________________ लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरिक श्रयः-अस्य भ्रान्तत्वसिद्धौ हि 'ज्ञानाकारे' इत्यस्य सिद्धिः, तत्सिद्धौ चाऽस्य भ्रान्तत्वसिद्धि- . रिति / अनुमानञ्च शब्दादेरनित्यत्वादिकमधिगच्छद् यदि तदाकारं तर्हि धर्मरूपतैव अस्य स्यात् नानुमानरूपता / अथ अतदाकारम् ; कथमनेन तत्प्रतिपत्तिः, प्रतिपत्तौ वा किमन्यत्रापि साकारताप्रसाधनप्रयासेन ? 5 किञ्च, अर्थेन सादृश्यमात्मनः तदेव ज्ञानं प्रतिपद्यते, ज्ञानान्तरं वा ? यदि ज्ञानान्तरम् ; तत्किम् ज्ञानाऽौँ प्रतिपद्य तयोः सादृश्यं प्रतिपद्येत, अप्रतिपद्य वा ? न तावदप्रतिपद्य ; सादृश्यप्रतिपत्तेः तद्वत्प्रतिपत्तिनान्तरीयकत्वात् , न हि यमलकयोरप्रतिपन्नयोः सादृश्यं प्रतिपत्तुं शक्यम् / अथ प्रतिपद्य ; कुतस्तत्प्रतिपत्तिः-किमेकस्मादेवाऽतो ज्ञानान्तरात् , द्वाभ्यां वा ? तत्र प्रथमपक्षोऽसाम्प्रतः; तयोभिन्नकालतया एकत्र ज्ञाने प्रतिभासाऽनुपपत्तेः / यौ भिन्न१. कालौ न तयोरेकत्र ज्ञाने प्रतिभासः यथा उदयाऽस्तमनयोः, भिन्नकालौ च ज्ञानाऽर्थाविति / न चाऽनयोः भिन्नकालत्वमसिद्धम् ; ज्ञानाऽर्थयोः कार्यकारणभावतः समसमयवृत्तित्वस्य भवताऽनभ्युपगमात् / द्वितीयपक्षोऽप्यसङ्गतः ; द्वयोरपि ज्ञानान्तरयोरत्यन्तविलक्षणत्वेन तत्सादृश्यप्रतिपत्त्यहेतुत्वात् / ये अत्यन्तविलक्षणे ज्ञाने न ते कस्यचित् सादृश्यं प्रतिपत्तुं समर्थे यथा देवदत्त-यज्ञदत्तज्ञाने, अत्यन्तविलक्षणे च ज्ञानाऽर्थविषये ज्ञानान्तरे इति / न 15 चेदमसिद्धम् ; ज्ञानादुत्पन्नस्य ज्ञानाकारस्य ज्ञानस्य अर्थोत्पन्नाऽर्थाकारज्ञानादत्यन्तवैलक्ष ण्यस्य भिन्नसामग्रीप्रभवतया भिन्नविषयतया च प्रसिद्धत्वात् / ययोभिन्नसामग्रीप्रभवता भिन्नविषयता च तयोरत्यन्तवैलक्षण्यम् यथा रूपस्पर्शज्ञानयोः , भिन्नसामग्रीप्रभवता भिन्नविषयता च ज्ञाना-ऽर्थज्ञानयोरिति / अस्तु वा ताभ्यां तत्सादृश्यप्रतिपत्तिः; तथापि अनयोरपि अर्थ-ज्ञानाभ्यां साहश्यम अन्यतः प्रतिपत्तव्यम, तस्यापि अर्थज्ञानज्ञानैः साहश्यम अन्यतः इत्यनवस्था / अथ तदेव ज्ञानम् आत्मनोऽर्थेन सादृश्यं प्रतिपद्यते ; तन्न ; तत्काले अर्थस्याऽसत्त्वात् / यत्काले यन्नास्ति न तेन तद् आत्मनः स्वत एव सादृश्यं प्रतिपत्तु समर्थम यथा पुत्रकालेऽसता पित्रा "पुत्रः, नास्ति च ज्ञानकाले अर्थ इति / ततो ज्ञाने अर्थसारूप्यस्य विचार्यमाणरयाऽनुपपत्तेः 'यद् यदाकारं न भवति न तत्तस्य ग्राहकम्' इत्याद्ययुक्तम् / यदप्यभिहितम्"-'निराकारत्वे ज्ञानस्य स्वरूपस्याप्यप्रत्यक्षत्वप्रसङ्गः' इत्यादि ; तदप्यभि२५ धानमात्रम् ; स्वपरप्रकाशकत्वं हि बुद्धराकारः न पुनर्नीलाद्याकारः, अस्य अर्थधर्मत्वात् / न चाऽन्याकारेण अन्यस्य प्रत्यक्षता युक्ता ; अतिप्रसङ्गात्, किन्तु स्वाकारेण, तथाभूतेन चाऽऽ १-द्धिः अनु-भां० / २-न्तरं भिन्नं त-भां० / 3 तद्यप्र-श्र० / 4 ज्ञानयोरत्यन्तभां०, श्र० / 5 ज्ञाने इति भां०, श्र० / 6 भिन्नसामग्रीप्रभवतया च सुप्र-भां, श्र० / भिन्नसामग्रीतया प्रभवभिन्नविषयतया च आ० / ७-र्शनज्ञा-भां० / 8 अर्थज्ञानैः श्र० / 9 अर्थेऽस्याभां०, आ० / 10 पुत्रे आ० / 11 पृ. 166 पं० 2 / 12 -स्य रूपस्या-आ० / .