________________ लघीयनयाल कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० तस्याः सदा सत्त्वात् / ननु तन्नित्यत्वेऽपि सहकारिणां कादाचित्करवात् कार्ये कादाचित्कत्वं युक्तं तदपेक्षया तस्याः कार्यकारित्वप्रतिज्ञानात; इत्यप्ययुक्तम् ; शक्तिकल्पनावैयाऽनुषङ्गात् , स्वरूपस्यैव सहकारिकारणापेक्षस्य कार्योत्पादकत्वोपपत्तेः / अनित्यत्वे तु पदार्थस्वरूपमात्र सम्पाद्याऽसौ , निजाऽऽगन्तुकलक्षणसामोत्पाद्या , अतीन्द्रियशक्तयन्तरनिष्पाचौँ वा ? 5 प्रथमपक्षे पदार्थस्वरूपस्य शाश्वतिकत्वेन शश्वच्छक्तरुत्पादप्रसङ्गात् स एव सदा सातत्येन कार्योत्पादप्रसङ्गः। निजागन्तुकसामर्थ्यसम्पाद्यत्वे तु शक्तेः कार्यमेव तत्सम्पाद्यमस्तु, अलमप्रातीतिकाऽतीन्द्रियशक्तिकल्पनया। अतीन्द्रियशक्तयन्तरनिष्पाद्यत्वेऽपि अनवस्था, तस्याऽपि कादाचित्कतया तदन्तरनिष्पाद्यत्वप्रसङ्गात् / ___ तथा प्रतिकार्यम् एका शक्तिः, अनेका वा ? न तावदेका; तभेदात् कार्यभेदाश्रयणात् / 10 अर्थ अनेका; किमसौ शक्तिमतो भिन्ना, अभिन्ना वा ? भेदे अपसिद्धान्तप्रसङ्गः। अभेदे तु किं शक्तिभ्यः तद्वानभिन्नः, तद्वतो वा शक्तयः ? प्रथमविकल्पे शक्तिस्वरूपवत् शक्तिमतोऽप्यनेकत्वमतीन्द्रियत्वञ्च स्यात् / तत्तादात्म्ये तस्यापि तावद्धा भेदात् अतीन्द्रियस्वरूपस्वीकाराच्च, . अन्यथा तत्तादात्म्याऽनुपपत्तिः / द्वितीयविकल्पे तु शक्तिमत्स्वरूपवत् शक्तीनामप्येकत्वानुषङ्गः, एकस्मादभिन्नानां तत्स्वरूपवद् अनेकत्वाऽनुपपत्तेः कुतः कार्यनानात्वसंभव इति ? 15 अत्र प्रतिविधीयते / यत्तावदुक्तम् -' अन्त्यतन्तुसंयोगानन्तरम्' इत्यादि ; तदसमीक्षि - ताऽभिधानम् , अतीन्द्रियशक्तिमन्तरेण प्रतिनियतकार्यकारणभावाऽनुपशक्तिमस्वीकुर्वतो नैयायिक 1 पत्तेः / पँतिनियतं हि कारणं कार्यञ्चोपलभ्यते पटः तन्तुभ्यो न वीरणादेः . स्य निराकरणम् - दाहः कृशानोः न जलादेः , सेयं व्यवस्था परिदृश्यमानपदार्थस्वरूपादनुपपद्यमाना तदतिरिक्तं तद्गतमेव धर्मान्तरत्व (रं स्व ) सिद्धयर्थमाक्षिपति / ननु चेयं 20 व्यवस्था तद्वयतिरेकेणापि अन्वय-व्यतिरेकाभ्यां पटं प्रति तन्तूनामेव उत्पादनसामर्थ्याऽध्यव सायात् सिद्धयति इत्यभिदधतोऽपि स्वरूपातिरेकिणी शक्तिरेव शरणम् , तदनभ्युपगमे द्रव्यस्वरूपाऽविशेषात् सर्वस्मात् सर्वसंभवो दुर्निवारः / "स्वभावभेदान्न सर्वस्मात् सर्वसंभवश्चेत् तर्हि "स्वोभावः कार्यनियमहेतुर्विशिष्टं स्वरूपम् इत्यङ्गीकृता सकलार्थाश्रिता भेदवती विचित्रा शक्तिः / - यदप्युक्तम् -' स्वरूप-सहकारिशक्तिप्रसादादेव' इत्यादि; तदप्युक्तिमात्रम् ; याश्रयजन्य२५ कार्यनिरपेक्षतया सामान्यस्य स्थितत्वात् , "स्वानाश्रयभूतकारणान्तरजन्यकार्य प्रति साधार णत्वेन 'कार्यकारणभावप्रतिनियमव्यवस्थापकत्वाऽसंभवाच्च / अग्नित्वं हि स्फोटवद् विजातीय..१ तस्याः सत्त्वात् आ०, ब०, ज०, भा० / २-द्या सा-श्र० / -द्योऽसौ भां० / ३-त्पाद्यः भां०। ४-द्यो वा भां० / 5 तथानेका भां०, श्र० / ६पृ० 158 पं० 11 / 7 प्रतिविनियतम् आ० / यो वी-भां०, श्र० / ९-केणान्वय-भां० / 10 स्वभेदान्न आ० / 11 स्वभावः भां०, श्र० / 12 पृ० 158 पं० 16 / 13 स्वम् अग्नित्वसामान्यं तस्य आश्रयोऽग्निः तज्जन्यं कार्यं स्फोटादि / 14 स्वस्य अमित्वस्य अनाश्रयभूतं कारणान्तरं जलादि / १५-कार्यकारणभावं प्रति-आ। .