________________ 159 लघो० 1.5] शक्तिस्वरूपवादः भेदात् / तत्र स्वरूपशक्तिः तन्त्वादीनां तन्तुत्वादिरूपा, चरमसहकारिरूपा तु सहकारिशक्तिः; न हि सन्तोऽपि तन्तवः अन्त्यतन्तुसंयोगं विना पटमारभन्ते / तथा च, अनलत्वाऽभिसम्बन्धाद् अनल एव शीतापनोदं विदधाति न जलं तदभावात् , जलत्वाऽभिसम्बन्धाच जलमेव पिपासामपनुदति नत्वनलः, तयोः प्रतिनियतसामान्याश्रयत्वेन अन्योन्यकार्योत्पादं प्रति अनङ्गत्वात् / प्रयोगः-दहनादयो निजसहकारिसन्निधिलक्षणमेव सामर्थ्यमुद्वहन्ति असति प्रतिबन्ध- 5 के कार्योत्पादकत्वात्, यद् असति प्रतिबन्धके कार्यमुत्पादयति तन्निजसहकारिसन्निधिलक्षणमेव सामर्थ्य बिभर्ति, यथा कर्म विभागेन 'निवृत्ते पूर्वसंयोगे उत्तरसंयोगोत्पादिकां निजसहकारिसन्निधिलक्षणामेव शक्तिम् , तथा च दहनादयः, तस्मात्तेऽपि तथा इति / न चैवं प्रतिबन्धकमण्यादिसन्निधानेऽप्यग्नेः स्फोटादिकार्यकारित्वप्रसङ्गः निजसहकारिसन्निधिलक्षणायाः शक्तेः सद्भावात् इत्यभिधातव्यम् / तदुत्पत्तौ करतलाऽनलसंयोगवत प्रतिबन्धकमण्याद्यभावस्यापि 10 सहकारित्वात् / न चाऽभावस्य अवस्तुस्वात् कारणत्वाऽभावः ; यतो दर्शनं नः प्रमाणम् , दृश्यते च 'नास्ति' इति ज्ञाने प्रमाण-प्रमेयाऽभावस्य कारणत्वम् , प्रत्यवाये नित्याऽकरणस्य, पतनकर्मणि संयोगाऽभावस्य च / किच', असौ शक्ति: नित्या, अनित्या वा ? यदि नित्या; तदा सर्वदा कार्योत्पादप्रसङ्गः स्थिता, आगन्तुका च / सत्त्वाद्यवच्छिन्नं स्वरूपमवस्थिता शक्तिः / आगन्तुका तु दण्डचक्रादिसंयोगरूपा।" न्यायम० पृ० 495 / " नहि नो दर्शने शक्तिपदार्थ एव नास्ति, कोऽसौ तर्हि ? कारणत्वम् / किं तत् ? पूर्वकालनियतजातीयत्वम्, सहकारिवैकल्यप्रयुक्त कार्याभाववत्त्वं वेति "अनुग्राहकत्वसाम्यात् सहकारिष्वपि शक्तिपदप्रयोगात् ":" न्यायकुसु० 1 / 13, पृ० 63 / 1 "उत्क्षेपणादिकं हि कर्म विभागेन निवर्तिते पूर्वसंयोगे उत्तरसंयोगोत्पादे स्वरूपलक्षणायाः पूर्वसंयोगप्रध्वंसलक्षणसहकारिरूपायाश्च दृष्टशक्तेरतिरिक्तशक्तिभाक् न भवत्येव.." स्या. रत्ना० पृ. 286 / निवर्तिते आ० / २-संयोगोत्पादकां आ० / 3 " यदपि विषदहनसन्निधाने सत्यपि मन्त्रप्रयोगात् तस्कार्याऽदर्शनं तदपि न शक्तिप्रतिबन्धनिबन्धनमपि तु सामग्यन्तरानुप्रवेशहेतुकम्.."न्यायमं० पृ. 42 / "न मन्त्रादिसन्निधौ कार्यानुत्पत्तिः अदृष्ट रूपमाक्षिपति, यथा अन्वयव्यतिरेकाभ्याम् अवधृतसामर्थ्यो वह्निदाहस्य कारणम् तथा प्रतिबन्धकमन्त्रादिप्रागभावोऽपि कारणम्''भावस्य भावरूपकारणनियतत्वदर्शनात् अभावकार्यत्वं नास्तीति चेन्न; नित्यानां कर्मणामकरणात् प्रत्यवायस्य उत्पादात्, अन्यथा नित्याकरणे प्रायश्चित्तानुष्टानं न स्याद् वैयात् / " प्रश० कन्दली पृ० 145 / “अत्रोच्यते-भावो यथा तथाऽ भावः कारणं कार्यवन्मतः / प्रतिबन्धो विसामग्री तद्धेतुः प्रतिबन्धकः // 10 // " न्यायकुसु. स्त. 1, पृ. 43 / “मण्याद्यभाव विशिष्टवह्नयादेः दाहादिकं प्रति स्वातन्त्र्येण मण्यभावादेरेव वा हेतुत्वम् , अनेनैव सामञ्जस्ये अनन्तशक्तितत्प्रागभावप्रध्वंसाभावकल्पनानौचित्यात् ..." मुक्तावली का० 2 / 3 "किञ्च, शक्तिरभ्युपगम्यमाना पदार्थस्वरूपवन्नित्या अभ्युपगम्येत, कार्या वा ? नित्यत्वे सर्वदा कार्योदयप्रसङ्गः, सहकार्यपेक्षायां तु स्वरूपस्यैव तदपेक्षा अस्तु किं शक्त्या ? कार्यत्वे तु शक्तेः पदार्थस्वरूपमात्रकार्यत्वं वा स्यात् , सहकार्यादिसामग्नीकार्यत्वं वा ? "...न्यायमं० पृ० 42 /