________________ लघी // 5] परमब्रह्मवादः यदि चार्थानां भेदो नाऽविद्याकृतः किन्तु वास्तवः, तदा तत्र प्रमाणं वक्तव्यम्-तच्च प्रत्यक्षम् , अनुमानं वा स्यात् ? न तावत्प्रत्यक्षम् ; व्यावृत्तिरूपे 'भेदेऽस्य प्रवृत्त्यनुपपत्तेः, परस्परव्यवच्छेदो हि भेदः 'अयम् अयं न भवति, 'अस्मादयं भिन्नः' इति / स च प्रत्यक्षस्याऽ विषयः; विधिविषयत्वात्तस्य, “आहुर्विधातृ प्रत्यक्षं न निषेधु विपश्चितः” [ ] इत्यभिधानात् / किञ्च, अर्थानां भेदः क्रमेण गृह्येत, यौगपद्येन वा ? न तावद् यौगपद्येन ; तस्य प्रतियोगिग्रहणसापेक्षत्वात् , न च प्रतियोग्यग्रहणे तद्ग्रहणापेक्षो भेदो अर्थस्वरूपग्रहणमात्राद् ग्रहीतुं शक्यः, अतिप्रसङ्गात् / न च आश्रय-प्रतियोगिनोर्युगपद् ग्रहणं संभवति ; प्रतियोगिप्रतिपत्तेः भेदाश्रयार्थस्वरूपप्रतिपत्तिपूर्वकत्वात् , तदप्रतीतौ 'अयमस्माद् भिन्नः' इति प्रतीतेरनुपपत्तेः / नापि क्रमेण ; इतरेतराश्रयत्वप्रसङ्गात्-घटप्रतिपत्तौ हि तद्वयवच्छेदेन पटादिप्रतिपत्तिः, तत्प्र- 10 तिपत्तौ च पटादिव्यच्छेदेन घटप्रतिपत्तिरिति / तन्न प्रत्यक्षेण भेदप्रतिपत्तिः / ___ नाप्यनुमानेन ; अस्य प्रत्यक्षपूर्वकत्वात् / सम्बन्धप्रतिपत्तिपूर्वकं हि अनुमानं प्रवर्तते, न चाऽविषये प्रत्यक्षात् सम्बन्धप्रतिपत्तियुक्ता। न च भेदेनाऽविनाभूतं किञ्चिल्लिङ्गमस्ति / न च सुख-दुःखादिप्रतीत्यन्यथानुपपत्त्या आत्मादेर्भेदानुमानं युक्तम् ; तस्या मिथ्यारूपत्वात् , अतो भेदोऽप्यपारमार्थिक एव आत्मादेः सिद्ध थेन्न वास्तवः / ___ किञ्च, असौ भेदः पदार्थेभ्यो भिन्नः, अभिन्नो वा स्यात् , उभयरूपः, अनुभयरूपो वा ? यद्याद्यः पक्षः ; तत्रापि किमसौ स्वतो भिद्यते, भेदान्तरेण वा ? यदि स्वतः; अर्थैः किमपराद्धम् येनैषां स्वतो भेदो नेष्यते ? अथ भेदान्तरेण; तदा अनवस्था, तस्याप्यपरभेदान्तरेण अर्थेभ्यो भेदप्रसङ्गात् / अथ अभिन्नः; तदा अर्थमात्रं भेदमात्रं वा स्यात् / नाप्युभयरूपः; उभयपक्षनिक्षिप्तदोषानुपङ्गात् , भेदाऽभेदयोः परस्परपरिहारस्थितिलक्षणत्वेन एकत्रैकदा संभवा- 20 ऽभावाच्च / नाप्यनुभयरूपः ; विधि-प्रतिषेधयोः एकतरप्रतिषेधे अन्यतरविधेरवश्यम्भावित्वात् / स्तूर्णनाभ इव तन्तुभिः प्रधानजः स्वभावतः / देव एकः स्वयमावृणोति स नो दधातु ब्रह्माव्ययम् // " श्वेताश्व० 6 / 10 / “उर्णनाभिर्यथा तन्तून्.." ब्रह्म० 3 / “ऊर्णनाभीव तन्तुना...,' कसुर 9 / “लोकवत्तु लीला कैवल्यम् / " ब्रह्मसू० 2 / 1 / 33 / “एवमीश्वरस्यापि अनपेक्ष्य किञ्चित् प्रयोजनान्तरं स्वभावादेव केवलं लीलारूपा प्रवृत्तिर्भविष्यति / .." शां० भा० 2 / 1 / 33 / "तन्तुनाभश्च स्वत एव तन्तून् सृजति, बलाका चान्तरेणैव शुक्र गर्भ धत्ते, पद्मिनी चानपेक्ष्य किञ्चित् प्रस्थानसाधनं सरोऽन्तरात् सरोऽन्तरं प्रतिष्ठते, एवं चेतनमपि ब्रह्म अनपेक्ष्य बाह्यं साधनं स्वत एव जगत् स्रक्ष्यति।" ब्रह्मसू० शां० भा०२।१।२५ / 1 भेदेप्यस्य भां० / 2 'नैकत्वे आगमस्तेन प्रत्यक्षेण प्रबाध्यते' इत्युत्तराद्धांशः / प्रमेयक० पृ० 17 उ० / न्यायवि० टी० पृ० 186 पू० / स्याद्वादमं० पृ. 100 / प्रमेयरत्नमा• पृ० 74 / 'प्रत्यक्षेण 'विरुध्यते' न्यायमं• पृ० 526 / सन्मति० टी० पृ. 273 / स्या. रत्ना० पृ. 191 / “यदुच्यते केचित् (?) आहुर्विधातृ"" ब्रह्मसू०. भास्करभा• पृ. 99 / /