________________ 175 लघा० 16j स्वसंवेदनवादः ननु ज्ञाने स्वसंविदितत्वं प्रमाणविरुद्धम् कर्मत्वेनाऽप्रतीयमाने तस्मिन् परोक्षत्वस्यैवोपपत्तेः; तथाहि-ज्ञानं परोक्षम् कर्मत्वेनाऽप्रतीयमानत्वात् , यत् पुनः 'ज्ञाने स्वसंविदितत्वं प्रत्यक्षं तत् कर्मत्वेन प्रतीयमानं दृष्टम् यथा अर्थः, कर्मत्वेनाऽ प्रमाणविरुद्धम् / इति जैमिनीयस्य पूर्वपक्षः प्रतीयमानञ्च ज्ञानम् , तस्मात् परोक्षमिति / न चाऽयमसिद्धो हेतुः; कर्मत्वेनाऽप्रतीयमानत्वस्य ज्ञानाख्ये धर्मिणि विद्यमान- 5 वात्, न खलु घटाद्यर्थवत् कर्मत्वेन ज्ञानं स्वप्नेऽपि प्रतिभासते, प्रतिभासने वा करणात्मनो ज्ञानान्तरस्य परिकल्पना प्रसज्येत, तस्यापि प्रत्यक्षत्वे करणात्मकं ज्ञानान्तरमपरं परिकल्प्येत इत्यनवस्था / तस्याप्रत्यक्षत्वेऽपि करणत्वे प्रथमे कोऽपरितोषः येनाऽस्य तथा करणत्वं नेष्यते ? न च एकस्यैव ज्ञानस्य परस्परविरुद्धकर्म-करणाकाराभ्युपगमो युक्तः ; अन्यत्र तथा प्रतीत्यभावात् / तस्मादेतदोषपरिजिहीर्षया ज्ञानस्य प्रत्यक्षरूपताऽऽग्रहं परित्यज्य प्रतीत्यनतिक्रमेण 10 परोक्षरूपतैवाऽभ्युपगन्तव्या / इन्द्रियाऽर्थसम्प्रयोगादिसामग्रोतो हि क्रियास्वभावम् आत्मनि ज्ञानमुत्पद्यमानं नित्यपरोक्षरूपमेव उत्पद्यते / ___ न चास्य नित्यपरोक्षरूपत्वे ग्राहकप्रमाणाऽभावाद् अभावोऽनुषज्यत इत्यभिधातव्यम् ; प्रत्यक्षतो हि तत्प्रतीत्यभावान्नित्यपरोक्षरूपता , न पुनर्मूलतोऽपि ग्राहकप्रमाणाऽभावात् , 1 "ननूत्पन्नायां बुद्धौ ज्ञातोऽर्थ उच्यते नानुत्पन्नायाम् , अतः पूर्वं बुद्धिः उत्पद्यते पश्चाज्ज्ञातोऽर्थः ? . सत्यम् ; पूर्वं बुद्धिरुत्पद्यते न तु पूर्वं ज्ञायते। भवति हि कदाचिदेतद् यज्ज्ञातोऽप्यर्थः सन्नज्ञात इत्युच्यते / न च अर्थव्यपदेशमन्तरेण बुद्धेः रूपोपलम्भनम् , तस्मान्न व्यपदेश्या बुद्धिरव्यपदेश्यञ्च न प्रत्यक्षम् / तस्मादप्रत्यक्षा बुद्धिः / " शावरभा० 1 / 1 / 5 / “अस्मन्मते ज्ञाततालिङ्गकानुमानेनैव बुद्धग्रहणाङ्गीकारात् , तस्य च अर्थग्रहणोत्तरकालीनत्वात् न प्रतिबन्धकाभावमात्रेण अर्थग्रहणसमये बुद्धग्रहणं भवितुमहति / " शावरभा० प्रभाटी० पृ. 33 / “संवित्तयैव हि संवित् संवेद्या न संवेद्यतया / केयं वाचो युक्तिः संवेद्या न संवेद्येति ? इयमियं वाचो युक्तिः नास्याः कर्मभावो विद्यते इत्यर्थः / कर्म च संवेद्याभिधेयं न संवित् , तस्मान्न पृथक् संवेद्यतया ग्रहीतु शक्यते / न चाऽसंवेद्यैव संवित् तन्मूलत्वात् सर्वभावानां संवेयभावस्य / किं तर्हि ? आनुमानिकम्, फलमेव हि प्रमाणम् इति प्रमाणविदो मन्यन्ते (पृ. 64) किमसंवेद्यमेव विज्ञानम् ? बाढमसम्वेद्यं न त्वप्रमेयम् / कः पुनः प्रमेयसंवेद्ययोर्विशेषः ? यत्र हि विषयस्य स्वरूपं परिच्छिद्यते तत्संवेद्यमित्युच्यते अतः संवेदनं प्रत्यक्षमिति प्रमाणविदः असम्वेदना च प्रमितिः ज्ञाने आकारान्तराग्रहणात् / तस्मात् ज्ञानं प्रत्यक्षमित्ययुक्तम् / क्षणिकत्वाचास्य प्रत्यक्षता न संभवति''(पृ. 65) "तस्मान्न बुद्धिविषयं प्रत्यक्षम् , अर्थविषयं हि तत् अतः सिद्धमानुमानिकत्वं बुद्धेः फलतः" (पृ०६७) बृहती 1 / 1 / 5 / पन्जिका पृ. 64-67 / “अपि च ज्ञानमनुमेयमिष्यते / तदनुमाने च नार्थसत्तामात्रं लिङ्गम् ; तदविनाभावनियमाभावात् / अथ अर्थज्ञानमित्युच्यते; तदपि नोत्पत्तिमात्रेण लिङ्गम्.." प्रकरणपं० पृ. 63 / 2 तत्प्रत्यक्षत्वे भां०, श्र.। ३-कल्प्यते भां०, श्र० /