________________ लघी० 1 / 5] ज्ञानस्य साकारत्वनिराकारत्वविचारः ___ किञ्च, एकदेशेन सारूप्यात् नीलार्थवद् अशेषार्थानामपि ग्रहणप्रसङ्गः सत्त्वादिमात्रेणास्य सर्वत्र सारूप्याऽविशेषात् / अथ तदविशेषेऽपि नीलाद्याकारवैलक्षण्यात्तेषामग्रहणम् ; तर्हि समानाकाराणामशेषाणां ग्रहणाऽनुषङ्गः / अथ यत एव उत्पद्यते तस्यैव आकारानुकरणे ग्राहकम् न सारूप्यमात्रेण ; एवमपि समनन्तरप्रत्ययस्य तद् ग्राहकं स्यात् / तदुत्पत्ति-सारूप्याभ्याञ्च प्रामाण्यव्यवस्थायां पितरि पुत्रस्य प्रामाण्यप्रसङ्गः / किञ्च, परमाणवः प्रत्येकं परमाण्वात्मना आत्मीयमाकारं ज्ञाने समर्पयन्ति, सङ्घातात्मना वा ? तत्र प्रथमः पक्षोऽनुपपन्नः ; परमाणूनां स्वरूपेणाऽप्रतिभासनात्, तद्विपरीतस्य अनेकावयवात्मनोऽवयविनः स्थिर-स्थूलस्य प्रतिभासनात् / द्वितीयपक्षोऽप्ययुक्तः ; तेषां समुदितानामपि स्वरूपाऽपरित्यागतः तथाभूताऽवयविस्वरूपेण प्रतिभासाऽनुपपत्तेः / न खलु समुदितास्ते अणुत्वा-ऽनेकत्वे परित्यजन्ति परमतप्रवेशाऽनुषङ्गात् / न चाऽन्यथाभूतानां तेषाम् अन्यथा 10 विज्ञानजनकत्वं युक्तम् ; प्रमाणविरोधात् / तथाहि-परमाणवो न स्थूलाद्याकारेण ज्ञानं स्वरूपयन्ति, तद्रूपरहितत्वात् , यद् यद्रूपरहितं न तत् तेनाऽऽत्मना ज्ञानं स्वरूपयति यथा नीलं पीतात्मना, स्थूलाद्याकाररहिताश्च परमाणव इति / तत्सदृशत्वे च ज्ञानस्य अणुवत् तदपि मूतम् , सूक्ष्मत्वादप्रत्यक्षञ्च स्यात् / अथ समुदितानां तेषामपि प्रत्यक्षता इष्यते ; तर्हि समुदितपरमाणुवत् ज्ञानस्यापि त्रिचतुरस्र-दीर्घ-हस्व-परिमण्डल-सम-विषमादिरूपप्रसङ्गः, जलधारणाऽऽ- 15 हरणाद्यर्थक्रियाकारित्वं बाह्येन्द्रियप्रत्यक्षता च स्यात् / किञ्च, आकारो ज्ञानादभिन्नः, भिन्नो वा ? भेदे ज्ञानं निराकारमेव स्यात् / अभेदे तयोः .. अन्यतरदेव स्यात् / कथञ्चिद्भेदे तु मतान्तराऽनुषङ्गः / स्वतोऽभिन्नस्य च आकारस्य ज्ञान ग्राह्यत्वे अर्थे द्राऽतीतादिव्यवहारो न स्यात् / यत् स्वतोऽभिन्नं गृह्यते न तत्र दूरादिव्यवहारः यथा स्वरूपे, स्वतोऽभिन्नं गृह्यते च पर्वतप्रासादादिकमिति / अस्ति च अर्थे दूरादिव्यवहारः 20 'दूरे पर्वतः, निकटे प्रासादः, अतीतो राजा' इत्यादिव्यवहारस्याऽस्खलद्रूपस्य प्रतीतेः / न च आकाराधायकस्य दूराऽतीतत्वात् तथा व्यवहारः इत्यभिधातव्यम् ; जाग्रच्चेतसो दूराऽतीतवेन प्रबोधचेतसि तथा व्यवहारप्रसङ्गात् / अथ भ्रान्तोऽयं व्यवहारः अत्यन्तनिकटेऽपि ज्ञानाकारे अन्यथात्वेन व्यवहारात् ; ननु 'ज्ञानाकारे' इति कुतः ? "अस्य भ्रान्तत्वाञ्चेत् ; अन्योन्या 1 ग्रहणम् भां० / 2 “तत्सारूप्यतदुत्पत्ती यदि संवेद्यलक्षणम् / संवेद्यं स्यात् समानार्थविज्ञानं समनन्तरम् // " प्रमाणवा० 3 / 323 // ३-थमप-श्र० / ४-त्यागः तथा-भां० / 5 विज्ञानस्वरूपकत्वं आ० / 6 तत्सहशत्वं ज्ञानस्य आ० / 7 आकारमात्रस्य भां०। 8 " दूरासन्नादिभेदेन व्यकाव्यक्तं न युज्यते / तत्स्यादालोकभेदाच्चेत्तसिधानाऽपिधानयोः // तुल्यादृष्टिरदृष्टिवा सूक्ष्मोंऽशस्तस्य कश्चन / आलोकेन न मन्देन दृश्यतेऽतो भिदा यदि // " प्रमाणवा० 3 / 408-9 / “विषयाकारधारित्वे च ज्ञानस्य अर्थे दूरनिकटादिव्यवहाराभावप्रसङ्गः / " प्रमेयक० पृ. 27 पू० / ९-प्रसङ्गः स्यात् अभां० / 10 अन्यस्य भां०, श्र० / 22