________________ 158 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० विषयप्रकाशकत्वाद्वा प्रदीपवत् / यथैव हि-रूपज्ञानम्, रसज्ञानम्' इत्यादिप्रतिनियतज्ञानव्यपदेशहेतवो रूपादयः नाहङ्कारिकाः तद्वत् 'चक्षुर्ज्ञानम् रसनज्ञानम्' इत्यादितद्वन्यपदेशहेतुत्वाच्चक्षुरादीन्द्रियाण्यपि। तथा, नाहङ्कारिकाणि इन्द्रियाणि पौद्गलि काऽनुग्रहोपघाताश्रयत्वात् दर्पणादिवत् / यथैव हि दर्पणादयः पौगलिकैर्भरमपाषाणादिभिः क्रियमाणाऽनुग्रहोपघाताश्रय५ भूता नाहङ्कारिकाः किन्तु पौद्गलिकाः तथा अजनादिभिः पौद्गलिकैः क्रियमाणानुग्रहोपघाताश्र यभूतानि चक्षुरादीन्द्रियाण्यपि / मनोऽपि नाहङ्कारिकम् , अनियतविषयत्वाद् आत्मवदिति / ततः प्रतिनियतेन्द्रिययोग्यपुद्गलारब्धत्वं द्रव्येन्द्रियाणां प्रतिपत्तव्यम् इति सिद्धं पुद्गलात्मकत्वं तेषामित्यलमतिप्रसङ्गेन / भावेन्द्रियमिदानी व्याचष्टे-लब्ध्युपयोगी भावेन्द्रियम् , अर्थग्रहणशक्तिः लब्धिः / ननु च अतीन्द्रियशक्तिसद्भावे प्रमाणाभावात् कथं लब्धिरूपं भावेन्द्रियं व्यवतिष्ठेत ? तथाहि-अन्त्यतन्तुसंयोगानन्तरमुपजायमानः पटः अङ्गुल्यग्निसं'अतीन्द्रियशक्तिसद्भावे , योगानन्तरञ्च दाहो नाधिककारणापेक्षः, तस्य तावन्मात्रान्वयव्य- . प्रमाणाऽभावात् / इति वदतो नैयायिकस्य पूर्वपक्षः- तिरकानुविधायित्वेन अन्यहेतुकत्वाऽनुपपत्तेः / न च अतीन्द्रिय शक्तिमन्तरेण 'पिपासापनोदो जलात् नानलात्' 'शीतापनोदोऽ 15 नलात् न पुनर्जलात्' इति नियमाऽनुपपत्तेः, तदुपपत्तये साऽभ्युपगन्तव्या इत्यभिधातव्यम् ; स्वरूप-सहकारिशक्तिप्रसादादेव तन्नियमोपपत्तेः / द्विविधा हि शक्तिः स्वरूप-सहकारिशक्ति 1 “भौतिकत्वे तु भूतानां भेदात् नियतगुणोत्कर्षयोगित्वात् नियतविषयग्राह्यन्द्रियप्रकृतित्वं तथा च प्रदीपादितेजोरूपरसाद्यनेकविषयसन्निधानेऽपि रूपस्यैव प्रकाशि भवितुमर्हति / एवमिन्द्रियान्तरेष्वपि वक्तव्यम् / तदेष विषयनियमः प्रकृतिनियमकारित इन्द्रियाणाम् इति भौतिकानि इन्द्रियाणि..." न्यायमं. पृ० 480 / 2 एषाऽविकला चर्चा स्या० रत्नाकरे (पृ० 346) द्रष्टव्या। “अनेन खलु आहङ्कारिकाणि इन्द्रियाणीति यदाहुः सांख्याः तन्निराकृतम् , निराकरणहेतुमाह-ऐकात्म्य इति श्लिष्टं पदम् , सांख्यानां किल राद्धान्ते कारणात्मकं कार्यं तच्च कारणम् इन्द्रियाणाम् अहङ्कार इति ऐकात्म्यम् एककारणत्वम् , तथा च ऐकात्म्यम् एकत्वं घ्राणादीनाम् इत्यनियमः स्यात्.." न्यायवा० 1 / 1 / 12 / न्यायवा. ता. टी. पृ. 223 / “पञ्चेन्द्रियाणि जीवस्य मनसोऽनिन्द्रियत्वतः / बुद्धचहङ्कारयोरात्मरूपयोस्तत्फलत्वतः // 1 // " तत्त्वार्थश्लो० 2 / 15 / 3 "लब्ध्युपयोगी भावेन्द्रियम् / " तत्त्वार्थसू० 2 / 18 / 4 " लम्भनं लन्धिः / का पुनरसौ ? ज्ञानावरणक्षयोपशमविशेषः / " सर्वार्थसि० 2 / 18 / तत्त्वार्थसार श्लो० 44 पृ. 111 / "इन्द्रियनिर्वतिहेतुः क्षयोपशमविशेषो लब्धिः / " राजवा० 2 / 18 / “स्वार्थसंविद्योग्यतैव च लब्धिः / " तत्त्वार्थश्लो० 2 / 18 / “आवरणक्षयोपशमप्राप्तिरूपा अर्थग्रहणशक्तिर्लब्धिः / " स्या० रत्ना० पृ० 344 / जैनतर्कपरि० पृ० 114 पू० / 5 व्यवतिष्ठते आ० / 6 “न तावत् मीमांसकवदतीन्द्रिया शक्तिरस्मा. भिरभ्युपेयते किन्तु कारणानां स्वरूपं वा सहकारिसाकल्यं वा / " न्यायवा० ता० टी० पृ० 103 / " स्वरूपादुद्भवत्कार्यं सहकार्युपहितात् / न हि कल्पयितुं शक्तं शक्तिमन्यामतीन्द्रियाम् // " न्यायम० पृ. 1 / “किन्तु योग्यतावच्छिन्नस्वरूपसहकारिसन्निधानमेव शक्तिः / सैवेयं द्विविधा शक्तिरुय्यते अव