________________ 166 __ लघीयख्यालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० कथमिव आकारमन्तरेण तद्ग्रहणम् ? यद् यदाकारं न भवति न तत् तस्य ग्राहकम् यथा शुक्लसंवेदनं नीलस्य, ग्राहकञ्चार्थस्य ज्ञानमिति / निराकारत्वाभ्युपगमे च ज्ञानस्य स्वरूपस्याप्यप्रत्यक्षत्वप्रसङ्गः, उत्पद्यमानं हि ज्ञानं 'नोलमिदम् , पीतमिदम्' इत्याद्याकारेणैव प्रतीयते, तदभावे कथमिव अस्य प्रत्यक्षता स्यात् ? निराकारत्वे च ज्ञानानामन्योन्यं भेदोऽपि सुदुर्लभः , 5 नीलाद्याकारो हि संविदः संविदन्तराद् व्यावर्तकं रूपम् , तदभावे कुतः किं व्यावर्तेत ? तस्माद् यतो 'नीलस्येदं विज्ञानम् , पीतस्येदम् ' इत्यधिगतिर्नियतकम्मिका सम्पद्यते तदेवं रूपमस्यां क्रियायां साधकतमत्वात् प्रमाणम् , संविदः संविदन्तराच्च भेदकम् / उक्तञ्च "तत्रोऽनभवमात्रेण ज्ञानस्य सदृशात्मनः / भाव्यं तेनाऽऽत्मना येन प्रतिकर्म विभज्यते // " [प्रमाणवा० 3 / 302 ] इति / 10 न च अर्थरूपताऽत्यये 'नीलस्येयं बुद्धिः' इति बुद्धेरर्थेन घटना घटते, तथाविधायाश्चास्याः सर्वार्थ प्रत्यविशेषात् प्रतिकर्मव्यवस्थाऽपि दुर्घटा / तथा च तत्स्वरूपं प्रतिपदार्थ निराकारतयाऽ प्राप्तभेदं सद् व्यवह'णामर्थक्रियार्थिनां नियतार्थप्रतीत्यहेतुतया कथं नियतेऽर्थे प्रवृत्तेरङ्ग स्यात् ? तदुक्तम् “अर्थेन घटयत्येनां न हि मुक्त्वार्थरूपताम् / तस्मात् प्रमेयाधिगतेः प्रमाणं मेयरूपता // " [प्रमाणवा० 3 / 305 ] इति / न च कारणत्वाऽविशेषात् अर्थवत् चक्षुरादेरप्याकारानुकरणं ज्ञाने किन्न स्यादित्यभिधातव्यम् ? तदविशेषेऽपि अपत्येन पित्राकारानुकरणवत् नियतस्यैवाऽऽकारानुकरणोपपत्तेः। उक्तञ्च “यथैवाँऽऽहारकालादेः समानेऽपत्यजन्मनि / पित्रोस्तदेकमाकारं धत्ते नान्यस्य कस्यचित् // " [ प्रमाणवा० 3 / 366 ] इति / 20 ततो यद् यदाकारं स्वज्ञानेन आलम्ब्यते तत्तदाकारमेव प्रतिपत्तव्यम् यथा सास्नादिमदा १-रत्वानभ्यु-श्र० / २-स्यास्य प्र-भां० / ३-दं ज्ञानम् भां० / “तदाकारं हि संवेदनमर्थ व्यवस्थापयति नीलमिति पीतञ्चेति / यथा च आकारयोगिता ज्ञानस्य तथोत्तरत्र प्रतिपादयिष्यामः / " प्रमाणवा• अलं० पृ० 2 / 4 “स्वसंवित्तिः फलं चास्य ताद्रूप्यादर्थनिश्चयः / विषयाकार एवास्य प्रमाण तेन मीयते // 10 // " प्रमाणसमु० / “किमर्थं तर्हि सारूप्यमिष्यते प्रमाणम् ? क्रियाकर्मव्यवस्थायास्तल्लोके स्यान्निबन्धनम् // ४२९॥"सारूप्यतोऽन्यथा न भवति नीलस्य कर्मणः संवित्तिः पीतस्य वेति क्रियाकर्मप्रतिनियमार्थमिष्यते..." प्रमाणवा. अलं. पृ०११९ / “अर्थसारूप्यमस्य प्रमाणम् / " न्यायबि. 1 / 19 / “..'प्रमाणं तु सारूप्यं योग्यतापि वा // 1344 // " तत्त्वसं० / 5 उद्धृतञ्चैतत्-न्यायमं० पृ. 538 / मीमांसाश्लो० वा० टी० शून्यवाद श्लो० 20 / 6 “अर्थेन घटयत्येना... अन्यत्स्वभेदो ज्ञानस्य भेदकोऽपि कथञ्चन // 305 // तस्मात् प्रमेयाधिगतेः साधनं मेयरूपता / " प्रमाणवा० / “तदुक्तम्-अर्थेन घटयेदेनां.. "सिद्धिवि० टी० पृ. 119 / सन्मति.टी.पृ०५१० / प्रमेयक-पृ. 28 पू. / न्यायवि. टी• पृ० 126 उ• / प्रमाणमी• पृ० 33 / स्याद्वादमं• पृ. 136 / 7 'तदेकस्याकार' प्रमाणवा० /