________________ 140 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० बालाध्यात्मिकार्थेषूत्पद्यमानस्याऽस्य शब्दानुविद्धत्वेनैवोत्पत्तेः, तत्संस्पर्शवैकल्ये प्रत्ययानां प्रकाशमानताया दुर्घटत्वात् / वाग्रूपता हि शाश्वती प्रत्यवमर्शिनी च, तदभावे तेषां नापरं रूपमवशिष्यते / तदुक्तम्" न सोस्ति प्रत्ययो लोके यः शब्दानुगमादृते / अनुविद्धमिवाऽऽभाति सर्व शब्दे प्रतिष्ठितम् // वायूपता चेदुत्क्रामेद् अवबोधस्य शाश्वती / न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी // " [ वाक्यप० 1 / 124-25 / ] इति। ... सकलव्यवहारोऽपि शब्दानुविद्ध एवाऽनुभूयते, न हि 'भोक्ष्ये, दास्यामि' इत्याद्यनुल्लिखितशब्दः कश्चिदपि स्वयं कार्यनिर्वर्तनाय यतते, परं वा 'देहि ' इत्यादिशब्दं विना प्रवर्त१० यति / जीवेतररूपाविर्भावोऽपि शब्दायत्त एव; तथाहि-सुप्तावस्थायामनुल्लिखितशब्दरूपत्वात् मृतान्न कश्चिद्विशिष्यते, तदुत्तरकालं तु कुंतश्चिच्छब्दात् प्रबुद्धः पुरुषः शब्देनैवाऽन्तर्जल्पा-. त्मना आत्मानमनुदधानो जीवितमुपयाति, तदुपहितजीवितात् सकलाः शब्दभावनाः 'अहमिदमनुतिष्ठामि' इत्यादिरूपा विवर्तन्ते, ताश्च नानाविषया विवर्तमानाः स्वस्वविषयानन् आविर्भावयन्ति / यदा तु पुरुषेणोच्चारितः शब्दः समाविर्भूय तिरोभवति तदा स्वप्रन्थिभूतमर्थ१५ मपि तिरोभावयति ज्योत्स्नामिव शशाङ्कः / ननु च अद्वयरूपे तत्त्वे कथमाविर्भाव-तिरो 1 प्रत्ययानाम् / 2 'अनुविद्धमिव ज्ञानं सर्व शब्देन भासते / ' वाक्यप० 1 / 124 / सन्मति.. टी० पृ० 380 / स्या० रत्ना० पृ० 79 / शास्त्रवा० टी० पृ. 236 पू० / स्याद्वादमं० पृ० 106 / न्यायबि. टी. टि. पृ० 20 / 'सर्वशब्देन वर्तते' तत्त्वसं० पं० पृ. 68 / 'सर्व शब्देन जायते' अनेकान्तजय० पृ० 41 उ० / प्रकृतपाठश्च-तत्त्वार्थश्लो० पृ० 240 / प्रमेयक पृ० 11 उ० / 'अनुविद्धमिव ज्ञानं सर्व शब्देन गम्यते ' न्यायमं० पृ० 532 / स्पन्दका० व्या० पृ०५१ / 'अनुविद्धमिव ज्ञानं सर्व शब्देन गृह्यते' मीमां 0 श्लो० टी० प्रत्यक्षसू० श्लो० 176 / 3 'वाग्रूपता चेद् व्युत्क्रामेत् / सन्मति. टी० पृ. 380 / अनेकान्तजय० पृ० 41 उ० / नयोप० वृ० पृ० 75 उ० / शास्त्रवा० टी० पृ. 236 पू० / न हि बोधः प्रकाशेत स्या. रत्ना० पृ. 89 / प्रकृतपाठस्तु-तत्त्वार्थश्लो० पृ. 240 / न्यायम० पृ. 532 / स्पन्दका. व्या० पृ. 51 / प्रमेयक पृ० 11 उ० / न्यायवि. टी. टि. पृ. 20 / “....वाग्रूपतायां च सत्यां उत्पन्नोऽपि प्रकाशो विशेषवाग्रूपतामस्वीकुर्वन् प्रकाशक्रियासाधनतायां न व्यवतिष्ठते / सा हि वापता हि प्रत्यवमर्शः सविकल्पकज्ञानं तत्सम्पादिका इत्यर्थः / तदेव च प्रकाशनक्रियासाधनमित्यर्थः / " वाक्यप० टी० 1 / 125 / ४-ब्दस्वरूप-ब०, ज०। 5 कुतश्चिद् बुद्धः भां० / “सा सर्वविद्याशिल्पानां कलानाञ्चोपबन्धिनी। तद्वशादभिनिष्पत्तौ सर्व वस्तु विभज्यते // 126 // सैषा संसारिणां संज्ञा बहिरन्तश्च वर्तते। तन्मात्रामप्यतिक्रान्ते चैतन्यं सर्वजन्तुषु // 12 // अर्थक्रियासु वाक् सर्वा समीहयति देहिनः / तदुत्क्रान्तौ विसंज्ञोऽयं दृश्यते काष्ठकुड्यवत् // 128 // " वाक्यप.प्र. कां।