________________ 173 विवतिव्य नम् लघी० 1 / 6] अवग्रहादीनां बह्वादिभेदनिरूपणम् स्मृतिहेतुर्धारणा संस्कार इति यावत् , यत एवं तत् तस्मात् मतिज्ञानम् अवग्रहावायधारणाभेदेन चतुर्विधम् / ___ कारिकाध विवृण्वन्नाह-'स्मृतिहेतुः' इत्यादि / स्मृतः अनुभूतवस्तुविषयायाः तच्छब्द _ परामृष्टायाः प्रतीतेः हेतुः धारणा भावना संस्कार इति यावत् / . ननु च ईहा चेष्टा प्रयत्न इत्यर्थः, धारणा च संस्कारः, तयोश्च ज्ञानाद- 5 त्यन्तभेदः, “बुद्धिसुखदुःखेच्छा द्वेषप्रयत्नधर्माऽधर्मसंस्काराः'' [ ] इत्यभिधानात् , तत्कथमनयोः प्रत्यक्षता ? इत्याशङ्क्यमानं प्रति आह-'ईहा' इत्यादि। ईहा-धारणयोरपिन केवलम् अवग्रहा-ऽवाययोः ज्ञानात्मकत्वमुन्नेयम् अभ्युपगन्तव्यम् / कुत एतदित्यत्राह-'तद्' इत्यादि / तयोः अवग्रहाऽवाययोः उपयोगविशेषात् व्यापारविशेषात् / तथाहि-अवग्रहस्य ईहा, अवायस्य च धारणा व्यापारविशेषः, न च चेतनोपादानो व्यापारविशेषः अचेत- 10 तनो युक्तोऽतिप्रसङ्गात् / अथवा ईहा-धारणयोः सम्बन्धी उपादेयत्वेन यः उपयोगविशेषः अवाय-स्मृतिलक्षणः तस्मात् इति ग्राह्यम् / न वै खलु चेतनम् अचेतनोपादानं युक्तम ; चार्वाकमतानुप्रवेशप्रसङ्गात् / इदानीं स्वसंविदामपि बह्वादिभेदमवग्रहादिकम् , अवग्रहादीनाञ्च पूर्वपूर्वस्य प्रमाणत्वे फलत्वमुत्तरोत्तरस्य दर्शयन्नाह बांधवग्रहाद्यष्टचत्वारिंशत् स्वसंविदाम् // 6 // पूर्वपूर्वप्रमाणत्वं फलं स्यादुत्तरोत्तरम् / वितिः-परमार्थैकसं वित्तेः वेद्यवेदकाकारयोः प्रमाणफलव्यवस्थायां क्षणभङ्गादेरपि प्रत्यक्षत्वं प्रसज्येत / ततः किम् ? गृहीतग्रहणात् संवृतिवत् तदनुमानं प्रमाणं 1 / 15 / “धरणं पिय धारणं विति // 3 // " आव• नि० / “धृतिः धरणम् अर्थानामिति वर्तते / परिच्छिनस्य वस्तुनोऽविच्युति-स्मृति-वासनारूपं तद्धरणं पुनधारणां ब्रुवते ?" आव० नि० हरि० पृ० 10 / "एवमविच्युति-वासना-स्मृतिरूपा धारणा त्रिधा सिद्धा भवति / " विशेषा० भा० बृह. गा० 188-189 / " अर्थतस्य कालान्तरेऽविस्मरणकारणं धारणा।" सर्वार्थसि० 1 / 15 / “निहतार्थाविस्मृतिधारणा" राजवा० 1.15 / "ततो दृढतरावायज्ञानाद् दृढतमस्य च / धारणात्वप्रतिज्ञानात् स्मृतिहेतोविशेषतः // 21 // " तत्त्वार्थश्लो० पृ० 221 / “स एव दृढतमावस्थापन्नो धारणा / " प्रमाणनय० 2 / 10 / “महोदये च कालान्तराविस्मरणकारणं हि धारणाभिधानं ज्ञानं.."। अनन्तवीर्योऽपि-तथा निर्णीतस्य कालान्तरे तथैव स्मरणहेतुः संस्कारो धारणा इति...।" स्या० रत्नाकर पृ० 349 / “स्मृतिहेतुर्धारणा" प्रमाणमीमां० 1 / 1 / 29 / 1 ईहा धारणायाः आ०, भां० / 2 कार्यत्वेन। ३-दानाद्युक्तम् आ० / 4 "बहुबहुविधक्षिप्रानिसृतानुक्तध्रवाणां सेतराणाम् / " तत्त्वार्थसू० 1 / 16 / " . निसृतासन्दिग्धध्रुवाः...” तत्त्वार्थाधि० सू० 1616 / ५-मानं न आ० वि० /