________________ 152 लघीयत्रयालङ्कार न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० प्रभृतीनामपि सर्वथैकस्वभावत्वमसिद्धम् ; चित्ररूपत्वात् विशदेतरप्रतिभासविषयत्वात् सामर्यभेदाच्चात्र कथञ्चिभेदप्रसिद्धः / किञ्च, ब्रह्मणश्चित्ररूपत्वं विभिन्नप्रतिभासविषयत्वं सामर्थ्यभेदश्च अवस्थानां भेदे सति स्यात् , अभेदे वा ? न तावदभेदे; एकस्यामप्यवस्थायां तत्प्रसङ्गात् / भेदे चेत ; तर्हि तासामन्योन्यं भेदप्रसाधनाय इतरेतराभावादिरप्यायात इति सुष्ठु प्रसाधितमद्वैतम् तत्स्वरूपस्य विधिरूपत्वेन प्रतिषेधसाधकत्वाऽयोगात् ! अस्तु वा यथाकथञ्चित्तासामन्योन्यं भेदः ; तथापि अवस्थावतः ता भिन्नाः, अभिन्नाः, उभयम्, अनुभयं वा ? भेदे 'तस्य अवस्थाः' इति व्यपदेशो न स्यादनुपकारात् , उपकारे वा अनवस्था / अभेदे ; क्रिमवस्थातादात्म्येन अवस्थाता स्थितः, अवस्थातृतादात्म्येन अवस्था वा ? प्रथमपक्षे अवस्थातुरेकत्वानुपपत्तिः तद्वत्तस्यापि 10 भेदप्रसङ्गात् , न हि भिन्नतादात्म्येनावस्थितं तत्स्वरूपवदभिन्नं युक्तम् अतिप्रसङ्गात् / द्वितीय पक्षे तु अवस्थातैव नाऽवस्थाः, न हि अभिन्नतादात्म्येनावस्थितं तत्स्वरूपवद् भिन्नं भवितुमर्हति तत्स्वरूपस्यापि भेदप्रसङ्गात् / उभयपक्षेऽपि उभयदोषः / अनुभयपक्षस्त्वयुक्तः ; विधि-प्रतिषेधधर्मयोः एकतरप्रतिषेधे अन्यतरविधेरवश्यम्भावित्वेन एकत्रैकदा उभयप्रतिषेधानुपपत्तेः / ___ यदपि-कर्मात्मानुष्ठितकर्मसहायस्य कर्तृत्वात्' इत्याद्युक्तम् / तदप्ययुक्तम् ; यतः कर्मा१५ त्मनां कर्मणाञ्चोत्पादः तदायत्त एव, तद्न्यतिरेकेणाऽन्यस्याऽनभ्युपगमात् / तत्र किं प्रथम कर्मात्मनो निर्माय कर्मभिर्योजयति, कर्माणि 'वोत्पाद्य कर्मात्मनः सृजति ? 'न तावत् प्रथमम् अनुष्ठात्रभावात् कर्माणि स्रष्टुं शक्यन्ते, कर्मसम्बन्धञ्च विना नाऽनुष्ठातारो भिन्नाः कल्पयितुं शक्यन्ते' इति इतरेतराश्नयत्वान्न कस्यचित् सृष्टिः स्यात् / 'अविद्यया भेदमिवापादिताः' इत्यादि चातीव दुर्घटम् , तस्यास्ततो व्यतिरेकाऽव्यतिरेकपक्षयोरनुपपत्तेः, तथा तदनुपप२० त्तिश्च शब्दाद्वैतनिराकरणप्रघहके प्रपञ्चतः प्रतिपादिता इत्यलमतिप्रसङ्गेन / किञ्च, अज्ञानस्वभावाऽविद्या ज्ञानस्वभावं ब्रह्म च, न च ज्ञानाऽज्ञानयोः भावाऽभावयोरिव क्वचित्तादात्म्यं दृष्टम् / न च इत्थमनिर्वचनीयाऽविद्या इत्यभिधातव्यम् ; वस्तुनो भेदाऽभेदाभ्यां विचार्यमाणत्वोपपत्तेः, न चावस्तुत्वमस्याः संगच्छते, सकलभेदप्रपन्चं निष्पादयन्त्या यदि अवस्तुत्वमविद्यायाः तदा ब्रह्मणोऽप्यवस्तुत्वं स्यात् / . 25 किञ्च, ब्रह्मस्वरूपाऽप्रवेदनप्रभवोऽविद्याप्रादुर्भावः, अविद्याप्रादुर्भावप्रभवं वा ब्रह्मस्वरूपा ऽप्रवेदनम् ? न तावदाद्यः पक्ष: ; नित्योदितत्वेन ब्रह्मणः स्वरूपाऽप्रवेदनाऽसंभवात् / नापि द्वितीयः; नित्योदिते तस्मिन् प्रकाशमाने मध्यन्दिनावस्थित इवाऽकें तस्यास्तमस्तुल्यायाः प्रादु 1 “योऽपि अवस्थावतोऽवस्था पदार्थन्तरभूतां नानुमन्यते तस्यापि कथमवस्थाभेदाद् अवस्थावतो भेदो न स्यात् अवस्थानां वा कथमभेदोन भवेत् तदर्थान्तरत्वाभावात् """आप्तपरी• पृ० 21 / 2 कर्मानुष्ठित-आ० / 3 पृ. 148 पं० 9 / 4 चोत्पाद्य भा० / 5 पृ० 143 पं० 1 ...