________________ 136 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० शेषेऽपि प्रतीतितः स्वरूपप्रतिभासस्य सत्यत्वाभ्युपगमे प्रत्ययत्वाऽविशेषेऽपि जाग्रद्दशाबहिरर्थप्रत्ययानां प्रतीतितः सत्यत्वं किन्नाभ्युपगम्येत विशेषाभावात् ? यानि च ‘एकाऽनेकस्वरूपविचाराऽसहत्वात्' इत्याद्यनुमानानि उपन्यस्तानि ; तान्यपि पक्ष-हेतु-दृष्टान्तदोषैरेतैरेव प्रतिव्यूढानि प्रतिपत्तव्यानि / तद्विचाराऽसहत्वञ्च सर्वोऽप्य 5 सिद्धम् ; आत्माद्यर्थानामेकानेकस्वरूपविचारसहत्वात् / न हि क्रमवद्विज्ञानादिकार्योपयोगित्वम् आत्मादेः भेदप्रसाधकम् ; तत्सामर्थ्यभेदस्यैव अतः प्रसिद्धः / ननु सामर्थ्यस्य स्वभावभूतस्य भेदे कथन्न तद्वतो भेदः ? इत्यप्यसमीचीनम् ; स्वभावभेदस्य भावभेदं प्रत्यनङ्गत्वात् , कथमन्यथा चित्रमेकं ज्ञानं स्यात् ? तदनभ्युपगमे च सकलशून्यता प्रागेव प्रतिपादिता। कथं वा ग्राह्याकारविवेकरूपतया परोक्षतां संविद्रूपतया च प्रत्यक्षतां विभ्रतो ज्ञानस्य स्वभावभेदसंभ१० वाद् एकत्वं स्यात् ? यदप्युक्तम्-'उत्पादादिधर्मरहिताश्चार्थाः' इत्यादिः ; तदप्यसाम्प्रतम् ; द्रव्यरूपतया सतां पर्यायरूपतया चाऽसतां तेषामुत्पादादिधर्मसद्भावोपपत्तेः, न हि सर्वथा सतोऽसतो वा तद्ध र्माणामुपपत्तिः इति यथास्थानं निवेदयिष्यामः / यदि च उत्पादादिधर्माः सर्वथा न सन्ति, तदा चिन्मात्रस्य असत्त्वमनुषज्यते कार्यकारित्वाऽभावात् खपुष्पवत् , नित्यत्वं वा स्यात् संद१५ कारणवत्त्वादाकाशादिवत्। तेषामसत्त्वे च कथं विशदप्रतिभासगोचरता ? यत्सर्वथाप्यसन्न तद्विशदप्रतिभासगोचरः यथा खपुष्पम् , सर्वथाऽप्यसन्तश्च भवद्भिः परिकल्पिता उत्पादादयो धर्मा इति / तद्गोचरवे वा सर्वथाप्यसत्त्वानुपपत्तिः, यद्विशदप्रतिभासगोचरः न तत् सर्वथाप्यसत् यथा संवित्स्वरूपम् , विशदप्रतिभासगोचराश्च उत्पादादयो धर्मा इति। न चेदमसि द्धम् ; सुवर्णादौ कटकाद्युत्पादादेः आबालं विशदप्रतिभासगोचरचारितया सुप्रसिद्धत्वात्। तत्र 20 तेषां सर्वाऽसत्त्वे च संवेदनमात्रमपि न प्राप्नोति, यद् यत्र सर्वथाप्यसत् न तत्तत्र संवेद्यते यथा दुःख सुखम् नीलाकारे वा पीताकारः, सर्वथाऽप्यसन्तश्चोत्पादादयो धर्मा अर्थेष्विति / ननु मरीचिकाचक्रे जलस्याऽसत्त्वेऽपि संवेदनसंभवात् अनेकान्तः; इत्यप्यसत् ; तत्र तस्य सर्वथाऽसत्त्वस्याऽसंभवात् / द्रव्यक्षेत्रकालाकारतया हि असत्त्वं सर्वथाऽसत्त्वमुच्यते, तच्चास्य अत्र नास्ति वीचीतरङ्गाद्याकारेण सदृशात्मना तत्र तस्य सत्त्वात्, अन्यथा काष्ठपा२५ षाणादिवत् तञ्चक्रेऽपि तत्संवेदनोत्पत्तिर्न स्यात् / अस्तु वा असताम येषां संवेदनम् ; तथापि मुख्यम् , गौणं वा तत् स्यात् ? तत्राद्यपक्षोऽयुक्तः; ज्ञानस्यैव हि स्वात्मभूतोऽसाधारणो धर्मो मुख्यं संवेदनम् , तत्कथम् अज्ञानरूपाणामुत्पादादीनां स्यात् ? प्रयोगः-यदज्ञानरूपं न तस्य १पृ० 131 पं० 12 ।२-था असिद्धम् भां०।३ "क्षणस्थायिनः कस्यचिदेव ग्राह्यग्राहकाकारवैश्वरूप्यानभ्युपगमेऽपि संविदितज्ञानस्य ग्राह्यग्राहकाकारविवेकं परोक्षं विभ्राणस्य सामर्थ्यप्राप्तेः (अष्टश.) संवेदनस्यैकस्य प्रत्यक्षपरोक्षाकारतया वैश्वरूप्यसिद्धः / " अष्टसह पृ० 91 / 4 पृ० 132 पं० 7 / 5 “सदकारणवन्नित्यम् / " वैशेषिकसू० ४।१।१।६-थाप्यसत्त्वे ब०, ज०, भां०।७ वाऽसताममीषाम् भा० /