________________ 146 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० स्वाभाविकं शब्दरूपं परित्यज्य प्रतिपद्येत, अपरित्यज्य वा ? प्रथमपक्षे अस्याऽनादिनिधनत्वविरोधः, पौरस्त्यस्वभावविनाशात् / द्वितीयपक्षे तु नीलादिसंवेदनसमये बधिरस्यापि शब्दसंवेदनप्रसङ्गः नीलादेस्तव्यतिरेकात् / यद् यदव्यतिरिक्तं तत् तस्मिन् संवेद्यमाने संवेद्यते यथा नीलादिसंवेदनावस्थायां तस्यैव नीलादेरात्मा, नीलाद्यव्यतिरिक्तश्च शब्द इति / तस्याऽसंवेदने वा नीलादेरप्यसंवेदनप्रसङ्गः तादात्म्याऽविशेषात् / अन्यथा विरुद्धधर्माध्यासात् तस्य ततो भेदाऽनुषङ्गः, न हि एकस्यानंशस्यैकदा एकप्रतिपत्रपेक्षया ग्रहणमग्रहणञ्च युक्तम् विरोधात् / विरुद्धधर्माध्यासेऽपि अत्राऽभेदे हिमवद्विन्ध्यादीनामप्यभेदानुषङ्गः / किञ्च, शब्दात्मा परिणामं गच्छन् प्रतिपदार्थ भेदं प्रतिपद्येत, न वा ? तत्राद्यविकल्पे शब्दब्रह्मणोऽनेकत्वप्रसङ्गः, विभिन्नानेकस्व भावाऽर्थात्मकत्वात् तत्स्वरूपवत् / द्वितीयविकल्पे तु सर्वेषां नीलादोनां देश-काल-स्वभाव-व्या१० पारा-ऽवस्थाभेदाऽभावः प्रतिभासभेदाऽभावश्चानुषज्यते, एकस्वभावात् शब्दब्रह्मणोऽभिन्नत्वात् तत्स्वरूपवत् / तन्न शब्दपरिणामत्वाज्जगतः शब्दमयत्वं घटते / नापि शब्दोंदुत्पत्तेः / तस्य नित्यत्वेन अविकारित्वात् , अविकारिणश्च क्रमेण कार्योत्पादकत्वानुपपत्तेयुगपदेवाऽखिलकार्याणामुत्पत्तिप्रसङ्गः। कारणवैकल्याद्धि कार्याणि विलम्बन्ते . १“इति सञ्चक्षते येऽपि ते वाच्याः किमिदं निजम् / शब्दरूपं परित्यज्य नीलादित्वं प्रपद्यते // 129 // न वा तथेति यद्याद्यः पक्षः संश्रीयते तदा। अक्षरत्ववियोगः स्यात् पौरस्त्यात्मविनाशतः // 130 // अथाप्यनन्तरः पक्षः तत्र नीलादिवेदने। अश्रुतेरपि विस्पष्टं भवेत् शब्दात्मवेदनम् // 131 // येन शब्दमयं सर्व मुख्यवृत्त्या व्यवस्थितम् / शब्दरूपापरित्यागे परिणामाऽनिधानतः // 132 // अगौणे चैवमेकत्वे नीलादीनां व्यवस्थितेः। तत्संवेदनवेलायां कथं नास्त्यस्य वेदनम् // 133 // अस्याऽवित्तौ हि नीलादेरपि न स्यात् प्रवेदनम् / ऐकात्म्याद् भिन्नधर्मत्वे भेदोऽत्यन्तं प्रसज्यते // 134 // विरु धर्मसंगो हि बहूनां भेदलक्षणम् / नान्यथा व्यक्तिभेदानां कल्पितोऽपि भवेदसौ // 135 // " तत्त्वसं० / 2 च आ० / 3 " नहि एकस्य एकदा एकप्रतिपत्रपेक्षया ग्रहणमग्रहणञ्च युक्तम् एकत्वहानिप्रसङ्गात् / " तत्त्वसं० पं० पृ० 69 / 4 “प्रतिभावश्च यद्येकः शब्दात्मा भिन्न इष्यते / सर्वेषामेकदेशत्वम् एकाकारा च विद् भवेत् // 136 // प्रतिव्यक्ति तु भेदेऽस्य ब्रह्मानेक प्रसज्यते / विभिन्नानेकभावामरूपत्वाद् व्यक्तिभेदवत् // 137 // " तत्त्वसं० / “स हि शब्दात्मा परिणामं गच्छन् प्रतिपदार्थ भेदं वा प्रतिपद्यते, न वा ?" तत्त्वसं० पं० पृ० 70 / प्रमेयक० पृ. 12 उ० / सन्मति० टी० पृ. 382 / स्या. रत्ना० पृ० 101 / 5 “अथापि कार्यरूपेण शब्दब्रह्ममयं जगत् / तथापि निर्विकारत्यात् ततो नैव क्रमोदयः // १४०॥"एवमपि शब्दस्य नित्यत्वेन अविकारित्वात् ततः क्रमेण कार्योदयो न प्रायोति सर्वेषामविकलाप्रतिबद्धसामर्थ्यकारणात् युगपदेव उत्पादः स्यात् / कारणवैकल्याद्धि कार्याणि प्रविलम्बन्ते, तच्चेदविकलं तत् किमपरमपेक्ष्येरन् येन युगपन्न भवेयुः ?" तत्त्वसं० पं० पृ. 71 / प्रमेयक. पृ० 12 उ० / सन्मति.टी. पृ० 382 / स्या० रत्ना० पृ० 1.1 /