________________ 10 लंघी० 5] ज्ञानस्य साकारत्वनिराकारत्वविचारः उपयोगः पुनः अर्थग्रहणव्यापारः। विषयान्तराऽऽसक्ते चेतसि सन्निहितस्यापि विषयरयाऽग्रहणात् तसिद्धिः / इदानीं 'सन्निपात' इत्यादि व्याचष्टे 'योग्यता' इत्यादिना। तयोः विषयविषयिणोः अनन्तरं भूतमुत्पन्नम् , अनेन अनन्तरशब्दः साक्षात् सन्निपातशब्दस्तु सामर्थ्याद् व्याख्यातः / न खलु तयोः योग्यदेशाद्यवस्थानलक्षणसन्निपाताऽसंभवे पूर्वमिव तदनन्तरं कस्यचित् प्रादुर्भावो युक्तोऽतिप्रसङ्गात् / किं तत् तदनन्तरभूतम् ? इत्याह- 5 अर्थग्रहणम् / अर्थस्य अनन्तरोक्तस्य ग्रहणम् न पुनः स्वरूपगताऽर्थाकारमात्रस्य, ज्ञानस्य अर्थाकारतया स्वप्नेऽप्यप्रतीतेः। घटादेर्बहिर्देशसम्बद्धस्य अन्तर्देशसम्बद्धेन ज्ञानेन अहमहमिकया प्रतीयमानेन प्रतिप्राणि प्रतिभासप्रतीतेः / ननु यद्यर्थादुत्पन्नं तदाकारानुकारि च तन्न स्यात् कथं तर्हि नियतार्थग्राहकम् ? इत्यत्राह-योग्यतालक्षणम् / योग्यता नियतार्थग्रहणसामर्थ्यम् लक्षणम् स्वरूपं यस्य तत्तथोक्तमिति / ____ अत्र.सौत्रान्तिकमतावलम्बी प्राह-ज्ञानम् अर्थस्य ग्राहकं भवत् किं सम्बद्धस्य ग्राहक भवेत् , असम्बद्धस्य वा ? न तावदसम्बद्धस्य; अतिप्रसङ्गात् / साकारज्ञानवादिनो बौद्धैकदेशि ___ अथ सम्बद्धस्य; किं तादात्म्येन, तदुत्पत्त्या वा ? तत्राद्यविक- सौत्रान्तिकस्य पूर्वपक्षः ल्पोऽयुक्तः; योगाचारमतप्रसङ्गात् / तदुत्पत्तिरपि न समसमये संभवति; सव्येतरगोविषाणवत् समसमयवर्तिनोः कार्यकारणभावाऽभावात् , मिन्नसमये च 15 अर्थस्य विनष्टत्वात् नाऽऽकारमन्तरेण ग्रहणं घटते / "तदुक्तम् "भिन्न कालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदुः / हेतुत्वमेव युक्तिज्ञाः तदाकारार्पणक्षमम् // ' [ प्रमाणवा० 3 / 247 ] इति / प्रयोगः-अर्थाकारं ज्ञानम् अर्थकार्यत्वात् उत्तरार्थक्षणवत् / तथा, यद् यस्य ग्राहक तत्तदाकारम् यथा स्वरूपग्राहकं ज्ञानं स्वरूपाकारम् , नीलाद्यर्थस्य ग्राहकञ्च ज्ञानमिति / किञ्च,अतीताऽनागतविषयज्ञानानां केशोण्डुकादिज्ञानानाञ्च बाह्यार्थस्य ग्राह्यस्याऽभावात् 1 "तन्निमित्तः आत्मनः परिणाम उपयोगः / " सर्वार्थसि०, राजवा० 2 / 18 / तत्त्वार्थसार पृ० 111 / " उपयोगः प्रणिधानम् / ' तत्त्वार्थभा० 2 / 19 / “उपयोगस्तु रूपादिग्रहणव्यापारः / " स्या० रत्ना० पृ० 344 / 2 अनन्तरभूत-भां०, श्र० / 3 अन्तरश-भां० / ४-शब्दश्च सा-भां० / 5 खल्वनयोः भां० / 6 पूर्वमेव भां० / 7 “स्वावरणक्षयोपशमलक्षणयोग्यतया हि प्रतिनियतमर्थं व्यवस्थापयति / " परीक्षामु० 2 / 9 / ८-हकमसम्ब-भां०, श्र० / ९-मतप्रतिप्रसवप्रसङ्गात आ०, भां० / 10 यदुक्तम् आ० / 11 उद्धृतञ्चैतत्-न्यायवि० टी० पृ. 135 उ० / प्रमेयरत्नमा० पृ. 48 / “युक्तिज्ञा ज्ञानाकारार्पणक्षमम्" प्रमाणवा० / 12 “यथा चिरकालीनाध्ययनादिखिन्नस्य उत्थितस्य नीललोहितादिगुणविशिष्टः केशोण्डिकाख्यः कश्चिन्नयनाग्रे परिस्फुटति,अथवा करसम्मृदितलोचनरदमिषु येयं केशपिण्डावस्था सा केशोण्ड्रिकः।" शास्त्रदी० युक्तिस्नेहन० सि. 1 / 15 / पृ० 98 /