्ञानं तथा नोपैति ?" तत्वार्थश्लो० पृ. 46 / प्रमाणपरी० पृ. 61 / प्रमेयक पृ० 31 उ० / स्या. रत्ना० पृ. 213 / .