________________ लघी० 1 / 5] परमब्रह्मवादः 153 र्भावाभावात् / अनादित्वात्तस्या नायं दोषश्चेत् ; न ; एवमपि तमः-प्रकाशयोरिव ब्रह्मा-ऽविद्ययोः सहावस्थानाऽनुपपत्तेः। कर्मात्मनाञ्च अविद्यास्वभावत्वे कथमयं विचारात्मको विवेकः अविद्यात्मनो विद्यात्मकविचारविरोधात् ? कुतश्चास्योत्पत्तिः-अविद्यात एव, अन्यतो वा ? न तावदन्यतः ; अविद्याव्यतिरेकेण अन्यस्यानभ्युपगमात् / अथ अविद्यैव एवंविधविद्योपायः; तन्न; विरोधात् , न हि तमः तेजःप्रकाशोपायः प्रतीयते / ___ यच्चान्यदुक्तम्'-'स्वभावादेव वा ऊर्णनाभ इवांशूनां कारणान्तरनिरपेक्षं ब्रह्म जगद्वैचित्र्यकारणम्'; तदप्युक्तिमात्रम् ; ऊर्णनाभस्य तन्तूत्पादने अन्तर्बहिःकारणापेक्षाप्रतीतेः तत्र तदनपेक्षत्वासिद्धेः, ततः कथं तद्दृष्टान्तावष्टम्भेन ब्रह्मणस्तदनपेक्षस्य स्वभावतो जगद्वैचित्र्यहेतुत्वं प्रसाधयितुं शक्यम् ? स हि प्राणिहिंसालाम्पट्यतो वंशकुड्यादिकं बहिःकारणकलापं समासाद्य अन्तर्गतं लालारूपं पुद्गलप्रचयं प्राणिभक्षणप्रयोजनमुररीकृत्य दीर्घाकुर्वन्नुपलभ्यते / 10 ततः सहकारि-प्रयोजनानपेक्षस्य उपादानरूपस्य ब्रह्मणो जगद्वैचित्र्यमभ्युपगच्छन्नयम् उपेक्षणीय एव, दृष्टहानेः अदृष्टपरिकल्पनायाश्चाऽनुषङ्गात् / ___ यदप्युक्तम्-'भेदे प्रत्यक्षमनुमानं वा प्रमाणं वर्तेत' इत्यादि ; तत्र प्रत्यक्षत एव भेदः प्रतीयते , अक्षव्यापारानन्तरप्रभवप्रत्यये अन्योन्यासंसृष्टस्य नीलादेः प्रतिभासनात् , परस्पराऽसङ्कीर्णताप्रतिभास एव च भेदप्रतिभासः / न च अन्योन्यव्यावृत्तिर्भेदः किन्तु पदार्थ- 15 स्वरूपम् , तद्धि स्वकारणपरम्परातः त्रैलोक्यविलक्षणस्वभावमेवोत्पन्नम् / तथाभूतञ्च तत् चेतनात्मकम् अहङ्कारास्पदं ग्राहकाकारमन्तः प्रतिभासते नीलादिकं तु ग्राह्याकारं बहिः / नहि तदुभयं मुक्त्वा अद्वैतं कस्यचित्स्वप्नेऽपि किञ्चित्प्रतिभासते। ननु यदि पदार्थस्वरूपमेव भेदः तर्हि प्रथमाऽक्षसन्निपाते तत्स्वरूपप्रतिपत्तौ 'अयमस्माद् भिन्नः' इति किमिति न प्रतीयते इति चेत् ? पदार्थान्तरग्रहणसापेक्षत्वाद् अभेदवत् , यथैव हि प्रथमाऽक्षसन्निपाते प्रतीतोऽपि 20 सत्सामान्यलक्षणोऽभेदः अर्थान्तराऽप्रतीतौ 'सत् सत्' इति अनुगतात्मना नोल्लिखति, तथा भेदोऽपि / अस्तु वा अन्योन्याभावरूपो भेदः ; तथापि अस्य प्रत्यक्षतः प्रतीतिः न विरुद्धचते, सत्स्वरूपेणेव असत्स्वरूपेणाप्यर्थानां प्रत्यक्ष प्रतिभासनात् / न खलु स्वरूपेण सत्त्वमेव अर्थानां 1 पृ० 148 पं० 13 / 2 “प्राणिनां भक्षणाचापि तस्य लाला प्रवर्तते" मी० श्लो० पृ० 652 / "प्रकृत्यैवांशुहेतुत्वपूर्णनाभेऽपि नेष्यते। प्राणिभक्षणलाम्पट्यात् लालाजालं करोति यत् // 168 // " तत्त्वसं० / “ऊर्णनाभः मर्कटकः" तत्त्वसं० पं० पृ० 76 / प्रमेयक. पृ० 19 उ. / सन्मति० टी० पृ. 717 / स्या. रत्ना० पृ० 199 / ३-त्वं साध-व०, ज०। 4 पृ. 149 पं० 1 / ५-णं प्रवर्तते भां०, श्र० / 6 तद्विश्वका-१०, ज० / 7 “अन्यरूपनिषेधमन्तरेण तत्स्वरूपपरिच्छेदस्याप्यसम्पत्तेः पीतादिव्यवच्छिनं हि नीलं नीलमिति ग्रहीतं भवति नेतरथा / तथा चाह-तत्परिच्छिन्नं त्वन्यद् व्यवच्छिनत्ति इति भाववदभाक्मपि ग्रहीतु प्रभवति प्रत्यक्षम्..." न्यायमं० पृ० 529 /