________________ लघी० 115] शक्तिस्वरूपवादः 161 कारणजन्यकार्येष्वपि तुल्यरूपम् / न हि स्फोटं प्रत्येव अग्नेरग्नित्वम् यथा पुत्रापेक्षं पितुः पितृत्वम् , भृत्यापेक्षं वा स्वामिनः स्वामित्वम् , अपि तु सर्व प्रत्येव अग्निः अग्निरेव / न हि कार्यान्तराणि प्रति अग्निः अनग्निर्भवति, अतो दाहवत् पिपासाद्यपनोदमपि विदध्यात् / ननु असाधारणं स्वरूपं व्यवस्थानिमित्तम् , तथाभूतचेदम् अग्नित्वमग्नेः अनग्निभ्यो व्यावृत्तिनिमित्तत्वात् , दाहत्वमपि अदाहाद् दाहस्य व्यावृत्तिहेतुत्वात् , अतः कार्यकारणभावप्रतिनि- 5 यमस्य दृष्टेनैव उपपत्तेर्नाऽदृष्टकल्पना उपपन्ना; तदयुक्तम् ; अनग्निव्यावर्तकतया तुल्यस्वरूप- . त्वाऽभावेपि अग्नित्वस्य प्रतिनियतकार्योत्पादकत्वव्यवस्थापकत्वाऽनुपपत्तेः तस्यापि सर्वकार्याणि प्रति साधारणत्वात् , न हि कार्यान्तरेष्वपि अग्नित्वस्याग्नेः अनग्निभ्यो व्यावर्तकत्वं नास्ति येनाऽस्य तज्जनकत्वं न स्यात् , जलादिकारणापेक्षया हि अग्नित्वस्याऽसाधारणस्वरूपता न जलादिकार्यापेक्षयेति / एवं जलस्यापि शैत्यादिजनको प्रतिनियमो न घटते; तन्नियमनिमि- 10 त्तस्य॑ च जलत्वस्य दाहादावपि साधारणत्वात् , अतो जलमपि दहेद् अनलोऽपि पिपासामपनुदेदविशेषात् / .. अथ दाहस्याऽग्निजन्यत्वे दाहत्वजातेय॑वस्थानिमित्तत्वात् क्षित्यादीनामदाहरूपतया अनिजन्यत्वाऽप्राप्तिः, शैत्यादीनाञ्च जलादिजन्यत्वे तंजातेः प्रयोजकत्वात् तद्रहितत्वेन दाहस्य कथमिव जलादिजन्यत्वप्रसङ्गः ? तदसमीचीनम् ; दाहत्वजातेः शैत्याद्यपेक्षया अतुल्यत्वेऽपि 15 जलादिकारणान्तरापेक्षया तुल्यत्वान्न प्रतिनियतकार्य-कारणभावव्यवस्थाहेतुत्वम् / ननु यत् सामान्यं यत्र समवेतं तदेव तत्र कार्यकारणभावव्यवस्थाहेतुः, न चाऽग्नित्वं जलादौ समवेतं नापि दाहत्वं शीतादौ ; इत्यप्यसुन्दरम् ; एवमप्यग्निवादेः कारणत्वादिव्यवस्थापकत्वाऽयोगात, "यद्धि अकारणादावृत्तं कारणादावनुवृत्तं तद् असाधारणत्वात् कारणत्वं व्यवस्थापयति, अग्नित्वादिकं च अकारणेभ्यो न व्यावृत्तं भूतभाविषु अग्निविशेषेष्ववि (ध्वपि वि) द्यमानत्वेन 20 अकारणेष्वपि गतत्वात्। न च असत्त्वेन भूत-भविष्यतोर्वह्निविशेषयोः वह्नित्वाश्रयत्वानुपपत्तिः, वह्नित्वावच्छेदेन 'आसीद् वह्निः, भविष्यति वह्निः' इति 'प्रत्ययद्वयाऽनुत्तत्तिप्रसङ्गात् / अस्तु वा "सत्त्वविशेषितविशेषाश्रयत्वम् ; तथापि न वह्नित्वस्य विपक्षाद् व्यावृत्तिः विवक्षितवह्निविशेषजन्यधूमं प्रति वह्निविशेषान्तरस्याऽकारणत्वात् , तजन्यञ्च प्रति अन्यस्याऽकारणत्वात् , अतः अकारणेऽपि विपक्षे वह्नित्वस्योपलम्भान्न स्वाश्रयकारणत्वप्रयोजकत्वम् / 25 किञ्च, अनग्निरूपाऽर्थेभ्यो व्यावर्तमानमग्नित्वम् अग्निजन्यकार्य प्रति "अनग्निरूमार्थानां कारणत्वमपाकरोतु , निखिलाऽग्निव्यक्तीनाम् अन्योन्यकार्यजननं प्रति कारणत्वसङ्करप्रसङ्गं 1 अतीन्द्रियशक्तिरूपा / 2 असाधारणत्वेऽपि / तुल्यारू-श्र० / 3 अग्नित्वस्य / 4 अग्नित्वस्य / 5 कार्यान्तरजनकत्वम् / ६-वे सति नि-भां०। 7 कार्यकारणनियम। ८-स्य ज-आ० / 9 शैत्यादिजातेः / 10 असाधारणत्वेऽपि / 11 यद्यका-श्र०।१२-कंवा अ-१० / १३-सीदग्निःभ-भां०,श्र० / 14 प्रत्ययानुपप-भां०। 15 सत्यविशेषित-आ०। १६-पि च विप-श्र०।१७ अग्निरूपा-भां.। 21