________________ 168 लघीयस्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० जडस्यैव धर्मश्च नोलाद्याकार इति / न च सत्त्वादिना व्यभिचारः; तस्य जडेस्यैव धर्मत्वाऽ- . संभवात् अंजडसुखादावप्यस्य संभवात् / किञ्च, अर्थेनै सह ज्ञानस्य सर्वात्मना सारूप्यम् , एकदेशेन वा ? सर्वात्मना सारूप्ये जडत्वादर्थस्य ज्ञानमपि जडमेव स्यात् / यस्य सर्वात्मना अर्थेन सारूप्यं तज्जडम् यथा उत्त५ रोऽर्थक्षणः, सर्वात्मना सारूप्यञ्च अर्थेन ज्ञानस्येति / प्रमाणरूपताविरोधानुषङ्गश्च तद्वदेवा स्य स्यात् प्रमेयरूपताऽनुकरणात् , न चैतद् युक्तम् ; प्रमाणप्रमेययोर्वहिरन्तर्मुखाऽऽकारतया भेदेन प्रतिभासमानत्वात् / अथ एतदोषपरिजिहीर्षया एकदेशेन सारूप्यमिष्यते ; तर्हि तेनाऽजडाकारेण जडताप्रतिपत्तेरभावात् कुतः तद्विशिष्टताऽर्थस्य प्रतीयते ? यद् येन यत्र नप्रतीयते न तेन तत्र तद्विशिष्टता प्रत्येतुं शक्या यथा रूपज्ञानेन अप्रतिपन्नेन रसेन विशिष्टता मातुलि१० ङ्गादौ, न प्रतीयते च अजडाकारेण नीलादिज्ञानेन अर्थजडतेति / जडताऽप्रतीतौ च कथं नील ताऽपि प्रतीयेत ? अन्यथा नयोर्भेदः स्यात् / यस्मिन् अप्रतीतेऽपि यत् प्रतीयते तत्ततः अन्यद् यथा घटेऽप्रतीयमानेऽपि प्रतीयमानः पटः, अप्रतीयमानायामपि जडतायां प्रतीयते च नीलतेति / सुगतेन चास्याः प्रतीत्यभावे कथं सत्त्वम् ? सत्त्वे वा कथं तस्य अशेषज्ञता ? पररागादिवेदने च अस्य यदि तदाकारता स्यात् तर्हि परकीयसकलकल्पनाजालाऽनुकर१५ णात् कथं वीतरागता विधूतकल्पनाजालता च स्यात् ? अथ तदाकारानुकरणेऽपि 'मदीया एते रागादयः' इति बुद्धरभावान्नाऽयं दोषः ; कथं तर्हि परस्य ते ? तद्बुद्धिसद्भावादिति चेत् ; ननु तेन तबुद्धथाकाराऽनुकरणे अयमेव दोषोऽनुषज्यते / अथ एतदोपाद् विभ्यता 'अतदाकारेण ज्ञानेन जडतादिकं प्रतीयते' इत्यभ्युपगम्यते; तर्हि नीलाद्याकारोऽपि अतदाकारेणैव ज्ञानेन प्रतीयताम् अलमाकाराऽऽग्रहग्रहाऽभिनिवेशेन / अथ नीलतां तत् तदाकारतया प्रतिपद्यते 20 जडतां त्वतदाकारतया"; तदिदम् "अर्धजरतीयन्यायाऽनुसरणम् / 1 जडत्वस्यैव श्र० / 2 अजडे सु-श्र० / 3 “सर्वात्मना हि सारूप्ये ज्ञानमज्ञानतां व्रजेत् / साम्ये केनचिदंशेन स्यात्सर्वं सर्ववेदनम् // " प्रमाणवा० 3 / 435 / तत्त्वसं० श्लो० 2039 / सन्मति०टी० पृ० 464 / " सारूप्येऽपि समन्वेति प्रायः सामान्यदूषणम् / अतदर्थ परावृत्तमतद्रूपं तदर्थदृग // 27 // " न्यायवि० पृ. 129 उ० / ४“अर्थेन सर्वात्मना तत्र स्वाकाराधाने ज्ञानस्य जडताप्रसक्तः उत्तरार्थक्षणवत् / एकदेशेन तदाधायकत्वे सांशताप्रसक्तः / " शास्त्रवा० टी० पृ. 159 पू० / 5 अर्थे जड-श्र०। ६-था तयोः श्र० / 7 तत्ततोऽन्यथा आ० / 8 "अन्यरागादिसंवित्तौ तत्सारूप्यसमुद्भवात् / प्राप्नोत्यावृतिसद्भावः औपलम्भिकदर्शने // 2048 // " तत्त्वसं० / 9 च न स्यात श्र० / १०-तया प्रतिपद्यते तदिदम् भा०, श्र० / 11 “तद्यथा-अर्धे जरत्याः कामयन्ते अर्ध नेति / " पातं० महाभा० 4 / 1 / 78 / " मुखं न कामयन्ते अङ्गान्तरं तु कामयन्ते जरत्याः / " महाभा० प्रदीप / “अर्धं मुखमात्रं जरत्याः वृद्धायाः कामयते नाङ्गानीति सोऽयमर्धजरतीन्यायः।" ब्रह्मसू० शां. भा० रत्नप्रभा 1 / 2 / 8 / “नहि . कुक्कुटादेरेकदेशो भोगाय पच्यते एकदेशस्तु प्रसवाय कल्प्यते..." ब्रह्मसू ०शां०भा० आनन्दगि० 1 / 2 / / 'अस्य न्यायस्य विशेषस्वरूपं विविधस्थलनिर्देशपुरस्सरं लौकिकन्यायाञ्जल्यां ( पृ० 7 ) द्रष्टव्यम् /