________________ 138 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० वश्वायं ज्ञानानुत्पाद इति / अथ ज्ञातः; कुतस्तज्ज्ञप्तिः-अन्यतः प्रमाणाभावात् , स्वतो वा ? प्रथमपक्षे अनवस्थातः प्रकृताऽभावाऽप्रतिपत्तिः / स्वतस्तज्ज्ञप्तौ सर्वाऽभावस्यापि स्वतो ज्ञप्तिप्रसङ्गात् प्रमाणाभावो व्यर्थः स्यात् / अस्तु, का नो हानिरिति चेत् ? सकलशून्यताव्या घातः तथाभूतस्यास्यैव प्रमाण-प्रमेयरूपत्वप्रसङ्गात् / 'प्रमाण-प्रमेयपदाऽव्यपदेश्यः सर्वाऽभावः' 5 इति चाऽयुक्तम् ; स्वतः स्वरूपं प्रति( ती )यतः तद्रूपप्रतिषेधविरोधात्। तत्पदाऽव्यपदेश्यत्वे वाऽस्याऽसत्त्वप्रसङ्गः / तथाहि-यत्प्रमाणप्रमेयपदाव्यपदेश्यम् तन्नास्ति यथा खरविषाणम , तत्पदाव्यपदेश्यश्च सर्वाऽभाव इति / ___ नाप्यनुपलब्धेः प्रमाणप्रमेययोरभावात् सकलशून्यतासिद्धिः; प्रतिज्ञा-हेत्वोर्विरोधात् सिद्ध साध्यताप्रसङ्गाञ्च, प्रध्वस्ताऽनुत्पन्नानामसत्त्वाभ्युपगमात् / कालात्ययापदिष्टता च; धर्मिहेतु१० दृष्टान्तानां सत्त्वे अनुपलब्धेः तज्ज्ञप्तिसाधनैर्निरस्तविषयत्वात् , तत्सत्त्वाऽनभ्युपगमे आश्रया सिद्धतादिदोषानुषङ्गात् कथं सकलशून्यतासिद्धिः ? अभावधर्मत्वादनुपलब्धेः आश्रयासिद्धताद्यनुपपत्तिः; इत्यप्यसुन्दरम् ; अनुपलब्धेरभावधर्मत्वे प्रमाणाऽभावात् / किञ्च, अनुपलब्धिः स्वरूपेणाधिगता अन्यप्रतीतये प्रयुज्यते, अनधिगता वा ? न तावदनधिगता; ज्ञापकत्वात , यज् ज्ञापकं तत् स्वरूपेणाधिगतमन्यप्रतीतये प्रयुज्यते यथा धूमादि, ज्ञापिका च अनुपलब्धिः 15 सर्वाभावस्येति / नाप्यधिगता; तत्स्वरूपाधिगमे प्रत्यक्षस्य अनुमानस्य वा प्रमाणस्य प्रवृत्ती सकलशून्यताविरोधानुषङ्गात् / न च लिङ्गत्वेन स्वयमनिश्चितायाः दृष्टान्ते कचिदप्रतिपन्नप्रतिबन्धायास्तस्याः स्वसाध्यसिद्धौ गमकत्वं युक्तम् अतिप्रसङ्गात् / अथ विचारात् सर्वाभावः प्रसाध्यते; ननु विचारो वस्तुभूतोऽस्ति, न वा ? यद्यस्ति; कथं सकलशून्यता ? नास्ति चेत् ; कुतः सर्वाऽभावः सिद्धयेत् ? अथ प्रसङ्गसाधनात् तदभावः सांध्यते; न; सर्वाऽसत्त्ववादिनः स्वपरविभागाऽसंभवे प्रसङ्गसाधनस्यैवाऽसंभवात् , परस्येष्टयाऽनिष्टापादनलक्षणत्वात्तस्य / कथञ्च प्रमाणप्रमेयप्रपञ्चं प्रतीतिभूधरशिखरारूढमनभ्युपगम्य स्वप्नेप्यप्रतीयमानं सर्वाऽभावमभ्युपगच्छन् प्रामाणिकः स्यात् ? स्वप्ने करितुरगादिवत् मिथ्यैव तत्प्रपञ्चः प्रतिभातीति चेत् ; क इदानी सत्यता स्यात् ? घटादिपदार्थाऽसत्त्वे चेत् ; कुतस्तस्य सत्यता ? बाधारहितप्रतिभासाञ्चेत् ; तदितरत्र समानम् / यथैव हि कचिद्देशे काले वा पदार्था२५ नामसत्त्वे बाधारहितप्रतिभासोऽस्ति, तथा सत्त्वेऽपि / यदि च प्राक्-प्रध्वंसाभाववत् मध्येऽयर्था 1 ज्ञानानामुत्पाद ज० / 2 स्वरूपप्रतिपत्तिः ज० / स्वरूपं प्रतिनियतः भा० / 3 चा भा० / 4 धमिहेतुदृष्टान्तादिशप्तिसाधनैः / 5 प्रयुज्येत ब०, भां०। 6 “नहि विचारस्याभावे कस्यचिद् विचारेणानुपपत्तिः शश्या वक्तं नापि शून्यवादिनः किञ्चिन्निणीतमस्ति यदाश्रित्य क्वचिदन्यत्र अनिणी-- तेऽर्थे विचारः प्रवर्तते तस्य सर्वत्र विप्रतिपत्तेः / तथा चोक्तं तत्त्वार्थश्लोकवार्तिके (पृ० 80 श्लो० 140) किश्चिन्नितिमाश्रित्य विचारोऽन्यत्र वर्तते / सर्वविप्रतिपत्तौ तु क्वचिन्नास्ति विचारणा // " अष्टसह• पृ. 116 / 7 साध्येत आ० / 8 मध्ये पदार्था-ब०, ज• /