________________ 142 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरिक यथा शब्दस्यैव स्वरूपम् , शब्दप्रतीतावेव प्रतीयते चार्थः, अतः ततो न व्यतिरिच्यत इति / ततः सिद्धः शब्दस्वभावब्रह्मसद्भावे प्रत्यक्षादिप्रमाणसद्भावः / अत्र प्रतिविधीयते / यत्तावदुक्तम्'-'शब्दस्वभावब्रह्मसद्भावे' इत्यादि ; तदसमीचीनम् ; यतस्तत्सद्भावः किमिन्द्रियप्रभवप्रत्यक्षतः प्रतीयेत् , अतीन्द्रियात् , स्वशब्दाद्वैतस्य ____ संवेदनाद्वा ? तत्राद्यविकल्पोऽयुक्तः ; यतः सकलदेशकालार्थाकारनिकप्रतिविधानम् रकरम्बितस्वभावं शब्दब्रह्म भवद्भिरभिप्रेतम् / तथाविधस्य चास्य सद्भावः श्रोत्रप्रभवप्रत्यक्षात्, इतरेन्द्रियजनिताध्यक्षाद्वा प्रतीयेत् ? न तावत् श्रोत्रप्रभवप्रत्यक्षात्; तस्य शब्दस्वरूपमात्रगोचरचारितया अगोचरेण तदाकारनिकरणान्वितत्वस्य तद्ब्रह्मणि प्रति पत्तुमसमर्थत्वात्। यद् यदगोचरो न तत्तेनान्वितत्वं कस्यचित् प्रतिपत्तुं समर्थम् यथा चक्षु१० निं रसेन, अगोचरश्च तदाकारनिकरः श्रोत्रज्ञानस्येति / तदगोचरेणापि तेन तदन्वितत्वप्रति पत्तौ अतिप्रसङ्गः, सर्वस्य सर्वेणान्वितत्वप्रतिपत्तिप्रसक्तेः / एतेन इन्द्रियान्तरजनिताऽध्यक्षादपि तत्प्रतिपत्तिः प्रत्युक्ता; शब्दाऽगोचरतया तस्यापि तत्प्रतिपत्तावसमर्थत्वात् / तन्न इन्द्रि-. . यप्रत्यक्षात् प्रतिनियतरूपादिविषयव्यतिरेकेण अपरं शब्दब्रह्म प्रतीयते / / नाप्यतीन्द्रियप्रत्यक्षात् ; तस्यैवात्राऽसंभवात् / योगिनां योगजं तत्संभवतीति चेत् ; न ; 15 योगि-योग-तत्प्रभवप्रत्यक्षाणां संभवे अद्वैताऽभावप्रसङ्गात् / न तत्प्रसङ्गः योग्यवस्थायाम् आत्म न्योतीरूपस्यास्य स्वयं प्रकाशनात् ; इत्यपि मनोरथमात्रम् ; तदवस्था-रूप-प्रकाशनत्रयसद्भावे अद्वैताऽभावस्य तदवस्थत्वात् / किञ्च, योग्यवस्थायां तस्य तद्रूपप्रकाशनेन ततः प्राक् तद्रूपं प्रकाशते, न वा ? यदि प्रकाशते ; तदाऽयत्नसिद्धः सर्वदा सर्वेषां मोक्षः स्यात् , ज्योतिःस्वभाव ब्रह्मप्रकाशो हि मोक्षः, स च अयोग्यवस्थायामपि एवं प्रसज्येत / अथ न प्रकाशते ; तदा तत्कि२० मस्ति, न वा ? यदि नास्ति ; कथं तन्नित्यम् कादाचित्कत्वात् ? यत् कादाचित्कम् न तन्नित्यम् यथा अविद्या. कादायिकश्च ज्योतिःस्वरूपं ब्रह्मण इति / तदनित्यत्वे च शब्दब्रह्मणोऽप्यनित्यत्वप्रसङ्गः तन्मयत्वात्तस्य, अतो द्वैतसिद्धिरप्रतिहतप्रसरा. प्रसज्यते, अद्वैतविनाशे द्वैतसिद्धर वश्यम्भावित्वात् / अथास्ति ; कस्मान्न प्रकाशते-प्राहकाभावात् , अविद्याभिभूतत्वाद्वा ? तत्राद्यपक्षोऽनुपपन्नः ; ब्रह्मण एव तद्ग्राहकत्वात् , तस्य च नित्यतया सदा सत्त्वात् / 1 पृ० 139 पं० 19 / 2 “न तत् प्रत्यक्षत: सिद्धमविभागमभासनात् / नित्यादुत्पत्त्ययोगेन कार्यलिङ्गञ्च तत्र न // 147 // " तत्त्वसं० / “ब्रह्मणो न व्यवस्थानमक्षशानात् कुतश्चन / स्वप्नादाविव मिथ्यात्वात् तस्य साकल्यतः स्वयम् // 16 // " तत्त्वार्थश्लो० पृ. 24. / प्रमेयक. पृ० 11 उ.। सन्मति..टी. पृ० 384 / स्या. रत्ना० पृ. 98 / ३-विधस्यास्य आ० / 4 “यद्येवं प्रागयोगित्वावस्थायां किं तस्य रूपमिति वाच्यम् ? यदि सदैव ज्योतीरूपं तदा तर्हि न कदाचिदयोगित्वावस्थाऽस्ति सदैव आत्मज्योतीरूपत्वाद् ब्रह्मणः / ततश्च अयनतः सर्वेषां मोक्षप्रसन्नः / " तत्त्वसं० 5. पृ. 74 / सन्मति.टी. पृ. 385 / स्या. रत्ना. पृ.९९।