________________ लघी०१५] इन्द्रियाणामाहङ्कारिकत्वनिरासः अकत्वात् तोयशीतस्पर्शव्यञ्जकवाय्ववयविवत् / श्रोत्रस्य तु पुद्गलात्मकत्वम् अतीवाऽनुपपन्नम् ; शब्दस्य स्वसमानजातीयविशेषगुणवतैव इन्द्रियेण ग्राह्यत्वोपपत्तेः; तथाहि-शब्दः स्वसमानजातीयविशेषगुणवता इन्द्रियेण गृह्यते, सामान्यविशेषवत्त्वे सति बाखैकेन्द्रियप्रत्यक्षत्वात् , बायैकेन्द्रियप्रत्यक्षत्वे सति अनात्मविशेषगुणत्वाद्वा रूपादिवदिति / ____तदेतदविचारितरमणीयम् ; पृथिव्यादीनामत्यन्तभिन्नजातीयत्वेन द्रव्यान्तरत्वाऽसिद्धितः 5 प्रत्येकमिन्द्रियाणां तदारब्धत्वाऽसिद्धेः / द्रव्यान्तरत्वाऽसिद्धिश्च तेषां विषयपरिच्छेदे प्रसाधयिष्यते। ___ यदप्युक्तम् -'पार्थिवं घ्राणम्' इत्यादि ; तदप्यसमीचीनम् ; हेतोदिनकरकिरणैः उदकसेकेन चाऽनेकान्तात् / दृश्यते हि तैलाभ्यक्तस्य आदित्यरश्मिभिर्गन्धाभिव्यक्तिः, भूमेस्तु उदकसेकेनेति / 'आप्यं रसनम्' इत्याद्यप्ययुक्तम् ; हेतोलवणेन व्यभिचारात् , तस्याऽनाप्यत्वेऽपि रूपादिषु सनिहितेषु रसस्यैवाऽभिव्यञ्जकत्वप्रसिद्धः / 'चक्षुस्तैजसम्' इत्यायप्यनुपपन्नम् ; हेतोः मा- 10 णिक्याद्युद्योतेनाऽनैकान्तिकत्वात् , स हि रूपादीनां मध्ये रूपस्यैव प्रकाशको न च तैजस इति / 'वायव्यं स्पर्शनम्' इत्याद्य यसाम्प्रतम् ; कर्पूरादिना हेतोय॑भिचारात् , स हि सलिलादी रूपादिषु सन्निहितेषु शीतसशस्यैवाऽभिव्यञ्जको न च वायव्य इति / पृथिव्योजःस्पर्शाऽभिव्यञ्जकत्वाच्च स्पर्शनस्य पृथिव्यादिकार्यत्वाऽनुषङ्गः, वायुस्पर्शाऽभिव्यजकत्वात् वायुकार्यत्व. वत् / चक्षुषश्च तेजोरूपाभिव्यञ्जकत्वात् तेजःकार्यत्ववत् पृथिव्यप्समवाथिरूपाऽभिव्यञ्जक- 15 त्वात् पृथिव्यप्कार्यत्वप्रसङ्गः / रसनस्य च आप्यरसाभिव्यञ्जकत्वाद् अप्कार्यत्ववत् पृथिवीरसाभिव्यञ्जकत्वात् पृथिवीकार्यत्वप्रसङ्गः / 'शब्दः स्वसमानजातीयविशेषगुगवता' इत्याद्यपि स्वगृहप्रक्रियोपदर्शनमात्रम् ; शब्दे नभोगुणत्वस्य प्रतिषेत्स्यमानत्वात् / ततो नेन्द्रियाणां प्रतिनियतभूतकार्यत्वं व्यवतिष्ठते प्रमाणाऽभावात् / एतेन आहङ्कारिकत्वमपि इन्द्रियाणां साङ्ख्यपरिकल्पितं प्रत्याख्यातम् ; तत्रापि प्रमाणाऽ 20 भावाऽविशेषात् , प्रमाणबाधासद्भावाच्च / तथाहि-नाहङ्कारिसाङ्ख्यपरिकल्पितस्य काणि इन्द्रियाणि, अचेतनत्वे सति करणत्वाद् वास्यादिवत् , इन्द्रिइन्द्रियाणामाहकारिकत्वस्य प्रत्याख्यानम् ___ यत्वाद्वा कर्मेन्द्रियवत् / न मनसा व्यभिचारः; द्रव्यमनसोऽनाह ___ङ्कारिकत्वाऽभ्युपगमात् / नापि भावेन्द्रियाऽनिन्द्रियैव्यभिचारः ; 'अचेतनत्वे सति' इति विशेषणात् / नापि सुखादिभिर्व्यभिचारः ; तेषां करणत्वाऽभावात् / 25 तथा, नाहङ्कारिकाणि इन्द्रियाणि प्रतिनियतज्ञानव्यपदेशनिमित्तत्वाद् रूपादिवत्, प्रतिनियत १-लात्मत्वम् श्र० / २-ह्यतोप-श्र० / 3 बाह्येन्द्रि-आ०, ब०, ज०, भां० / 4 पृ० 156505 / ५-धनुप-श्र० / 6 सर्वमेतद् अक्षरशः प्रमेयकमलमार्तण्डे (पृ० 62 ) स्याद्वादरत्नाकरे च ( पृ० . 345 ) वर्तते / ७-माणभा-श्र०। 8 " अभिमानोऽहङ्कारः तस्माद् द्विविधः प्रवर्त्तते सर्गः / एन्द्रिय एकादशकः तन्मात्रापञ्चकश्चैव // 24 // " सांख्यका / 9 "एकाहङ्कारप्रकृतित्वे तु एक वा सर्वार्थ' सर्वाणि वा सर्वार्थानि स्युः / विषयनियमात्तु प्रकृतिनियमोऽप्येषामनुमीयते / न्यायकलिका पू० /