________________ 154 लघीयस्त्रयालङ्कार न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० प्रत्यक्ष प्रतिभासते न पुनः पररूपेणाऽसत्त्वम् , तदप्रतीतौ तेषामप्यप्रतीतिप्रसङ्गात् स्वपररूपोपादानापोहापाद्यत्वाद् वस्तुनो वस्तुत्वस्य / यच्चान्यदुक्तम्-'क्रमेणासौ गृह्यते युगपद्वा' इत्यादि ; तदप्यतेनैव प्रत्युक्तम् ; उक्तन्यायेन युगपद्भेदप्रतिभाससंभवात् / प्रतियोग्यप्रतिपत्तौ कथं भेदः तत्सापेक्षः प्रतीयते ? इत्यप्यसुन्दरम्; यतो भेदव्यवहार एव परापेक्षो न तत्स्वरूपम् , तद्धि स्वकारणकलापात् प्रतियोगिग्रहणनिरपेक्षमेवोत्पन्नम् , कथमन्यथा अभेदेऽपि इतरेतराश्रयो न स्यात्-भेदापेक्षा हि सामान्यसिद्धिः, तदपेक्षा च भेदसिद्धिरिति ? सङ्कोचितप्रसारिताङ्गुल्यादौ च प्राक्-प्रध्वंसाभावरूपः क्रमभावी भेदः क्रमेणैव सुस्पष्टमाभासते। यञ्चोक्तम्-'अखिलार्थानाम् एक एव भेदः प्रत्यर्थ भिन्नो वा' इत्यादि ; तदप्यसाम्प्रतम् ; 10 एकत्वविरोधलक्षणत्वाद् भेदस्य, यत्र हि ऐक्यविरोधः तत्र भेदशब्दः प्रयुज्यते यथा 'नीलाद् भिन्नं पीतम्' इत्यादौ / ‘स किं धर्मिणो भिन्नोऽभिन्नो वा' इत्यादिविकल्पसंहतिरपि अनेकान्तसमाश्रयणात् प्रत्याख्याता, न खलु धर्म-धर्मिणोः सर्वथा भेदोऽभेदो वा संभवति इत्यप्रे . . वक्ष्यते। कथञ्चैवंवादिनः अभेदः सिद्धयेत् भिन्नाऽभिन्नादिविचारस्य तत्रापि कर्तुं शक्यत्वात् ? तथाहि-अयमभेदः भेदेभ्यो भिन्नः, अभिन्नो वा स्यात् ? यद्यभिन्नः ; तदाऽस्य अभेदरूपताऽ१५ नुपपत्तिः भेदस्वात्मवत्तावद्धा भेदप्रसङ्गात् / अथे भिन्नः ; तन्न; भेदेभ्यो भिन्नस्य अभेद स्याऽप्रतीतेः, अन्यथा विप्रतिपत्त्यभावप्रसङ्गः, न हि घदात् पटे भिन्ने प्रतीयमाने कश्चिद् विप्रतिपद्यते / किञ्च, असौ ततो भिन्नः प्रत्यक्षेण प्रतीयेत, अनुमानेन वा ? प्रत्यक्षेण चेत् ; किं भेदस्वरूपग्राहिणा, अन्येन वा ? न तावदन्येन ; तथाभूतस्यास्य असंवेद्यमानत्वात् , न हि अन्तर्ब२० हिर्वा भेदस्वरूपाऽनवभासिप्रत्यक्षं स्वप्नेऽपि संवेद्यते नीलसुखादिभेदस्वरूपावभासिन एवास्य सदा संवेदनात् / भेदस्वरूपग्राहिणाऽपि तेन युगपत , क्रमेण वा अभेदः प्रतीयेत ? न तावद् युगपत् ; द्वयप्रतीतेरभावात् , न खलु सर्वथा भिन्नौ भेदाऽभेदौ युगपत् कचिदपि प्रत्यक्ष प्रतिभासेते इत्यनेकान्तसिद्ध यवसरे प्रतिपादयिष्यते / नापि क्रमेण ; प्रत्यक्षस्य एकक्षणस्थायितया क्रमेणाप्यतः तत्प्रतिपत्तेरसंभवात् / तन्न प्रत्यक्षतोऽभेदप्रतिपत्तिर्घटते / नाप्यनुमानतः ; प्रत्यक्षाऽ 25 भावे तस्याप्यनुपपद्यमानत्वात् तत्पूर्वकतया तस्य भवद्भिरभ्युगमात् / / किञ्च, अभेदो नाम द्वितीयापेक्षः, तदग्रहे कथमसौ ग्रहीतुं शक्योऽतिप्रसङ्गात् , यो यदपेक्षो धर्मः नासौ तदप्रहे ग्रहीतुं शक्यः यथा दण्डाप्रहे दण्डित्वम्, द्वितीयापेक्षश्च अभेदलक्षणो धर्म इति / यथाप्रतीति अभेदसिद्ध यभ्युपगमे च भेदसिद्धिरपि तथैवाऽभ्युपगन्तव्या 1 स्वरूपपररूप-श्र० / 2 पृ. 14950 6 / ३-पेक्षापि हि श्र० / 4 पृ० 150 50 1 / 5 सुशक्य-श्र०। 6 वा स्वरूपभेदः ब०,ज० / 7 -ग्रहेपि ग्र-श्र० / 8 तथाभ्यु-श्र०