________________ 171 लघो०१।५] ज्ञानस्य साकारत्वनिराकारत्वविचारः कारेण अस्याः प्रत्यक्षत्वम् 'नीलमहं वेद्मि' इत्याद्युल्लेखेन सुप्रसिद्धमेव / व्यावृत्तिरपि संविदः संविदन्तरात् प्रतिनियतार्थग्राहकत्वस्वरूपेणैव, न पुनर्नीलादिस्वरूपेण अस्य ग्राह्यधर्मत्वात् / पदार्थानां हि स्वगतधर्मेणैव अन्योन्यं व्यावृत्तिर्युक्ता नान्यधर्मेण अतिप्रसङ्गात् , तथा च 'तत्रानुभवमात्रेण' इत्याद्यनुपपन्नम् / अनुभवमात्रेण ज्ञानस्य सारूप्येऽपि प्रतिनियताऽर्थानुभवप्रकारेण प्रतिविषयं विशेषसंभवात् / न खलु नीलग्रहणस्वभाव एव अस्य पीतग्रहणस्वभावो 5 भवितुमर्हति, तथाभूतेन च स्वभावेन प्रत्यर्थ सम्बन्धसंभवात् 'अर्थेन घटयत्येनाम्' इत्याद्यपि अनल्पतमोविलसितम् / किर्च, 'घटयति' इति 'सम्बन्धयति' इत्यभिप्रेतम् , 'अर्थसम्बद्धं निश्चाययति' इति वा ? तत्राद्यविकल्पोऽनुपपन्नः; अर्थरूपताया ज्ञानस्याऽर्थे सम्बन्धकारणत्वे तादात्म्याऽभावप्रसङ्गात् / ययोः कार्यकारणभावः न तयोस्तादात्म्यम् यथा अग्निधूमयोः, कार्यकारणभावश्च अर्थसम्ब- 10 द्धज्ञाना-ऽर्थरूपतयोरिति / द्वितीयपक्षोऽप्ययुक्तः ; अर्थसम्बद्धज्ञानेन अर्थरूपतायाः क्वचित् सम्बन्धाऽप्रतीतेः / यस्य येन सम्बन्धः कच्चिन्न प्रतिपन्नः न तस्य तन्निश्चयहेतुत्वम् यथा सह्यस्य विन्ध्येन कचिदप्रतिपन्नसम्बन्धस्य न विन्ध्यनिश्चयहेतुत्वम् , कचित्सम्बन्धाऽप्रतीतिश्च अर्थसम्बद्धज्ञानेन अर्थरूपतायाः, इति कथमसौ अर्थसम्बद्धं ज्ञानं निश्चाययेत् ? न च विशिष्टविषयोत्पादादन्यो ज्ञानस्य अर्थे सम्बन्धो घटते, स च स्वसामग्रीतः एव सम्पन्न इति अर्थरू- 15 पताप्रसाधनप्रयासो व्यर्थः / ननु निराकारत्वे ज्ञानस्य सर्व सर्वस्य ग्राहकं स्यादविशेषात्; इत्यप्यसमीचीनम ; पुरोवर्तिन्येवाऽर्थे ज्ञानस्य स्वकारणैर्नियमितत्वात् प्रदीपवत् / न खलु प्रदोपः घटादीनाम् आकारमनुकुर्वन् तेषां प्रकाशकः प्रतीयते ; प्रत्यक्ष विरोधात्। नाप्याकाररहितस्य प्रकाशकत्वे सकल घटादीनां प्रकाशकत्वं प्रसज्यते ; गृहाद्यन्तर्वर्तिनामेव प्रतिनियतानां तेषां प्रतिनियतसामग्रीप्रभव- 20 तया प्रतिनियतसामर्थ्यमासादयता तेन प्रकाशनात् / साकारतयापि अर्थप्रकाशकत्वाभ्युपगमे 'एकस्य घटज्ञानस्य त्रैलोक्योदरवर्तिनां निखिलघटानां प्रकाशकत्वप्रसङ्गः' इति चोद्ये भवतोऽपि प्रतिनियतसामग्रीप्रभवप्रतिनियतयोग्यतातो नान्यदुत्तरम् / “तदेवं साकारतापक्षस्य अनेकदोष १-त्यक्षं नी-आ० / 2 नीलादिना स्व-श्र० / ३-नुभवप्रभवप्रका-आ० / 4 च प्रत्य-मां० / 5 प्रतिनियतार्थग्राहकत्वलक्षणेन / 6 “यतोघटयति सम्बन्धयति विवक्षितं ज्ञानमर्थसम्बद्धमर्थरूपता निश्चाययति वा ?" प्रमेयक० पृ. 28 पू० / 7 "एतेन वित्तिसतायाः साम्यात सर्वैकवेदनम् / प्रलपन्तः प्रतिक्षिप्ताः प्रतिबिम्बोदये समम् // 26 // " न्यायवि० पृ० 127 पू० / “प्रकाशनियनो हेतोर्बद्धेर्न प्रतिबिम्वतः / अन्तरेणापि ताद्रूप्यं ग्राह्यग्राहकयोः सतोः // 32 // " न्यायवि० पृ० १३९पू० / ८-मापाद-श्र०। 9 “साकारत्वेऽपि चायं पर्यनुयोगः समानः""सन्मति० टी० पृ० 460 / 10 "प्रतिकर्मव्यवस्थानस्यान्यथानुपपत्तितः / साकारस्य च बोधस्य प्रमाणत्वोपवर्णनम् // 33 // क्षणक्षयादिरूपस्य व्यवस्थापकता न किम् / तेन तस्य स्वरूपत्वाद् विशेषान्तरहानितः // 34 // " तत्त्वार्थश्लो. पृ. 126 /