________________ 172 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरिक दुष्टत्वान्न स्वाकारमात्रीलम्बनं ज्ञानम् / किं तर्हि ? तद्वयतिरिक्तबाह्यार्थीलम्बनम् , ततो विलक्षणप्रतिभासत्वात्। यद्विज्ञानं यद्विलक्षणप्रतिभीसं न तत्तदोलम्बनम् यथा रूपविलक्षणप्रतिभासं रसज्ञानं न रूपालम्बनम् , स्वाकाराद् विलक्षणप्रतिभासच घंटादिज्ञानमिति / न चायमसिद्धो हेतुः ; अन्तर्मुखाऽऽकारतया प्रतिभासमानज्ञानाकाराद् बहिर्मुखाकारतया 5 प्रतिभासमानघटादिज्ञानस्य विलक्षणप्रतिभासत्वप्रसिद्धेरिति / कथं तदनन्तरं तद् भूतम् ? इत्याह-'सन्मात्रम्' इति / सन्मात्रविषयत्वात् सन्मात्रकमि (मि ) त्युच्यते / किं तत् ? दर्शनम् 'आलोकः' इति यावत् / तत् किं विवृतिव्याख्यानम् - करोति ? इत्यंत्राह-'स्वविषय' इत्यादि / उत्तरम् स्वोत्तरकालभाविनं परिणामम् विकारम् प्रतिपद्यते यत् 'दर्शनम्' इति सम्बन्धः / कथम्भूतं परिणामम् ? इत्याह- 10 'स्व' इत्यादि / स्वशब्देन उत्तरः परिणामो गृह्यते / तस्य विषयः अवान्तरो मनुष्यत्वादिजाति विशेषः तस्य व्यवस्थापनम् सङ्कर-व्यतिकरव्यतिरेकेण नियतरूपेण योजनम् , तस्मै विकल्पः निर्णयात्मा यस्य स तथोक्तः तम् इति / तस्य किन्नाम इत्याह-'अवग्रहः' इति / आद्यशब्दलभ्यं फलं दर्शयन्नाह-'पुनः' इत्यादि / पुनः अवग्रहोत्तरकालम् , अवग्रहेण विषयीकृतः अवग्रहीकृतः अवान्तरमनुष्यत्वादिजातिविशेषः तस्य विशेषः कर्णाट-लाटादिभेदः तस्य आकाङ्क्षणम् भवितव्यताप्रत्ययरूपतया ग्रहणाभिमुख्यम् ईहा भवति / तथा तेन कर्णाटादिप्रकारेण ईहितविशेषनिर्णयोऽधायः / ननु दर्शनादीनामन्योन्यं भेदैकान्ते क्षणिकत्वप्रसङ्गाद् अपसिद्धान्तप्रसक्तिः, अभेदैकान्ते पुनः अन्यतमस्यैव प्रसङ्गाद् व्यपदेशभेदो दुर्लभः स्यात् , इत्यत्राह- 'कथश्चिद्' इत्यादि / कथञ्चित् न सर्वात्मना "दर्शनादीनाम् अभेदेऽपि एकत्वेऽपि न केवलं भेदे परिणामविशेषाद् व्यपदेशस्य शब्दस्य भेदः नानात्वं सुघटमेवेति / अवायाऽनन्तरं धारणामुक्त्वा चतुर्विधं मतिज्ञानमुपसंहरन कारिकार्धमाह धारणा स्मृतिहेतुस्तन्मतिज्ञानं चतुर्विधम् / विकृतिः--स्मृतिहेतुर्धारणा संस्कार इति यावत् / ईहाधारणयोरपि ज्ञानात्मकत्वमुन्नेयं तदुपयोगविशेषात् / १-त्रावल-श्र० / २-र्थावल-श्र० / 3 यदि ज्ञानं भा० / ४-भासनम् श्र० / ५-दावलम्बश्र०। 6 घटज्ञानमिति भां०, श्र०। ७-त्व सिद्धेः भां० / अस्य च साकारवादस्य विविधभङ्गया खण्डनं निम्नग्रन्थेषु द्रष्टव्यम् / न्यायमं० पृ. 540 / शास्त्रदी० 111 / 5 / तत्त्वार्थश्लो० वा० पृ०१३६। न्यायवि० टी० पृ० 129 / प्रमेयक० पृ. 27 पू० / सन्मति० टी० पृ. 459 / स्या० रत्ना०, रत्नाकराव०, सू० 4 / 47 / स्याद्वादमं० पृ० 130 / 8 इत्याह श्र० / 9 अवगृहीतः भा०, श्र० / 10 दर्शनानाम् भां०, श्र० / ११-स्य वा भे-भां०, श्र० / 12 “धारणा प्रतिपतियथास्वं मत्यवस्थानमवधारणं च। धारणा प्रतिपत्तिरवधारणमवस्थानं निश्चयोऽवगमः अवबोधः इत्यनान्तरम् / एतत्त्वार्थभा. 15