________________ 163 लघी० 1 / 5] शक्तिस्वरूपवादः प्रतिवन्धकमण्याद्यभावो न दाहादौ कारणम् अन्वय-व्यतिरेकशून्यत्वात् , यद् यत्रान्वय-व्यतिरेकशून्यं न तत्तत्र कारणम् यथा पटे कुम्भकारः, तथा चायम् , तस्मात्तथेति / अन्यथासिद्धान्वयव्यतिरेकत्वाद्वा पैङ्गल्यादिवत् / किञ्च, यदि तन्मन्त्राद्यभावो दाहहेतुः तदैकतन्मन्त्रादिव्यक्तिसद्भावेऽपि अन्यतन्मन्त्रादिव्यक्तीनां भूतभविष्यद्वर्तमानानां तद्देशे तत्काले च अभावाः सन्तीति दाहोत्पत्तिः किन्न 5 स्यात् ? न च एकव्यक्तथभावो नास्ति इति व्यक्तयन्तराभावैः स्वकार्य न कर्त्तव्यम् , न हि भावव्यक्तथन्तराणि न सन्ति इति एका भावव्यक्तिः स्वकार्यन्न करोति इति प्रातीतिकम् / न च अनन्तानां सम्भूय कार्यकारित्वं वापि प्रतिपन्नम् / न चैक एवायमभावः तन्मन्त्रादिजातेरेकत्वात् इत्यभिधातव्यम् ; जातेः अभावेषु भवताऽनभ्युपगमात् , अन्यथा अभावानां द्रव्य-गुण-कर्मान्यतमरूपताप्रसङ्गो जातेस्तत्रैव परिसमाप्तत्वात् / किञ्च, मण्यादिमात्राऽभावो दाहहेतुः , प्रतिबन्धकाऽभावो वा ? तत्राद्यपक्षोऽयुक्तः ; मण्यादिमात्राऽभावे दाहाऽदर्शनात् / न च विशिष्टमण्याद्यभावः कारणम् ; तद्वैशिष्ट्यस्य कार्यकसमधिगम्यस्य नामान्तरेण शक्तरेवाऽभिधानात् / द्वितीयपक्षोऽप्यनुपपन्नः; प्रतिबन्धकस्तम्भितविषभक्षणे पश्चात् प्रतिबन्धकनिवृत्तौ मरणप्रसङ्गात् / अत्र हि प्रतिबन्धकेन रसाभावः क्रियते; अतिशयान्तरं वा ? न तावद्रसाभावः: नीरसत्वस्य विषेऽनुपलम्भात् , रसस्य तत्र प्रत्यभि- 15 ज्ञायमानत्वात् / नापि अतिशयान्तरम् ; अदृष्टकल्पनाप्रसङ्गात् / यदि चाऽतिशयः कश्चिदतीन्द्रियः कल्प्येत तदा शक्तिकल्पने को विद्वेषः ? ततो निराकृतमेतत्-‘दहनादयो निजसहकारिसन्निधिलक्षणमेव सामर्थ्यमुद्वहन्ति' इत्यादि ; निजसहकारिसन्निधिलक्षणसामर्थ्याद् उक्तप्रकारेण तेषां कार्यकारित्वानुपपत्तेः / तल्लक्षणसामर्थ्यात् तदुत्पत्त्यभ्युपगमे च बीजादेरप्यत एवं अङ्कुरादिकार्योत्पत्तिप्रसङ्गात् , स्रग्वनितादेश्च सुखाद्युत्पत्त्यनुषङ्गात् अतीन्द्रियस्ये- 20 श्वरस्य अदृष्टादेश्व कल्पनाऽनुपपत्तिः / यर्च 'प्रतिबन्धकमण्यादिसन्निधाने कार्याऽकरत्वादकारणत्वम्' इत्युक्तम् ; तत्र किमिदं कार्याऽकरत्वं नाम-किं कार्यप्रतियोगित्वम् ,प्रतिबद्धत्वं वा ? प्रतियोगित्वे पुनस्ततो दाहोत्पत्तिर्न स्यात् जलादिवत् / नापि प्रतिबद्धत्वम् ; प्रतिमण्यादिसन्निधानेऽपि कार्याऽकरत्वप्रसङ्गात् / किञ्च, सामान्यरूपा शक्तिः प्रतिबन्धकेन प्रतिबद्ध यते, द्रव्यस्वभावा, गुणरूपा वा ? 25 "प्रतिबन्धश्चास्याः प्रध्वंसः, अभिभवो वा ? तत्र न तावत् सामान्यरूपायाः शक्तेः प्रध्वंस 1 प्रतिबन्धकमन्त्रमण्यादि / 2 दाहादिद-भां०, श्र० / 3 कल्पेत आ० / 4 एव वांकु-भां०, श्र० / ५-स्पत्तिप्रसङ्गात् भां०, श्र०। 6 यच्च तन्मण्यादि-भां०, श्र०। 7 पृ० 162 पं० 16 / 8 अत्र भा०, श्र० / 9 प्रतिबन्धकमण्यादिसन्निधानेऽपि उत्तम्भकमण्यादिसन्निधौ कार्यकरत्वाप्रसंगात भां०, श्र० / प्रतिबन्धकमण्याद्यपेक्षया प्रतिमण्यादिः उत्तम्भकमण्यादिः मल्लप्रतिमल्लन्यायेन / 10 प्रतिबन्धकश्चास्याः भा० /