________________ लघी० 115] शब्दब्रह्मवादः 145 शब्दार्थयोः अद्वैताविरोधिनः सम्बन्धस्य कस्यचिदपि विचार्यमाणस्याऽनुपपत्तेः न शब्देनान्वितत्वमर्थस्य घटते। प्रतीत्या च शब्दान्वितत्वं ज्ञाने परिकल्ल्यते, सा चेदन्यत्राप्यस्ति तदपि परिकल्प्यतामविशेषात् , तथा च 'न सोऽस्ति प्रत्ययो लोके' इत्याद्ययुक्तम् / प्रसाधितञ्च लोचनाद्यध्यक्षे शब्दसंस्पर्शाभावेऽपि स्वार्थप्रकाशकत्वं सविकल्पकसिद्धिप्रघट्टके। इत्यलमतिप्रसङ्गेन / * यदप्युक्तम् -'सकलव्यवहारोऽपि' इत्यादि; तदप्ययुक्तम् ; शाब्दव्यवहारस्यैव तदनुविद्ध- 5 त्वेन अनुभवात् , न चक्षुरादिप्रभवस्य / ___ यच्चान्यदुक्तम् -'सुप्तावस्थायाम' इत्यादि ; तदप्युक्तिमात्रम् ; अद्वैते सुप्रेतरावस्थाया एवाऽसंभवात् , तत्संभवे अद्वैतविरोधात् / अविद्यातस्तत्र तदविरोधः ; इति श्रद्धामात्रम् ; अविद्याया भेदप्रतिभासहेतुत्वस्य प्रागेव कृतोत्तरत्वात् / ____ यदप्युक्तम् -'ये यदाकारानुस्यूताः' इत्यादि ; तदप्यसारम् ; शब्दाकारानुस्यूतत्वस्य अ- 10 सिद्धेः / प्रत्यक्षेण हि नीलादिकं प्रतिपद्यमानः प्रतिपत्ता शब्दाकारानन्वितमेव प्रतिपद्यते, कल्पितत्वाच्च अस्याऽसिद्धिः / शब्दाकारान्वितरूपाधाराऽर्थाभावेऽपि हि ते तदन्वितत्वेन त्वया कल्प्यन्ते, तथाभूताच्च हेतोः कथं पारमार्थिकं ब्रह्म सिद्धयेत् / साध्य-साधनविकलश्च दृष्टान्तः ; घटादीनामपि सर्वथैकमयत्वस्य एकान्वितत्वस्य चाऽसिद्धेः / न खलु भावानां सर्वथैकरूपानुगमोऽस्ति, सर्वार्थानां समानाऽसमानपरिणामात्मकत्वात् / . यदप्यभिहितम्-'न शब्दाद् व्यतिरिच्यतेऽर्थः' इत्यादि ; तत्र पक्षस्य प्रत्यक्षबाधा , शब्दाद् देशादिभेदेनार्थस्य प्रत्यक्षतः प्रतीतेः / 'तत्प्रतीतावेव प्रतीयमानत्वात्' इति हेतुश्चाऽसिद्धः ; लोचनादिज्ञानेन शब्दाऽप्रतीतावपि अर्थस्य प्रतीयमानत्वात् / कथमन्यथा बधिरस्य चक्षुरादिप्रभवप्रत्यक्षाद् रूपाद्यर्थप्रतीतिः स्यात् ? तन्न शब्दस्वभावस्य ब्रह्मणः सद्भावः कुतश्चित्प्रमाणाद् घटते / ___ अस्तु वा ; तथापि शब्दंपरिणामत्वात् जगतः शब्दमयत्वं स्यात् मृत्परिणामत्वाद् घटस्य मृण्मयत्ववत् , शब्दादुपत्तेर्वा यथा अन्नमयाः प्राणा इति हेतौ मयड् विधानात् ? तत्राद्यपक्षोऽनुपपन्नः ; परिणामस्यैवात्राऽनुपपत्तेः / शब्दात्मकं हि ब्रह्म नीलादिरूपतां प्रतिपद्यमानं 15 1 परिकल्प्येत ज० / 2 पृ० 140 50 8 / 3 पृ० 140 पं० 10 / 4 पृ० 141 पं० 17 / ५पृ. 141 पं० 20 / 6 “अत्र कदाचित् शब्दपरिणामरूपत्वाद्वा जगतः शब्दमयत्वं साध्यत्वेन इष्टम् , कदाचिच्छब्दादुत्पत्ती यथा अन्नमयाः प्राणाः इति हेतौ मयड विधानात् / अत्र न तावदाधः पक्षः; परिणामस्यैवानुपपत्तेः। तथाहि-शब्दात्मकं ब्रह्म नीलादिरूपता प्रतिपद्यमानं कदाचिनिजं स्वाभाविक शब्दरूपं परित्यज्य प्रतिपद्येत, अपरित्यज्य वा ?" तत्त्वसं० पं० पृ. 68 / प्रमेयक. पृ० 12 उ०। सन्मति. टी. पृ. 380 / स्या. रत्ना० पृ.१००। ७-स्यैवानुप-ब., ज. पृ. 47 / 19