________________ लघी० 115 परमब्रह्मवादः 151 कचित्प्रवर्तते, न च ब्रह्मणो जडत्वमङ्गीक्रियते, प्रेरकस्याऽन्यस्य प्रसङ्गतः अद्वैतहानिप्रसङ्गात् / ननु चेतनस्यापि स्वापादिदशायां तदन्तरेण प्रवृत्तिर्दृश्यते; इत्यप्यसमीक्षिताभिधानम् ; पूर्वाऽभ्यस्तस्वप्रयोजनप्रवृत्तिनिबन्धनत्वात् तत्प्रवृत्तेः, अन्यथा अनभ्यस्तेऽपि विषये तदा प्रवृत्तिः स्यात् / प्रयोजनवत्त्वे च ब्रह्मणः साकाङ्क्षत्वात् कृतार्थता न स्यात् / प्रयोजनं हि इष्टं साध्यमुच्यते, सर्वथा कृतार्थस्य च साध्याऽभावात् तद्विरुद्ध यते / किञ्च, ब्रह्म सावयवम् , निरवयवं वा ? न तावत् सावयवम् ; चिद्रूपत्वात् , नहि चितोऽ वयवानां सम्भवोऽस्ति, तत्संभवे वा अस्याः कार्यत्वप्रसङ्गात् नित्यत्वक्षतिः / निरवयवत्वे च सर्वात्मना प्रथममेव आकाशादिपरिणाम प्रतिपन्नस्य स्वरूपप्रच्युतितो जडत्वप्रसक्तेः लाभमिच्छतो मूलोच्छेदः परिणामान्तराऽसङ्क्रमश्च स्यात् , न हि जडस्यास्य आकाशरूपतां गतस्य केनचि. दप्रेरितस्य अतो व्यावृत्य परिणामान्तरे वृत्तिर्घटते, न चान्यस्तद्वथतिरिक्तः कश्चित् प्रेरकोऽस्ति 10 द्वैतप्रसङ्गात् / ततोऽयुक्तमिदं सृष्टिक्रमकथनम्-'ब्रह्मणः प्रथम आकाशलक्षणः परिणामः , तस्माद्वायुः, ततस्तेजः, ततो जलम् , ततः पृथिवी, ततो नानाविधौषधयः, ततो जरायुजाण्डजोद्वेदजादिभेदेन नानाविधः शरीरादिसर्गः विषयसर्गश्च' इति / ब्रह्मपरिणामत्वे च आकाशादीनां कर्मात्मनाञ्चाऽभेदः, कारणस्याभिन्नत्वात् / न हि अभिन्नस्वरूपादुपादानाद् भिन्नजातीयस्योत्पत्तियुक्ता, वह्नर्जल-तेजसोरुत्पत्तिप्रसङ्गात् / भोग्यभोक्तभावश्च एतेषामनुपपन्नः ; 'कर्मात्मानो 15 भोक्तारः, भूतानि भोग्यानि' इति / न हि तस्मात्तेषामभेदे विरुद्धस्वभावद्वयसंभवः, तत्संभवे वा विरुद्धधर्माऽध्यासाद् ब्रह्मणो नैकत्वम् / . यदप्युक्तम् -सुवर्ण-क्षीरादेरेकत्वेऽपि कटक-दध्यादिविचित्रपरिणामवदत्रापि सर्व घटते ; तदप्युक्तिमात्रम् ; तस्य अनेकस्वभावत्वे कथञ्चिदुत्पत्ति-विनाशवत्वे च सति विचित्रपरिणामखोपपत्तेः सर्वथैकस्वभावस्य अनुत्पत्ति-विनाशधर्मणश्चार्थस्यैवाऽसंभवात् खरविषाणवत् / क्रम- 20 श्च अर्थानां धर्मः पराधीनोऽनेकस्थः / स च द्वेधा-देशक्रमः, कालक्रमश्च / तत्र युगपद्भाविना देशप्रत्यासत्तिरूपो देशक्रमः, यथा 'वृद्धा एते क्रमेणोपविष्टाः' इत्यादिप्रतीत्यारूढः / कालप्रत्यासत्तिविशिष्टार्थानां तु कालक्रमः, 'क्रमेणोत्पद्यन्ते वर्णाः' 'क्रमेणोत्पद्यन्ते स्थास-कोशादयः' इत्यादिप्रतीतिसमधिगम्यः / युगपत्प्रतिभासमानानेकार्थानां किन्न क्रमप्रतीतिरिति चेत् ? कालस्य उपाधेरभावात् / यन्निबन्धना हि या प्रतीतिः सा तदभावे न भवति यथा देशनिबन्धना 25 क्रमप्रतीतिः देशाभावे. कालनिबन्धना चेयं प्रतीतिरिति / चित्रपट-दूरासन्नपादपा-ऽम्भोनिधि 1 "तस्माद्वा एतस्मादात्मन आकाशः संभूतः, आकाशाद्वायुः, वायोरग्निः, अग्नेरापः, अद्भ्यः पृथिवी, पृथिव्या औषधयः, औषधिभ्योऽन्नम् , अन्नात् पुरुषः'." तैत्ति० 2 / 1 / 2 पृ० 147 पं. 10 / ३“चित्रपटादिद्रव्यमेकस्वभावमपि चक्षुरादिकरणसामग्रीभेदात् रूपादिविलक्षणाकार तदनुविधानात्... दूरासन्नानाम् एकत्र वस्तुन्युपनिबद्धनानादर्शनानां पुरुषाणां निर्भासभेदात् तद्विषयस्यापि वस्तुनः स्वभाबमेदोऽस्तु / " अष्टसह. पृ. 110 /