________________ लघी०१।५] शब्दब्रह्मवादः 139 नामसत्त्वं स्यात् ; तदा स्थितिकालेऽपि 'गौरयम्' 'शुक्लः' 'चलति' इति जाति-गुण-क्रियाव्यपदेशो न स्यात् असंतः तदयपदेशाऽसंभवात् / अस्ति चायं व्यपदेशः, अतो मध्यावस्थायां पदार्थानामसद्रूपादन्तरं सद्रूपं प्रतिपत्तव्यम् / तन्न सकलार्थाऽभावः सकलशून्यता। अथ 'ग्राह्य-ग्राहकभावादिशून्यं संविन्मानं सा' इत्युच्यते; ननु सा तथाविधा कुतः सिद्धा-अभ्युपगममात्रात् , प्रतीतेर्वा ? प्रथमपक्षे कृतोऽप्रतिपक्षा पक्षसिद्धिः सर्वस्य स्वेष्ट- 5 तत्त्वसिद्धेः तथा संभवात् ? द्वितीयपक्षोऽप्यनुपपन्नः ; यतो ग्राह्य-ग्राहकभावादिशून्यस्य संविन्मात्रस्य कदाचिदप्यप्रतीतितः कथं तल्लक्षणा तच्छून्यता प्रतीतितः सिद्धयेत् ? प्रतीत्या च वस्तुव्यवस्थां कुर्वता बहिरन्तर्वाऽनेकान्तात्मकं वस्तु उररीकर्तव्यम् , बाह्याध्यात्मिकार्थानां ग्राह्यग्राहकाद्यनेकाकाराक्रान्ततयैव प्रतीतौ प्रतिभासनात् / न चेयं मिथ्या बाधकाऽभावात् , विपरीतार्थोपलम्भो हि बाधकः, न चात्र सोऽस्ति, तद्विपरीतस्य मध्यक्षणस्थायिनः संविन्मात्रस्य 10 स्वप्नप्युपलम्भाऽभावात् / असताऽपि बाधाकल्पने नित्य-निरंश-व्यापिपरब्रह्मोपलम्भेनाऽसतापि मध्यक्षणस्थायिसंविन्मात्रस्य बाधा किन्न स्याद् विशेषाभावात् ? ततः प्रतीतिनिबन्धनां वस्तुव्यवस्थामभ्युपगच्छता बहिरन्तर्वा अनेकान्तात्माऽर्थः प्रमाणगोचरः प्रतिपत्तव्यः, इति सिद्धो बाह्योऽप्यर्थः प्रमाणस्य गोचर इति / .. एतेन ब्रह्माद्वैतवाद्यपि बाह्यमर्थमपलपन् प्रत्याख्यातः, ब्रह्मणः सद्भावे प्रमाणाभावात् / 15 - ननु किंरूपस्य ब्रह्मणः सद्भावे प्रमाणाऽभावः-शब्दस्वभावस्य, परमात्मरूपस्य वा ? द्विविधं हि ब्रह्म, शब्द-परमब्रह्मविकल्पात् / उक्तञ्च-" शब्दब्रह्मणि शब्दब्रह्मवादे निष्णातः परमब्रह्माधिगच्छति" [ब्रह्मविन्दूपनि० 22 ] इति / तत्राभर्तृहरेः पूर्वपक्षः द्यविकल्पोऽनुपपन्नः; शब्दस्वभावब्रह्मसद्भावे प्रत्यक्षस्य अनुमानस्य च प्रमाणस्य सद्भावात् / तथाहि-सकलं योगजमयोगजं वा प्रत्यक्षं शब्दब्रह्मोल्लेख्येवाऽवभासते 20 1 "असतः क्रियागुणव्यपदेशाभावादान्तरम् / " सदिति सूत्रशेषः / वैशेषिक सू० 9 / 1 / 3 / २“ग्राह्यप्राहकशून्यत्वं ग्राह्यं तद्ग्राहकस्य चेत् / ग्राह्यग्राहकभावः स्यात् अन्यथा तदशुन्यता / / 149 // " तत्त्वार्थश्लो० पृ. 81 / ३"तस्मान्नैकान्ततो भ्रान्तिनासत्संवृतिरेव वा / अतश्चार्थबलायातमनेकात्मप्रशंसनम् // 91 // " न्यायवि० पृ. 206 उ• / अस्य च शून्यवादस्य 'निरालम्बनवादः' 'बाह्यार्थनिषेधवादः' इत्यादिरूपेण प्रतिविधानं निम्नग्रन्थेषु द्रष्टव्यम्-मीमांसासूत्र 1.15 / शाबरभा०, बृहती, पञ्जिका, शास्त्रदी०, मीमांसाश्लो. शून्यवाद / विधिवि. न्यायकणिका पृ० 186 / न्यायसूत्र, भाष्य, 4 / 2 / 26 / न्यायवा० पृ० 519 / न्यायवा• ता० टी० पृ० 653 / न्यायमं० पृ० 547 / आप्तमी० कारि• 12, अष्टश, अष्टसह, पृ० 115 / युक्तधनु• पृ०५२ / तत्त्वार्थश्लो. पृ० 143 / प्रमेयक० पृ. 25 उ०। सन्मति० टी० पृ. 366 / स्या. रत्ना० पृ. 179 / स्या० मं० कारि० 17 ॥४-स्मस्वरूपस्य भा० / 5 द्वे विद्ये वेदितव्ये शब्दब्रह्म परञ्च यत् / शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति / ब्रह्मबिन्दुपनि 22 / 'द्वे ब्रह्मणी-न्यायमं० पृ. 536 / तत्त्वार्थश्लो. पृ.१०५ /