________________ 150 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० किञ्च, अखिलार्थानाम् एक एव भेदः, प्रत्यर्थ भिन्नो वा ? यद्येक एव; तर्हि तस्याऽभेदात् तेषामप्यभेद एव स्यात् / अथ प्रत्यर्थ भिन्नः ; किं स्वतः , भेदान्तरेण वा ? पक्षद्वयेऽपि प्राक्प्रतिपादितमेव दोषद्वयं द्रष्टव्यम्। ततो भेदाऽऽग्रहं परित्यज्य अभिन्नमेकं परमब्रह्मलक्षणं पारमार्थिकं तत्त्वं प्रतिपत्तव्यमिति / ___अत्र प्रतिविधीयते / यत्तावदुक्तम्'-'चेतनाऽचेतनपरिणामेन' इत्यादि ; तदसमीचीनम् ; अत्र परिणामवाचोयुक्तरेवाऽसंभवात्। परिणामो हि पूर्व (पूर्वधर्म) परिब्रह्माहतस्य ख न त्यागेन धर्मान्तरस्वीकारः / ब्रह्म चेत् पूर्व चिद्रूपं परित्यज्य आकाशादिस्वरूपं स्वीकुरुते, तदा ब्रह्मरूपतैवाऽनेन परित्यक्ता स्यात्, चिदानन्दमयं हि ब्रह्म उच्यते / अथ स्वरूपाऽपरित्यागेनैव आकाशादिरूपतया तत् परिणमते; तन्न; इत्थम्भूतस्य परिणामस्य 10 क्वचिदप्यप्रतिपत्तेः / कार्यमेव हि तेन इत्थमर्थान्तरभूतमुत्पादितं स्यात् , तथा च उपादाना न्तरसिद्धिः तद्वथतिरिकेण तदनुपपत्तेः इत्यद्वैतहानिः, 'ब्रह्मोपादानकारणं जगत्' इति स्ववचनव्याघातश्च / किञ्च, क्षीर-सुवर्णादेः परिणामिनः कालपरिवास-सुवर्णकारकरव्यापारादिसहकारिसव्यपेक्षस्य परिणामे प्रवृत्तिर्दृष्टा, ब्रह्मणश्च सहकार्यभावात् कथं तत्र प्रवृत्तिः, परिणामस्य निष्प१५ तिर्वा ? तत्सद्भावे वा अद्वैतहानिः / भय इतरपरिणामिपदार्थविलक्षणत्वात्तस्य न दोषो ऽयम् , इदमेव हि तस्य माहात्म्यम्-यदन्यानपेक्षमपि तत् तथाविधं परिणाम प्रतिपद्यते; तन्न; दृष्टानुसारेणैव अदृष्टार्थकल्पनोपपत्तेः / यः कस्यचित् कदाचिदपि परिणामिनः स्वभावो न दृष्टः 'सोऽस्यास्ति' इति केनावष्टम्भेन कल्प्यते ? उपादानान्तरस्याऽनुपपत्तेरिति चेत्, न; तदुपपत्तेनिषेधाऽसंभवात् , दध्यादौ क्षीरादेरुपादानत्वप्रतीतेः / यदि च अन्यदुपादानान्तरं 20 नास्ति तथापि ब्रह्मणो यत् प्रमाणेनाऽनुपपन्नं रूपं तत् कथं घटेत ? स्वभावतश्चास्य परिणामे प्रवृत्तौ तदनुपरतिप्रसङ्गः; सदैकरूपपरिणामश्च स्यात् / किंञ्च, सर्वाऽपि प्रेक्षावत्प्रवृत्तिः प्रयोजनवत्त्वेन व्याप्ता / ब्रह्मणश्च विश्वप्रपञ्चरचने किं किञ्चित् प्रयोजनमस्ति, न वा ? यदि नास्ति; तदा नास्य प्रेक्षापूर्वकारिता, प्रेक्षापूर्वकारी हि न प्रयोजनमनुद्दिश्य कदाचिदपि प्रवर्तेत, अन्यत्र जडात् / द्विविधा हि प्रवृत्तिः-जडस्य, इतरस्य 25 च / तत्र जडॅप्रवृत्तिः नित्यं परायत्तैव, न हि यावत्स्वप्रयोजनमुद्दिश्य न चेतनेन प्रेर्यते तावजडः 1 पृ० 147 पं० 6 / 2 पूर्वपरि-भां०, आ० / सर्वधर्मपरि-ब०, ज० / “अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्ती धर्मान्तरोत्पत्तिः परिणामः / " न्यायभा० 3 / 2 / 15 / योगसू० व्यासभा० 3 / 13 / 3 परिहत्य आ०, ब., ज०।४ “विज्ञाममानन्दं ब्रह्म" बृहदा० 3 / 9 / 28 / ५-विधपरि-बा, ज०। ६प्रेक्षापूर्वकारिप्रवृत्तेः प्रयोजनवत्तया व्याप्तत्वात् अतः किमर्थमयं पुरुषो जगद्रचनाव्यापारमीशं करोतीति वक्तव्यम् / " तत्त्वसं० पं० पृ. 76 / 7 जडस्य प्रवृत्तिः भा०।