________________ लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० कथं परिहर्तुमुत्सहते,अतस्तत्परिहारे किञ्चिन्नियामकं वक्तव्यम्-तच्च सामान्यम् , विशेषः, द्वयम्, शक्तिर्वा स्यात् ? न तावत्सामान्यम् ; व्यक्त यन्तरेऽप्यनं(प्यनु )गमात् / नापि विशेषः ; यतो न विशेषान्तरजन्यकार्य प्रति विशेषो विशेषरूपैतां परित्यजति / नापि द्वयम् ; अत एव, अतः शक्तरेव तन्नियामकत्वमङ्गोकर्त्तव्यम् / स्वरूप-सहकारिशक्तस्तन्नियामकत्वे च लोकप्रतीति५ विरोधः, प्रतीयते हि लोके स्वरूप-सहकारिशक्तियुक्तेष्वपि बलीवर्द-मनुष्यादिषु 'अयमत्र कार्ये समर्थः, अयञ्चाऽसमर्थः अल्पसामर्थ्यो वा' इत्यादिव्यवहारः प्रतीतिश्च / तत्सिद्धं तन्निमित्तं स्वरूप-सहकारिशक्तिव्यतिरिक्तं सामर्थ्यम् , अन्यथा अयं विभागो न स्यात् , सर्वेषां समानमेव कार्यकारित्वं तदकारित्वं वा स्यात् / किञ्च, सहकारिलाभमात्रात् पदार्थाः कार्य कुर्वन्ति, स्वभावभेदे सति सहकारिलाभाद्वा ? 10 प्रथमपक्षे तल्लाभे सत्यपि स्वरूपस्याऽविशिष्टत्वात् मृत्पिण्डाद् घटस्येव पटस्याप्युत्पत्तिः स्या त्, 'स्वभावभेदश्च शक्तिभेदे सत्येव स्यात्' इत्युक्तम् / किञ्च, अग्नेः स्वरूपसहकारिसन्निधिमात्रात् कार्यकारित्वाऽभ्युपगमे प्रतिबन्धकमण्यादिसन्निधानेऽपि तत्प्रसङ्गः, न हि तदाऽग्नित्वस्य करतलाऽनलसंयोगस्य वा सहकारिणो विनाशोऽन्यत्वं वाऽस्ति; तत्स्वरूपस्याऽविकलस्य प्रत्यभिज्ञायमानत्वात् / ततो दृष्टरूपात् कारणादनुद्भवत् कार्य तदतिरिक्तं किञ्चिन्निमित्तान्तरं 15 परिकल्पयति, सा च शक्तिः / ननु तन्मण्यादिसन्निधौ सामग्रयभावाद् वढेः कार्याऽकरणत्वादकारणत्वम् , करतलाऽनलसंयोगवद् दाहोत्पत्तौ तन्मण्याद्यभावस्यापि सामग्रीत्वात् ; तदसत् ; यतः कोऽत्र अभावः सहकारी-किं प्रतिबन्धकमण्यादेः प्रागभावः, प्रध्वंसः, अन्योन्याभावः, अत्यन्ताऽभावः, अभा वमानं वा ? यदि प्रागभावः; तदा विद्यमानेऽप्येकस्मिन्मणौ मण्यन्तरप्रागभावाऽपेक्षया दाहो२० त्पत्तिः स्यात् / अथ तस्यैव प्रागभावं प्राप्य असौ दाहं विधत्ते ; तर्हि तत्प्रध्वंसे, सत्यपि वा अस्मिन् उत्तम्भकमणिसन्निधौ दाहोत्पत्तिर्न स्यात् / एतेन प्रध्वंसस्य सहकारित्वं प्रत्युक्तम् ; तप्रागभावे, तत्सत्त्वेऽपि वा उत्तम्भकमण्युपनिपाते दाहाऽनुत्पत्तिप्रसङ्गात् / नोप्यन्योन्याभावः ; प्रतिबन्धकमण्यादिसद्भावे-प्यस्य "संभवात दाहोदयानुषङ्गात् ,"तत्प्राक-प्रध्वंसाभावसंभवे तद नुदयप्रसङ्गाच्च / अत्यन्ताऽभावस्य च प्रतिबन्धकमण्यादावसंभवादेव सहकारित्वं प्रत्याख्यातम् / 25 नाप्यभावमात्रं सहकारि ; अभावचतुष्टयव्यतिरिक्तस्य अभावमात्रस्यैवाऽसंभवात् / ततः 1 कथ हि पोहितुमु-भां० / 2 व्यक्तंतरप्यनग-भां० / ३-तां त्यजति भां०, श्र० / 4 हि स्वरूपकारिशक्ति-भां० / ५-पि चाबद्ध मनु-मां०। 6 चास्ति भां० श्र० / 7 "कश्चास्याभावः कार्योत्पत्ती सहकारी स्यात्-किमितरेतराभावः, प्रागभावो वा स्यात् , प्रध्वंसो वा, अभावमानं वा ? प्रमेयक० पृ. 52 पू० / स्या. रत्ना० पृ. 288 / 8 तत्प्रतिध्वंसे आ०, भां०। 9 नान्योन्याभां०, श्र० / १०-संभवतो दा-श्र० / 11 तत्प्रध्वंसा-श्र० /