________________ 144 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० वा स्वसंविदितस्वभावः, यतस्तदन्वितत्वं स्वसंवेदनतः सिद्धयेत् , अस्वसंविदितस्वभावतयैवास्य, प्रतिप्राणि प्रसिद्धत्वात् / किञ्च, शब्दार्थयोः सम्बन्धे सति शब्देनान्वितत्वमर्थस्य कुतश्चित प्रमाणात् प्रतीयेत, असति वा ? न तावदसति; अतिप्रसङ्गात् , ' यद् येनासम्बद्धं न तत्तेनाऽन्वितम् यथा सह्येन विन्ध्यः, असम्बद्धश्च अर्थेन शब्दः' इत्यनुमानविरोधानुषङ्गाच्च / अथ सति सम्बन्धे; ननु कोऽयं तस्य तेन सम्बन्धः-संयोगः, तादात्म्यम , विशेषणीभावः, वाच्यवाचकभावो वा ? न तावत् संयोगः; विभिन्नदेशत्वात् , ययोविभिन्नदेशत्वं न तयोः संयोगः यथा मलय-हिमाचलयोः, विभिन्नदेशत्वञ्च शब्दाऽर्थयोरिति / न चेदमसिद्धम् ; शब्दस्य श्रोत्रप्रदेशे अर्थस्य च पुरोदेशे प्रतिभासमानत्वात् , तत्सम्बन्धाभ्युपगमे च अनयोर्द्रव्यान्तरत्वसिद्धिप्रसङ्गात् कथं तदद्वैतसिद्धिः स्यात् ? ___तादात्म्याभ्युपगमोऽप्ययुक्तः; विभिन्नेन्द्रियग्राह्यत्वात् , ययोविभिन्नेन्द्रियग्राह्यत्वं न तयोस्तादात्म्यम् यथा रूप-रसयोः, विभिन्नेन्द्रियग्राह्यत्वञ्च शब्दार्थयोरिति / न चेदमसिद्धम; शब्दाकाररहितस्य घटादेः लोचनविज्ञाने प्रतिभासनात् तद्रहितस्य तु शब्दस्य श्रोत्रज्ञाने / तथा- . भूतयोरप्यनयोस्तादात्म्याभ्युपगमे अतिप्रसङ्गात् / शब्दात्मकत्वे चार्थानां शब्दप्रतीतौ सङ्के ताऽग्राहिणोऽपि अर्थे सन्देहो न स्यात् तद्वत् तस्यापि प्रतिपन्नत्वात् , अन्यथा तत्तादात्म्यानुप१५ पत्तिः / क्षुरा-ऽग्नि-पाषाणादिशब्दश्रवणाच्च कर्णस्य कर्त्तन-दाहा-ऽभिघातादिप्रसङ्गः, अन्यथा तत्तादात्म्यविरोधः / यो यत्साध्यप्रयोजनं न निवर्तयति नासौ तेन तादाम्यमनुभवति यथा रूपेण रसः, न निवर्तयति च अर्थसाध्यप्रयोजनं दाहादिकं शब्द इति / तथा, नास्ति शब्दार्थयोस्तादात्म्यं विभिन्नदेश-काल-आकारत्वात्, यत् तथाविधं न तत्र तादात्म्यम् यथा घट-पटादौ, तथाविधौ च शब्दार्थाविति / न च विभिन्नदेशत्वं तत्रासिद्धम् ; प्राक् प्रसाधितत्वात् / नापि विभिन्नकालत्वम् ; घटाद्यर्थानां तच्छब्देभ्यः प्रागपि सत्त्वप्रतीतेः / नापि विभिन्नाकारत्वम् ; तत्र तस्य सकलजनप्रसिद्धत्वात् / ननु तत्तादात्म्यासम्भवे कथमतोऽर्थप्रतीतिः ? इत्यप्यसाम्प्रतम् ; तदभावेऽप्यस्याः सङ्केतसामर्थ्यादुपपद्यमानत्वात् / वृद्धपरम्परातो हि शब्दानां सहजयोग्यतायुक्तानामर्थप्रतीतिप्रसाधकत्वम् काष्ठादीनां पाकप्रसाधकत्ववत् / तन्न तत्र तादात्म्यं घटते / नापि विशेषणीभावः; सम्बन्धान्तरेणासम्बद्धानां सह्यविन्ध्यादिवत् तद्भावस्यानुपपत्तेः / वा२५ च्यवाचकभावस्तु शब्दार्थयोः भेदमेव प्रसाधयति, तमन्तरेण अनयोः तद्भावाऽनुपपत्तेः / तदेवं 1 तत्सम्बन्धाभ्युपगमे वा तयोः भा० / 2 " न च शब्दस्य अर्थविशेषणत्वेन प्रतीतेस्तदात्मकता; देशभेदेन शब्दार्थयोः उपलब्धेः / " सन्मति० टी० पृ. 386 / 3 शब्दार्थयोश्च तादात्म्ये क्षुराग्निमोदकादिशब्दोच्चारणे आस्यपाटनदहनपूरणादिप्रसक्तिः / " सन्मति० टी० पृ. 386 / शास्त्रवा० टी० पृ. 237 पू० / " यदाहुभद्रबाहुस्वामिपादाः-अभिहार्ण अभिहेयाउ होइ भिण्णं अभिण्णं च। खुरअग्गिमोयगुच्चारणम्मि जम्हा उ वयणसवणाणं // नवि छेओ नवि दाहो ण पूरणं तेण मिन्नं तु / " स्या• मं• कारि० 14 / 4 शब्दपरंपरा-आ० /