________________ 148 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० त्तो वा ? तत्राद्यपक्षोऽयुक्तः ; तदुत्पत्तौ ज्ञानव्यतिरेकेण कारणान्तरस्याऽनुपलभ्यमानत्वात् / प्रमातृकल्पनायत्तत्वे तु एकत्वेऽप्यसौ न विरोधमध्यास्ते, सर्वत्र तत्कल्पनानुसारेणैव 'क्रनेणैते प्रतिभाताः, युगपदेते प्रतिभाताः' इत्यादिव्यवहारप्रसिद्धेः / ननु चैकत्वे ब्रह्मणो देशकालचित्रता विरुद्ध थते, तस्यां वा तदेकत्वमिति चेत् ; न ; चित्रपटादीनां देश-कालवैचित्र्येऽपि एकत्वो५ पलम्भात् / प्रतिभासभेदोऽपि एकस्य न विरोधमास्कन्दति, निश्चितैकत्वस्यापि पादपस्य दूरा सन्नपुरुषापेक्षया विभिन्नप्रतिभासविषयत्वप्रतीतेः / सामर्थ्यभेदोऽपि एकत्वं न विरुणद्धि ; जैलनिधेरेकस्यापि वीची-तरङ्ग-बुबुद-फेनाद्यनेककार्यकरणे सामर्थ्यभेदाध्यवसायात् / न चैकत्वे तस्य विचित्रसृष्टिविधानम् उत्कृष्टोऽपकृष्टप्राण्युत्पादनम् नैघृण्यहेतुकनिरतिशयनरकादिदुःखकरणञ्चाऽनुपपन्नम् ; सापेक्षस्य कर्तृत्वात् / स हि कर्मात्मानुष्ठितधर्माधर्म१० सहायो विचित्रां सृष्टिमुत्पादयति, कर्मात्मानो हि विहित-निषिद्धकर्मानुष्ठातृत्वेन प्रतिप्राणि प्रसिद्धाः / यद्यपि एकरूपब्रह्मविवर्ताः ते, तथापि अविद्यया भेदमिवापादिताः कर्मणां कर्तृत्वेन तत्फलानाञ्च भोक्तृत्वेन अवधार्यन्ते / अतस्तान पुण्याऽपुण्योपेतान सार्वघ्यज्ञानेनाऽऽकलय्य उक्तप्रकारं सर्गमारभमाणस्यास्य न नैघृण्याधुपालम्भो ज्यायान् / स्वभावादेव वा उर्णनाभ इवांशूनां कारणान्तरनिरपेक्षं ब्रह्म जगद्वैचित्र्यस्य कारणम् / १देशचित्रता काल-भां० / 2 "तथाहि-समुद्रादुदकात्मनोऽनन्यत्वेऽपि तद्विकाराणां फेनवीचीतरङ्गयुबुदादीनामितरेतरविभाग इतरेतरसंश्लेषादिलक्षणश्च व्यवहार उपलभ्यते / न च तेषामितरेतरभावानापत्तावपि समुद्रात्मनोऽन्यत्वं भवति एवमिहापि / न च भोक्तभोग्ययोरितरेतरभावापत्तिः / न च परस्माद्ब्रह्मणोऽन्यत्वं भविष्यति..." ब्रह्मसू० शां० भा० 2 / 1 / 13 / 3 "वैषम्यनैपुण्ये न सापेक्षत्वातथाहि दर्शयति / " ब्रह्मसू० 2 / 1 / 34 / “...सापेक्षत्वात् ; यदि हि निरपेक्षः केवल ईश्वरो विषमां सृष्टिं निर्मिमीते स्यातामेतौ दोषौ वैषम्यं नैपुण्यञ्च, न तु निरपेक्षस्य निर्मातृत्वमस्ति, सापेक्षो हि ईश्वरो विषमां सृष्टिं निर्मिमीते / किमपेक्षत इति चेत् ? धर्माधर्मावपेक्षत इति वदामः / अतः सृज्यमानप्राणिधर्माधर्मापेक्षा विषमा सृष्टिः इति नायमीश्वरस्यापराधः / ईश्वरस्तु पर्जन्यवद् * द्रष्टव्यः' "एवमीश्वरो देवमनुष्यादिसाधारणं कारणं भवति, देवमनुष्यादिवैषम्ये तु तत्तजीवगतान्येव असाधारणानि कर्माणि कारणानि भवन्ति तथाहि दर्शयति श्रुतिः-एष ह्येव साधुकर्म कारयति तं यमेभ्यो लोकेभ्यः उन्निनीषत एष उ एवासाधुकर्म कारयति तं यमधो निनीषते (को० ब्रा० 3 / 8 / ) पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन (बृहदा० 3 / 2 / 13 ) इति च / स्मृतिरपि प्राणिकर्मविशेषापेक्षमेव ईश्वरस्य अनुगृहीतृत्वं निगृहीतृत्वञ्च दर्शयति 'ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्' (भगवद्गी० 4 / 11) इत्येवआतीयका / " शां. भा० 2 / 1 / 34 // ४-ष्टाप्रकृष्ट-ब०, ज० ।५-द्धधर्मा-भां०। 6 सर्वमार-ब०, ज० / स्वर्गमारभ-भां० / 7 “यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामौषधयः संभव न्त / यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् संभवतीह विश्वम् // " मुण्डकोपनि० 1 / 1 / / "स यथोर्णनाभिः तन्तनुच्चरेत् यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेव अस्मादात्मनः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युचरन्ति, तस्य उपनिषत्सत्यस्य सत्यमिति प्राणाः वै सत्यं तेषामेष सत्यम् / " बृहदा• 2 / 1 / 20 / “य