________________ लघी० 15] परमब्रह्मवादः 147 नान्यथा, तच्चेदविकलम् , किमपरं तैरपेक्ष्यम् येन युगपन्न भवेयुः ? तदेवं' शब्दब्रह्मणः सद्भावग्राहकप्रमाणस्य जगत्प्रपञ्चरचनानिमित्तत्वस्य चाऽसिद्धेः न तदभ्युपगमेन अबाधबोधाधिरूढस्यार्थस्यापलापो युक्तः / नापि परमब्रह्माभ्युपगमेन तस्यापि तदसिद्धरविशेषात् / ननु " सेवं खल्विदं ब्रह्म" [ छान्दोग्यो०] "नेह नानास्ति किञ्चन" [ बृहदा० ] "आरामं तस्य पश्यन्ति न तं पश्यति कश्चन" [ बृहदा०] 5 परमब्रह्मवादिनो इत्याद्युपनिषद्वाक्यात् परमब्रह्मणः सद्भावसिद्धेः चेतनाऽचेतनपरिवेदान्तिनः पूर्वपक्षः- णामेन जगत्प्रपञ्चरचनानिमित्तत्वमुपपद्यते / चेतनो हि परिणा ___ मोऽस्य कर्मात्मानः, अविप्रतिपत्त्या तत्र सर्वेषां चैतन्यान्वयप्रसिद्धः, अचेतनस्तु पृथिव्यादिमहाभूतरूपः / न चैकत्वे ब्रह्मणः कथमयं नानारूपः परिणामः ? इत्यभिधातव्यम् ; सुवर्ण-क्षीरादेरेकवेऽपि कटक-दध्यादिविचित्रपरिणामोपलम्भात्, 10 'तदेवेदं सुवर्ण कट कादिरूपतया परिणतम्', 'तदेवेदं क्षीरं दधीभूतम्' इति प्रतीतेः / क्षीरदनोस्तादात्म्ये किन्न युगपत्प्रतिभासः कटकसुवर्णवत् नीलपीताद्याकारैकवस्तुवद्वा ? इत्यप्ययुक्तम् ; देशचित्रस्यैवाऽर्थस्य युगपत्प्रतिभासार्हत्वात् , कालचित्रस्य तु स्वात्मभूतेनैव क्रमेणावष्टब्धत्वान्न युगपत्प्रतिभासः / - नन्वेकस्य कथं क्रमः ? अनेकस्य कथम् ? न हि घटपटादीन विहाय अन्यः कश्चित्क्रमोऽ 15 स्ति / स हि तेषां स्वरूपम् , धर्मो वा स्यात् ? स्वरूपञ्चेत् ; किमेकैकशः , अनेकेषां वा ? यदि एकैकशः ; घटप्रतीतावपि क्रमप्रतीतिः स्यात् / अनेकेषां चेत् ; तर्हि युगपत्प्रतिभासानामपि अनेकार्थानां क्रमप्रतीतिः स्यात् / अथ धर्मः ; स किं कारणान्तराधीनः, प्रमार्तृकल्पनाय ... 1 शब्दब्रह्मवादस्य विविधभङ्गया खण्डनं निम्नग्रन्थेषु प्रेक्षणीयम्-मीमांसाश्लो. प्रत्यक्षसू० श्लो. 176 / न्यायमं० पृ. 531 / तत्त्वसं० पृ. 67 / तत्त्वार्थश्लो. पृ. 240 / प्रमेयक० पृ. 11 उ० / सन्मति० टी० पृ० 380, 494 / स्या० रत्ना० पृ० 88 / शास्त्रवा० टी० पृ० 235 उ०। 2 "सर्वं खल्विदं ब्रह्म तजलानिति शान्त उपासीताथ..." छान्दोग्योप०३।१४।१ -खल्विदं आ०, भां० / “ब्रह्म खल्विदं वाव सर्वम्।” मैत्र्युप० 4 / 6 / 3 "मनसैवानुद्रष्टव्यं नेह नानास्ति किञ्चन / मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति // " बृहदा० 4 / 4 / 19 / “मनसैवेदमाप्तव्यं नेह मानास्ति किञ्चन / मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति // " कठोप० 4 / 11 / “साक्षाच "एकमेवाद्वितीयम्। 'नेह नानास्ति किञ्चन' 'मृत्योः स मृत्युमाप्नोति' इत्यादिभिः बहुभिः वचोमिः ब्रह्मातिरिक्तस्य प्रपश्चस्य प्रतिषेधात् चेतनोपादानमेव जगत् भुजङ्ग इवारोपितो रज्जूपादान इति सिद्धान्तः / " ब्रह्मसू• शां० भा० भाम० 111 / 5 / 4 "आराममस्य पश्यन्ति न तं पश्यति कश्चन" बृहदा० 4 / 3 / 14 / अष्टसह. पृ० 160 / प्रमेयक० पृ० 17 उ० / स्या० रत्ना० पृ.१९१। स्याद्वादम• पृ० 99 / प्रमेयरत्नमा० पृ. 75 / 5 “उपसंहारदर्शनान्नेति चेन्न, क्षीरवद्धि / " ब्रह्मसू० 2 / 1 / 24 / “"तस्मादेकस्यापि ब्रह्मणो विचित्रशक्तियोगात् क्षीरादिवत् विचित्रपरिणाम उपपद्यते" ब्रह्मसू० शां० भा० / ६-तृसंक-ब०, ज•।