________________ लघी० 115] शून्याद्वैतवादः 137 मुख्यं संवेदनम् यथा शशशृङ्गस्य , अज्ञानरूपाश्च असत्त्वेनोपगता उत्पादादयो धर्मास्तदुपलक्षिताश्वार्था इति / द्वितीयपक्षोऽप्यनुपपन्नः; यतः स्वाकारनिर्भासिज्ञानोत्पादनमेव गौणं संवेदनमुच्यते, तच्च अश्वविषाणवदसतामुत्पादादीनामयुक्तम् सर्वसामर्थ्यविरहलक्षणत्वादसत्त्वस्य / यत् सर्वसामर्थ्यविरहितं न तस्य गौणं संवेदनम् यथा अश्वविषाणस्य , सर्वसामर्थ्यविरहिताश्च असत्त्वेनाभिमता उत्पादादयो धर्माः तद्वन्तश्वार्था इति / किञ्च, उत्पादादीनां ज्ञानेन सार्द्ध कः सम्बन्धः येन तस्मिन् संवेद्यमाने नियमेन ते संवेघेरन-किं तादात्म्यम् , तदुत्पत्तिर्वा ? न तावत्तादात्म्यम् ; ज्ञानवत् तेषामपि सत्त्वप्रसङ्गात् / नापि तदुत्पत्तिः; उत्पादाद्याकाराणां नीरूपत्वे जन्यत्वस्य जनकत्वस्य चाऽसंभवात् / अतः सम्बन्धाऽभावात् कथं तेन तेषां संवेदनम् ? यस्य येन सम्बन्धो नास्ति तस्मिन् संवेद्यमाने नियमेन स न संवेद्यते यथा ज्ञानात्मनि संवेद्यमाने वन्ध्यासुतः, नास्ति च तादात्म्य-तदुत्पत्ति- 10 लक्षणः सम्बन्धी ज्ञानेन सह असत्त्वभूतानामुत्पादाद्याकाराणामिति / अस्ति चैतेषां ज्ञाने संवेद्यमाने नियमेन संवेदनम् , अतोऽस्ति कश्चित् तेषां तेन सम्बन्धः, स च परमार्थसत्त्वमन्तरेण न संभवतीति सिद्धं तेषां परमार्थसत्त्वम्। यस्मिन् संवेद्यमाने यन्नियमेन संवेद्यते तत् तेन सम्बद्धम् परमार्थसञ्च यथा ज्ञाने संवेद्यमाने तत्स्वरूपम्, संवेद्यन्ते च ज्ञाने संवेद्यमाने नियमेनोसादादयः तद्वन्तश्चार्था इति / संवेद्यमानानामप्येषामसत्त्वे ज्ञानस्वरूपेऽप्यसत्त्वानुषङ्गात् सकल- 15 शून्यताप्रसङ्गः स्यात् / इष्टत्वान्न तत्प्रसङ्गो दोषाय इति चेत् ; ननु केयं सकलशून्यता नाम यदिष्टिोपाय न स्यात्-सकलपदार्थाऽभावमात्रम् , ग्राह्यग्राहकभावादिरहितं संविन्मात्रं वा स्यात् ? प्रथमविकल्प किं तस्याः सद्भावावेदकं किञ्चित्प्रमाणमस्ति , न वा ? यदि नास्ति; कथं तत्सिद्धिः प्रमाणनिबन्धनत्वाद् वस्तुसिद्धेः / अथ अस्ति; कथं सकलशून्यता प्रत्यक्षादिप्रमाणस्य तज्जनकस्ये- 20 न्द्रियादेश्च सद्भावे सकलशून्यताविरोधात् ? किञ्च, सकलशून्यता प्रमाणप्रमेययोः ग्राहकप्रमाणाऽभावात् , अनुपलब्धेः, विचारात्, प्रसङ्गाद्वा स्यात् ? प्रथमपक्षे कोऽयं तद्ब्राहकप्रमाणाऽभावः-दुष्टेन्द्रियप्रभवप्रत्ययाः संशयादयः, ज्ञानानुत्पादो वा ? तत्राद्यविकल्पोऽनुपपन्नः; संशयादिसद्भावाभ्युपगमे सकलशून्यताहानिप्रसङ्गात् / ज्ञानानुसादोऽपि ज्ञातः सर्वाभावं गमयति, अज्ञातो वा ? न तावदज्ञातः; अति- 25 प्रसङ्गात् / योऽभावः स ज्ञातोऽन्याभावं गमयति यथा क्वचिद् धूमाऽभावोऽग्न्यभावम् , अभा १"अभूतपरिकल्पोऽयं द्वयं तत्र न विद्यते / शून्यता विद्यते त्वत्र तस्यामपि स विद्यते // यस्माद् द्वयं तत्र न विद्यते / अभूतपरिकल्पो हि ग्राह्यग्राहकरहितः शून्य इति न सर्वथा स्वभावतो नास्ति'." मध्यान्तवि. सू० टी० पृ. 9 / 2 “किञ्च, सकलशून्यता प्रमाणप्रमेययोरनुपलब्धिवः, विचारात् , प्रसङ्ग'साधनाद्वा स्यात् / " स्या. रत्ना० पृ. 189 / 3 “यस्यापीष्टं न निर्णीतं क्वचित्तस्य न संशयः / तदभावे न युज्यन्ते परपर्य्यनुयुक्तयः // 144 // " तत्त्वार्थश्लो. पृ. 8. / 18