________________ लघी० 115] ज्ञानस्य साकारत्वनिराकारत्वविचारः 167 कारः स्वज्ञानेनाऽऽलम्ब्यमानो गौः सास्नादिमान् , अर्थाकारञ्चाऽर्थज्ञानं स्वज्ञानेनाऽऽलम्ब्यते इति सिद्धा साकारता ज्ञानस्येति / अत्र प्रतिविधीयते / यत्तावदुक्तम्-'ज्ञानमर्थस्य सम्बद्धस्य असम्बद्धस्य वा ग्राहकम् ' इत्या . दि; तत्र सम्बद्धस्यैव तद् ग्राहकम् , सम्बन्धश्च ज्ञानार्थयो योग्यसाकारवादप्रतिक्षेपपुरस्सरं ___ तालक्षणो न पुनः तदुत्पत्तिलक्षणः अर्थाज्ज्ञानोत्पत्तेनिषेत्स्यमान- 5 ज्ञानस्य निराकारत्व त्वात् / तथा च 'अर्थाकारं ज्ञानम् अर्थकार्यत्वात्' इत्यत्र व्यवस्थापनम् असिद्धो हेतुः / तल्लक्षणसम्बन्धश्च ( न्धाच्च ) ज्ञानमर्थस्य समकालस्य भिन्नकालस्य वा ग्राहकं न विरुद्धयते, अत: ‘भिन्नकालं कथं ग्राह्यम्' इत्याद्ययुक्तम् / किञ्च, स्वागमा ( गम) प्रसिद्धं ज्ञानमाश्रित्य साकारता प्रसाध्यते, अनुभवप्रसिद्धं वा ? तत्राद्यविकल्पे स्वागमप्रसिद्धस्याऽविकल्पकज्ञानस्य आकाशकुशेशयप्रख्यत्वात् न तत्सा- 10 कारेतरचिन्तयाऽस्माकं किञ्चित् प्रयोजनम् / यदेव हि प्रवृत्तिनिवृत्त्यादिकारणं प्रमाणभूतम् आबालमनुभवप्रसिद्धं सविकल्पकं ज्ञानं तदेव निराकारतया प्रसाधयितुमुपक्रान्तम् / न खलु 'स्वाकारो ज्ञानानां विषयः' इति प्रतियन्ति लौकिकाः, अनात्मभूतार्थोन्मुखतया तैस्तेषामर्थपरिच्छेदकत्वप्रतिज्ञानात् / न च लोकव्यवहारातिक्रमेण अर्थव्यवस्था युक्ता; " प्रामाण्यं व्यवहारेण " [ प्रमाणवा० 2 / 5 ] इत्यादिविरोधाऽनुपङ्गात् / प्रत्यक्षादिविरोधप्रसङ्गाच्च ; तथाहि- 15 प्रत्यक्षेण तावत् विषयाकाररहितमेव ज्ञानं प्रतिपुरुषमहमहमिकया घटादिग्राहकमनुभूयते, न पुनर्दर्पणादिवत् प्रतिविम्बाक्रान्तम् / अनुमानेन च ; तथाहि-यद् येन स्वात्मनोऽर्थान्तरभूतं वेद्यते तत्तेन अतदाकारेण यथा स्तम्भादेर्जाड्यम्, वेद्यते च स्वात्मनोऽर्थान्तरभूतं ज्ञानेन नीलादिकमिति / नचाऽयमसिद्धो हेतुः ; नीलादेर्शानाद् भेदप्रसाधनात् / __ का चेयं ज्ञानस्य साकारता नाम-स्वसंविद्रूपता, वैशद्यादिस्वभावः, अर्थाकारोल्लेखः, 20 अर्थाकारधारित्वं वा ? तत्र आद्यविकल्पत्रये सिद्धसाध्यता; ज्ञाने तत्त्रयस्यापि सद्भावात् , तदन्यतमापाये ज्ञानस्य ज्ञानरूपत्वस्यैवाऽनुपपत्तेः वैशद्यादिरूपतया स्वपरव्यवसायस्वभावत्वातस्य / अर्थाकारधारित्वं तु ज्ञानस्याऽनुपपन्नम् ; प्रमाणविरोधात् / तथाहि-नीलाद्याकारो ज्ञाने न सङ्क्रामति जडस्यैव धर्मत्वात् , यो" जडस्यैव धर्मः स ज्ञाने न सङ्क्रामति यथा जडता, १-नावल-श्र० / 2 पृ० 165 पं० 11 / 3 “सम्बन्धो हि योग्यतास्वभाव एव ज्ञानार्थयोः प्राद्यग्राहकभावाङ्गम् न तु तादात्म्यादिः / " स्या० रत्ना० पृ० 163 / ४-नार्थयोग्य-भां०, आ० / 5 लक्षणसम्बन्ध-भां०। 6 न रुद्धयते भां०, श्र० / ७-कल्पकज्ञानं भां० / 8 " किमिदमाकारत्वं वेदनानां यद्वशात् प्रतिनियतार्थपरिच्छेदः स्यात् किम् अर्थाकारोल्लेखित्वम् , अर्थाकार धारित्वं वा ?" रत्नाकराव० 4 / 47 / स्याद्वादमं० पृ० 131 / ९-ति अर्थस्यैव भां० / 10 यो अर्थस्यैव भां० /