________________ लघो० 115] शब्दब्रह्मवादः 141 भावादिरूपो भेदप्रपञ्चप्रतिभासः स्यात् ? इति न चेतसि विधेयम् ; अविद्यातः तत्र तत्प्रतिभासाऽविरोधाद् आकाशवत्। यथैव हि तिमिरोपहतलोचनो जनो विशुद्धमप्याकाशं विचित्ररेखानिकरकरम्बितमिव मन्यते तथा अनादिनिधनमभिन्नस्वभावमपगतनिखिलभेदप्रपञ्चमपि शब्दब्रह्म अविद्यातिमिरोपहतो जनः आविर्भावादिभेदप्रपञ्चान्वितमिव प्रतिपद्यते / उक्तञ्च “यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः / सङ्कीर्णमिव मात्राभिश्चित्राभिरभिमन्यते // तथेदममलं ब्रह्म निर्विकारमविद्यया / कलुषत्वमिवापन्नं भेदरूपं प्रपश्यति // " [बृहदा० भा० वा० 3 / 5 / 43,44] इति / सकलाऽविद्याविलासविलये तु योगिनः तत्प्रपञ्चानन्वितं यथावत्तत्स्वरूपं प्रतिपद्यन्ते / यथा च वीचीतरङ्गबुबुदफेनरूपो नीरविकारः सारभूतममलं जलम् आविर्भाव-तिरोभावार्थमपे- 10 क्षते, तथा व्यावहारिकः स्थूलोऽयमकारादिशब्दभेदप्रपञ्चः परमसूक्ष्मप्रतिभासमात्रैकरूपं सर्वशब्दविषयविज्ञानप्रसवनिमित्तं क्वापि अनियमितैकनिजस्वभावं शब्दमयं ब्रह्मापेक्षते / उक्तञ्च " अनिबद्धैकरूपत्वाद् वीचीबुबुदफेनवत् / वाचः सारमेपक्षन्ते शब्दब्रह्मोदकाऽद्वयम् // " [ ] 15 एवमध्यक्षतः प्रतीयमानमपि शब्दब्रह्म ये अविद्यातिमिरोपहतचेतसः 'तथा' इति नाभ्युपगच्छन्ति विपर्यस्यन्ति च, तान् प्रति इदमुच्यते-ये यदाकारानुस्यूताः ते तन्मयाः यथा घटशरावोदश्चनादयो मृद्विकारा मृन्मयाः, शब्दाकारानुस्यूताश्च सर्वे भावा इति / न चायमसिद्धो हेतुः; प्रत्यक्षत एवाऽशेषार्थानां शब्दाकारान्वयप्रसिद्धेः प्रतिपादितत्वात् / तसिद्धौ च तेषां तन्मयत्वं सिद्धमेव तन्मात्रभावित्वात्तस्य / तद्वयतिरेकस्य च प्रमाणबाधितत्वात; तथाहि-न शब्दाद् व्य. 20 तिरिच्यतेऽर्थः, तत्प्रतीतावेव प्रतीयमानत्वात् , यत्प्रतीतावेव यत्प्रतीयते न तत्ततो व्यतिरिच्यते 1 इति च न चेतसि निधेयम् ब०, ज० / २-चनो वि-आ०, भां० / 3 'चित्राभिरुपलक्षयेत् / ' बृहदा. भा. वा. पृ० 1246 / 'भिन्नाभिरभिमन्यते' शास्त्रवा० श्लो० 544 / अष्टसह० पृ. 93 / प्रकृतपाठस्तु तत्त्वसं० 50 पृ. 72 / प्रमेयक. पृ० 12 उ० / न्याय वि० टी० पृ० 168 पू० / स्या. रत्ना० पृ. 9 / नयोप० वृ० पृ. 76 पू० / 4 'भेदरूपं प्रकाशते' बृहदा० भा० वा. पृ. 1246 / शास्त्रवा० श्लो० 545 / 'तथेदममृतं ब्रह्म' 'भेदरूपं विवर्ततः' तत्त्वसं. पं० पृ. 72 / 'भेदरूपं विवर्तते। सन्मति. पृ. 383 / 'निर्विकल्पमविद्यया' शास्त्रवा० श्लो० 545 / अष्टसह० पृ. 93 / 'भेदरूपं तु पश्यति' स्या० रत्ना० पृ. 91 / प्रकृतपाठस्तु-प्रमेयक० पृ० 12 उ० / नयोप० वृ० पृ० 96 / ५-दिभेदशब्दप्र-ब०, ज.। 6 उद्धृतश्चैतत्-स्या• रत्ना० पृ. 91 / शास्त्रवा० टी० पृ. 237 उ० /