________________ लघी०१।५] परमब्रह्मवादः इति सिद्धः प्रत्यक्षतः शरीरादिभेदवद् आत्मनोऽपि भेदः / विभिन्नसुख-दुःखादिप्रतीत्यन्यथानुपपत्तेश्च ; न चेयं मिथ्या असन्दिग्धाऽवाध्यमानस्वरूपत्वात् आत्मप्रतीतिवत् / आत्मनोऽभेदाभ्युपगमे च एकस्मिन् सुखिते सर्व जगत् सुखितं स्यात्, दुःखिते च दुःखितम् , बद्ध बद्धम , मुक्ते मुक्तम् , प्रवृत्ते प्रवृत्तम् , निवृत्ते च निवृत्तम् ; न चैवमस्ति, अंतोऽस्ति आत्मनो वास्तवो भेदः / अन्यथा 'स एव सुखी दुःखी बद्धो मुक्तः प्रवृत्तोऽप्रवृत्तश्च' इति प्राप्नोति, न 5 चैतद् युक्तम्, परस्परविरुद्धधर्माणां नित्यनिरंशैकरूपे वस्तुनि असंभवात् / न च कल्पिताकाशभेदवद् आत्मन्यपि कल्पितभेदात् सर्वमिदमुपपत्स्यते इत्यभिधातव्यम् ; आकाशस्याऽबाधितप्रमाणप्रसिद्ध स्वरूपस्य वास्तवप्रदेशप्रसिद्धः 'घटाकाशम् , पटाकाशम् ' इत्यादिव्यवहारो युक्तः, ब्रह्मणस्तु कुतश्चिदपि प्रमाणादप्रसिद्धः खपुष्पवत् न कल्पितोऽपि भेदः संभवेत् / / योऽपि 'सर्वं खल्विदं ब्रह्म' इत्याद्यागमः तत्प्रतिपादकः प्रतिपादितः; सोऽपि द्वैतवि- 10 षयत्वाद् भेदमेव प्रसाधयति, नहि वाच्य-वाचक-प्रतिपाद्य-प्रतिपादकानां मध्ये अन्यतमस्याप्यपाये प्रमाणभूताऽऽगमसत्ता उपपद्यते / किञ्च, सकलशरीरेषु आत्मन एकत्वे शरीरभेदेऽपि प्रतिसन्धानप्रसङ्गः, यथैव हि एकस्मिन् शरीरे प्रदेशभेदेऽपि एकत्वादात्मनः प्रतिसन्धानम् , एवं शरीरभेदेऽपि स्यात् / न च कल्पितभेदानां जीवानां भिन्नत्वात् कल्पितप्रदेशभेदवत् प्रतिसन्धानाऽभावः; यतः प्रदेशानां 15 भेदे यद्यपि अन्योन्यं प्रतिसन्धानं नास्ति तथापि तद्वर्तिप्रदेश्यपेक्षया तदस्ति, एवं जीवानां भेदे परस्परप्रतिसन्धानाऽभावेऽपि तदनुस्यताऽऽत्मापेक्षया तत स्यादिति / ततः अद्वैताद्याग्रहमहाभिनिवेशं परित्यज्य अबाधबोधाधिरूढो बाह्याओं यथाप्रतीति अभ्युपगन्तव्यः, अन्यथा अप्रामाणिकत्वप्रसङ्गः / अतः सिद्धो द्रव्यपर्यायात्मार्थो विषयः / कस्याऽसौ विषयः इत्यत्राह-विषयिणो द्रव्य-भावेन्द्रियस्य / अथ किं द्रव्येन्द्रियम् ? इत्याह-द्रव्येन्द्रियं पुद्- 20 गलात्मकम् / रूपरसगन्धस्पर्शवन्तो हि पुद्गलाः तदात्मकं तत्परिणामविशेषस्वभावम् / १-मानत्वात् भां०, श्र० / 2 " कर्मद्वैतं फलद्वैतं लोकद्वैतञ्च नो भवेत् / विद्याविद्याद्वयं न स्याद् बन्धमोक्षद्वयं तथा // 26 // " आप्तमीमांसा / ३-त्तेनि-श्र०।४ अतोऽस्यात्म-श्र० / ५..."एवमविद्या कृतनामरूपोपाध्यनुरोधीश्वरो भवति व्योमेव घटकरकाद्युपाध्यनुरोधि / " ब्रह्मसू० शां०भा०२।१।१४ / 6 प्रतिसाधनं श्र०। ७-सम्बन्धाना-श्र०। 8 ब्रह्माद्वैतवादस्य नैकविधतया पालोचना निम्नग्रन्थेषु द्रष्टव्या-मीमांसाश्लो० सम्बन्धाक्षेपपरि० श्लो. 82 / शास्त्रदी. 1 / 15 / न्यायम० पृ. 526 / तत्त्वसं० पुरुषपरी० पृ. 75 / आप्तमी, अष्टश०, अष्टसह. पृ. 157, द्वि० परि० / सिद्धिवि. टी. पृ० 370 पू० / तत्त्वार्थश्लो• पृ०९४ / प्रमेयक० पृ० 17 उ० / सन्मति० टी० पृ० 285, 715 / न्यायवि० टी० पृ० 168 पू० / स्या. रत्ना० पृ० 19 / शास्त्रवा० श्लो० 543 / शास्त्रवा० टी. पू. 276 / स्याद्वादमं० पृ. 97 / प्रमेयरत्नमा० पृ. 74 / 9 “स्पर्शरसगन्धवर्णवन्तः पुद्गलाः / / सत्त्वार्थसू० 5 / 23 / / पृ० 147 पं. 4 /