________________ लघीयस्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० न स्यात्; तदनयोः समारोपव्यवच्छेदाऽविशेषात् संवृतेरपि प्रमाणान्तरत्वं स्यात् / सर्वस्यैव निर्विकल्प कज्ञानस्य समारोपव्यवच्छेदाकाक्षिणः प्रामाण्यं न स्यात् ततः संव्यवहाराऽभावात् / अर्थक्रियार्थी हि प्रमाणम् अप्रमाणं वा अन्वेषते, रूपादिक्षणक्षयादिस्फुटप्रतिभासाऽविशेषात् खण्डशः प्रामाण्यं यदपेक्षं तदेव फलं युक्तम् ; तत्त्वतः तत्कृतो न भवति / 'तत्त्वतः तत् ततो न भवति' इत्यपि पाठः / भावे वा निर्णीतिः अखण्डशः कुतो न भवेत् ? बहुबहुविधक्षिप्राऽनिस्ताऽनुक्तध्रुवेतरविकल्पानाम् अवग्रहादेः स्वभावभेदान्न विरुद्धयते / प्रतिभासभेदेऽपि स्वभावभेदाभावकल्पनायां क्रमवृत्तिधमोणामपि तथाभावात् कुतः क्रमः सुख-दुःखादिभेदो वा पर मार्थतः प्रतिष्ठाप्येत सहप्रतिभासवत् ? तदयम् एकमनेकाऽऽकारं क्षणिकज्ञानं कुत५० श्चित् प्रत्यासत्तेः प्रतिभासभेदानाम् उपयन् क्रमवर्तिनामपि तथैकत्वं प्रतिपत्तुमर्हति हर्पविषादादीनाम् / अतोऽनेकान्तसिद्धिः / प्रमाणफलयोः क्रमभेदेऽपि तादात्म्यम् अभिन्नविषयत्वञ्च प्रत्येयम् / बहु आदिर्यस्य बहुविधादेः स तथोक्तः तेन, अवग्रहादीनाम् अष्टचत्वारिंशत् बह्वाद्यवग्र हाद्यष्टचत्वारिंशत् / एतदुक्तं भवति-बह्वादिभिः द्वादशप्रभेदैः अव - ग्रहादयश्चत्वारो गुणिता अष्टचत्वारिंशद् भवन्ति / केषाम् ? इत्याह'स्वसंविदाम्' इति / चशब्दोऽत्र समुच्चयार्थः लुप्तो द्रष्टव्यः, तेन अर्थग्रहणमनुवर्तमानं चशब्देन लब्धतापरिणामं सम्बद्धयते / तथा चायमर्थः स्थितः-न केवलम् अर्थग्रहणस्य अपि तु स्वसंविदाञ्च बह्वाद्यवग्रहाद्यष्टचत्वारिंशद् भवति ( भवन्ति ), अन्यथा तासां श्रुतादावन्त र्भावो वक्तव्यः, ज्ञानषटकत्वंञ्चाऽनुषज्येत मतौ अनन्तर्भावात् अवग्रहाद्यात्मकत्वात्तस्याः / ___ननु च अर्थे बहुबहुविधादिधर्माणां संभवाद् युक्तो बबाद्यवग्रहादिः न पुनर्ज्ञानस्वरूपे,तत्र तदसंभवात् , न हि ज्ञानस्वरूपे बहु-बहुविधादिधर्माः कदाचिदपि प्रतीयन्ते बहिरर्थे एव तेषां सर्वदा प्रतीतेः ; इत्यप्यपेशलम् ; बह्वादिधर्मग्राहकत्वस्य ज्ञानस्वरूपगतस्य॑ स्वसंवेदनविषयतोपपत्तितः तत्स्वरूपेऽपि बह्वाद्यवग्रहादिसंभवाऽविरोधात् / किं पुनर्ज्ञानस्य स्वसंवेदनं नाम ? इति चेदुच्यते ज्ञानान्तराऽनपेक्षं यत् स्वरूपप्रतिभासनम् / तत् स्वसंवेदनं ज्ञाने सिद्धमर्थप्रतीतितः / / प्रयोगः-स्वग्रहणात्मकं ज्ञानम् अर्थग्रहणात्मकत्वात् , यत् पुनः स्वग्रहणात्मकं न भवति न तद् अर्थग्रहणात्मकम् यथा घटादि, अर्थग्रहणात्मकञ्च ज्ञानम्. तस्मात् स्वग्रहणात्मकमिति / 1 विरुद्ध्येत ज० वि० / 2 क्रमभावेऽपि आ० वि० / 3 षष्टी / ४-त्वं वानु-आ० / 5 अथ बहुविधा-आ०, भा० / ६-स्य संवे-भां० / ७-तः स्व-भां० /