________________ लघी०१५] शब्दब्रह्मवादः 143 - द्वितीयपक्षोऽप्यसुन्दरः; अविद्याया विचार्यमाणाया अनुपपद्यमानत्वात् / सो हि ब्रह्मणो व्यतिरिक्ता, अव्यतिरिक्ता वा ? यदि व्यतिरिक्ता; किमसौ वस्तु, अवस्तु वा स्यात् ? न तावदवस्तु; अर्थक्रियाकारित्वाद् ब्रह्मवत् , तत्कारित्वेऽप्यस्याः ‘अवस्तु' इति नामान्तरकरणे नाममात्रमेव भिद्येत / अथ अर्थक्रियाकारित्वमप्यस्या नेष्यते तत्कथं वस्तुत्वापत्तिः ? कथमेवम् 'अविद्यया कस्लुषत्वमिवापन्नम्' इत्यादिवचो घटेत ? आकाशे च वितथप्रतिभासहेतुभूतं 5 वास्तवमेव तिमिरं प्रसिद्धम् , अविद्यायाश्च अवास्तवत्वेन विचित्रप्रतिभासहेतुत्वाऽनुपपत्तितो दृष्टान्त-दान्तिकयोः साम्याऽसंभवात् 'यथा विशुद्धमाकाशम्' इत्याद्यपि दुर्घटमेव / नै चाऽनाधेयाऽप्रहेयातिशयस्य ब्रह्मणः तद्वशात् तथाप्रतिभासो युक्तोऽतिप्रसङ्गात् / नाप्यवस्तुवशाद् वस्तुनोऽन्यथाभावो भवति, अतिप्रसङ्गादेव / अथ वस्तु; तन्न; अभ्युपगमक्षतिप्रसक्तेः, ब्रह्मा-ऽविद्यालक्षणवस्तुद्वयप्रसिद्धितोऽद्वैताऽभावप्रसङ्गाच्च / अथाऽव्यतिरिक्ता; 10 तर्हि ब्रह्मणोऽपि मिथ्यात्वप्रसक्तिः, मिथ्यारूपायाः अविद्यातोऽव्यतिरिक्तत्वात् तत्स्वरूपवत् , इति लाभमिच्छतो मूलोच्छेदः स्यात् / अविद्याया वा सत्यत्वप्रसङ्गः; सत्यस्वभावाद् ब्रह्मणोऽव्यतिरिक्तत्वात् तत्स्वरूपवत्, अतः कथमस्याः मिथ्याप्रतीतिहेतुत्वम् ? यत् सत्यम् न तन्मिथ्याप्रतीतिहेतुः यथा ब्रह्म, सत्या च ब्रह्मणोऽव्यतिरिक्तत्वेनाऽविद्येति / अस्तु वा यथा-... कथञ्चिदविचारितरमणीयस्वभावा अविद्या, तथापि न तया तत्स्वभावस्यास्य अभिभवः; दुर्बल- 15 स्य हि बलवताऽभिभवो दृष्टः यथा सवित्रा तारानिकरस्य, न चाऽविद्याया बलवत्त्वमस्ति अवस्तुत्वात् वाजिविषाणवत्। अतोऽसत्त्वादेव अयोग्यवस्थायाम् आत्मज्योतिःस्वरूपस्य शब्दब्रह्मणोऽप्रतिभासः / तत्र तपस्यास्याऽसत्त्वे च योग्यवस्थायां कुतः सत्त्वं स्यात् यतोऽतीन्द्रियप्रत्यक्षात् तत्प्रतीयेत ? एतेन स्वसंवेदनादपि तत्प्रतिपत्तिः प्रत्याख्याता; आत्मज्योतिःस्वभावस्यास्य स्वप्नेऽपि संवे- 20 दनाऽगोचरत्वात् , तद्गोचरत्वे वा अनुपायसिद्ध एव अखिलप्राणिनां मोक्षः स्यात्, तथाविधस्य हि शब्दब्रह्मणः स्वसंवेदनं यत् तदेव मोक्षो भवतामभिमतः / न च घटादिशब्दोऽर्थो 1 “सा हि शब्दब्रह्मणः सकाशाद् भिन्ना भवेदभिन्ना वा ? भिन्ना चेत् किमसौ वस्तु, अवस्तु वा स्यात् ?" स्या. रत्ना० पृ. 99 / शास्त्रवा० टी० 237 उ० / 2 “आकाशे च वितथप्रतिभासहेतुभूतं वास्तवमेवास्ति निमिरमिति न दृष्टान्तदाष्र्टान्तिकयोः साम्यम् / " प्रमेयक० पृ० 13 पू० / स्या०' रत्ना० पृ. 99 / 3. “अथ व्यतिरिक्ताऽविद्या अङ्गीक्रियते एवमपि. नित्यत्वाद् अनाधेयातिशयस्य ब्रह्मणः सा न तत् किञ्चित् करोति इति न युक्तम् अविद्यावशात् तथा प्रतिभासनम् / " तत्त्वसं० पं० पृ. 74 / सन्मति० टी० पृ० 385 / स्या० रत्ना० पृ. 99 / 4 तत्र चैतद्रूप-भां० / 5 स्यादेतत्स्वसंवेदनप्रत्यक्षत एव तत्सिद्ध ज्ञानात्मरूपत्वात् ; तथाहि-ज्योतिः तदेव शब्दात्मकत्वात् चैतन्यरूपत्वाच्च इति, तदेतत् स्वसंवेदनविरुद्धम् .....,' तत्त्वसं० पं० पृ. 73 / प्रमेयक० पृ० 11 उ• / सन्मति. टी० पृ० 384 / 6 स्वयं संवेदनं ब., ज.। .......