________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० ननु च इन्द्रियाणामविशेषतः पुद्गलात्मकत्वमयुक्तम् ; अत्यन्तभिन्न जातीयेभ्यः पृथिव्या दिभ्योऽत्यन्तभिन्नजातीयानां चक्षुरादीनामाविर्भावविभावनात् / तथा 'अत्यन्तभिन्नजातीय यपृथि- च न्यायभाष्यम्-" पृथिव्यप्तेजोवायूनां प्राणरसनचक्षुःस्पर्शनेन्द्रिय व्याद्यारब्धत्वमिन्द्रियाणाम्' / इति नैयायिकस्य पूर्वपक्षः / भावात् ( भावः )" [ ] इति / अमुमेवार्थमनुमानतः समर्थयतेतन्निरसनश्च पार्थिवं घ्राणम् रूपादिषु सन्निहितेषु गन्धस्यैवाऽभिव्यञ्जकत्वात् , यद् यत्तथाविधम् तत्तत् पार्थिवं दृष्टम् यथा नागर्णिकाविमर्दककरतलादि, रूपादिषु सन्निहितेषु गन्धस्यैवाऽभिव्यञ्जकञ्च घ्राणम् , तस्मात् पार्थिवमिति / आप्यं रसँनम् रूपादिषु सन्निहितेषु रसस्यैवाऽभिव्यञ्जकत्वात् लालावत् / चक्षुस्तैजसं रूपादिषु सन्निहितेषु रूपस्यैवाऽभिव्यञ्जकत्वात् प्रदीपवत् / वायव्यं स्पर्शनं रूपादिषु सन्निहितेषु स्पर्शस्यैवाऽभिव्य १-णामशेषपुदलात्मत्व-ब०, ज० / 2 “घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः / " न्यायसू० 1 / 1 / 12 / "पृथिव्यादीनां पञ्चानामपि भूतत्व-इन्द्रिय प्रकृतित्व-बाह्ये केन्द्रियग्राह्यविशेषगुणवत्त्वानि / " प्रशस्तपा० पृ० 22 / “तथा च न्यायभाष्यम्-पृथिव्यप्तेजोवायुभ्यो घाणरसनचक्षुस्पर्शनेन्द्रि- . . यभावः / " स्या. रत्ना० पृ. 344 / “भूयस्त्वाद् गन्धवत्त्वाच्च पृथिवी गन्धज्ञाने प्रकृतिः। तथाऽऽपस्तेजो वायुश्च रसरूपस्पर्शाऽविशेषात् / " वैशेषिकसू० 8 / 2 / 5,6 / “रसनचक्षुष्वग्-इन्द्रियाणां प्रकृतिः इति शेषः।""भूतगुणविशेषोपलब्धेस्तादात्म्यम् // " न्यायसू० 3 / 1 / 60 / " दृष्टो हि वाय्वादीनां भूतानां गुणविशेषाभिव्यक्तिनियमः, वायुः स्पर्शव्यञ्जकः, आपो रसव्यञ्जिकाः, तेजो रूपव्यञ्जकम् , पार्थिव किञ्चिद् द्रव्यं कस्यचिद् द्रव्यस्य गन्धव्यञ्जकम् , अस्ति चायमिन्द्रियाणां भूतगुणविशेषोपलब्धिनियमः तेन भूतगुणविशेषोपलब्धेर्मन्यामहे भूतप्रकृतीनीन्द्रियाणि नाव्यक्तप्रकृतीनीति" न्यायभा०। “यज्जातीयमिन्द्रियं भवति तस्य यो गुणविशेषः इतरेतरभूतव्यवच्छेदहेतुः गन्धादिः स तेनैवेन्द्रियेण गृह्यते इत्ययं नियमः / " न्यायवा० 11 / 12 / 4 "पाथिवं घ्राणं रूपरसगन्धस्पर्शेषु नियमेन गन्धस्य व्यञ्जकत्वात बाह्यपार्थिववदिति, यथा मृगमदगन्धव्यञ्जकाः कुक्कुटोचारादयः पार्थिवा इत्यर्थः / " न्यायवा. ता० टी० पृ. 530 / “.''द्रव्यत्वे सति रूपादिमध्ये गन्धस्यैव व्यजकत्वात् गन्धयुक्तद्रव्यवत् / " न्यायमं० पृ० 481 / “पार्थिवत्वेऽपि रूपादिषु मध्ये गन्धस्यैव अभिव्यञ्जकत्वं प्रमाणम् कुङ्कुमगन्धाभिव्यजकघृतवत्.." प्रश० कन्द० पृ. 35 / वैशे० उप० पृ० 128 / ""यथा कस्तूरिकाद्रव्यम् " प्रश० व्योम० पृ. 233 / ५-व्यञ्जनत्वात् श्र०। ६-कणिकापेक्षेवि-श्र० / 7 “रसनमिन्द्रियमाप्यं गन्धादिषु मध्ये नियमेन रसस्य व्यञ्जकत्वात् दन्तान्तरस्यन्दमानोदकबिन्दुवत्..." न्यायवा० ता० टी० पृ० 530 / प्रश० व्योमव. पृ० 246 / " 'मुखशोषिणां लालादिद्रव्यवत् " प्रश• कन्द० पृ. 38 / “.."सक्तुरसाभिव्यजकसलिलबत् // वैशे. उप.पृ. 128 / 8 " तैजसं चक्षुः रूपादिषु मध्ये नियमेन रूपस्य व्यक्षकत्वात् प्रदीपादिवत् / " न्यायवा० ता० टी० पृ. 530 / न्यायमं० पृ. 481 / प्रश. कन्द. पृ. 40 / प्रश. व्योम० पृ. 257 / पेशे० उप. पृ० 128 / 9 " वायवीयं त्वगिन्द्रियं गन्धादिषु मध्ये स्पर्शस्यैव व्यञ्जकत्वात् स्वेदोदबिन्दुशीतस्पर्शव्यन्जकन्यजनपवनवत् / " न्यायवा ता.टी. पृ०५३०। प्रश. व्योमव० पृ. 271 / “'अङ्गसझिसलिलशैत्याभिव्यञ्जकसमीरणवत् / " प्रश. कन्द पृ० 45 / वैशे० उ० पृ० 128 /