________________ लघी० 1 / 5] शून्याद्वैतवादः 135 यच्चान्यदुक्तम्-'सर्वे प्रत्यया निरालम्बनाः' इत्यादि; तदप्यविचारितरमणीयम्; जाग्रत्प्रत्ययानां स्वरूपव्यतिरिक्तस्थिरस्थूलसाधारणस्तम्भकुम्भाद्यर्थोद्योतकत्वेन प्रत्यक्षतः प्रतीतेः / तथा च 'अश्रावणः शब्दः सत्त्वात्' इत्यादिवत् प्रत्यक्षबाधितपक्षनिर्देशानन्तरं प्रयुक्तत्वेन कालात्ययापदिष्टं प्रत्ययत्वम् / असिद्धञ्च; प्रत्ययेभ्यो व्यतिरिक्तस्य प्रत्ययत्वस्य भवताऽनभ्युपगमात्, तेषामेव च हेतुत्वे प्रतिज्ञार्थंकदेशाऽसिद्धता / आश्रयासिद्धता च; तद्ग्राहकप्रमाणस्य प्रत्य- 5 यत्वतो निरालम्बनत्वेनाश्रयस्याऽतोऽप्रसिद्धः / स्वरूपासिद्धता च; हेतुस्वरूपग्राहकप्रत्ययस्यापि अत एव निरालम्बनत्वात् / अथ एतदोषपरिजिहीर्षया पक्षादिप्रसिद्धये तद्ग्राहकप्रत्ययस्य सालम्वनत्वमङ्गीक्रियते, तर्हि तेनैव प्रत्ययत्वमनैकान्तिकम् / विरुद्धञ्च; सालम्बनत्वे सैत्येव हि प्रत्ययानां प्रत्ययत्वमुपपद्यते, यतः प्रतीयते स्वरूपं पररूपं वा यैः ते प्रत्ययाः तद्भावः प्रत्ययत्वम्, तत् कथं निरालम्बनत्वविरुद्धेन सालम्बनत्वेन न व्याप्येत यतो विरुद्धं न स्यात् ? 10 दृष्टान्तश्च साध्यविकलः; स्वप्नादिप्रत्ययानामपि बाह्यार्थालम्बनत्वेन निरालम्बनत्वाभावात् / "द्विविधो हि स्वप्नः-सत्यः, असत्यश्च / तत्राद्यो देवताविशेषकृतो धर्माऽधर्मकृतो वा कश्चित् साक्षादर्थाऽव्यभिचारी, यद्देशकालाऽऽकारतया स्वप्ने प्रतिपन्नोऽर्थः तद्देशकालाकारतया जाग्रहशायां तस्य प्राप्तिप्रसिद्धः / कश्चित्तु परम्परया; राजादिदर्शनेन स्वप्नाध्यायनिगदितार्थस्य कुटुम्बवर्द्धनादेः प्राप्तिहेतुत्वात् अनुमानवत् , कचिद्वयभिचारस्य अनुमानेऽपि समत्वात् / योऽपि 15 वातपित्ताशुद्रेकजनितोऽसत्यत्वेन प्रसिद्धः स्वप्नः सोऽपि नार्थमात्रव्यभिचारी, न हि किञ्चिज्ज्ञानं सत्तामात्र व्यभिचरति तस्यानुत्पत्तिप्रसङ्गात् , विशेषं तु यत एव व्यभिचरति अत एव 'असत्यः' इति / न च स्वप्नादौ बौद्धन बोधोऽभ्युपगम्यते इति कस्य दृष्टान्तता ? अभ्युपगमे वा साध्यसाधनधर्मग्राहकप्रत्ययस्य निरालम्बनत्वे साध्यसाधनोभयविकलता दृष्टान्तस्याऽनुष ज्यते / दृष्टान्तग्राहकस्य च प्रत्ययस्य निरालम्बनत्वे दृष्टान्तस्यैवाऽसत्त्वाद् अनन्वयत्वम् / धर्मि- 20 धर्मोभयप्रत्ययानां निरालम्बनत्वे वा अप्रसिद्धविशेष्यः अप्रसिद्धविशेषणः अप्रसिद्धोभयश्च पक्षः स्यात् / प्रतिज्ञा हेत्वोर्विरोधश्च; सर्वप्रत्ययानां निरालम्बनत्वे साध्ये हेतूपादाने तत्प्रत्ययत्वस्य सालम्बनत्वाऽभ्युपगमात्, अन्यथा किंसाधनः साध्यमयं साधयेत् ? किञ्च, स्वप्नदृष्टान्तेन अखिलप्रत्ययानां बहिमिथ्यात्वाभ्युपगमे स्वरूपेऽपि तत्प्रसङ्गः / तथाहि-यत् प्रतिभासते तन्मिथ्या यथा अर्थः, प्रतिभासते च विज्ञानस्वरूपमिति / प्रतिभासाऽवि- 25 1 पृ. 131 पं०६।२-गमत्वात् भां०।३सत्येव बहि आ०।४च ब०,ज०, भां० ।५“द्विविधो हि स्वप्नः सत्योऽसत्यश्च। तत्र सत्यो देवताकृतः स्यात् धर्माधर्मकृतो वा कस्यचित् साक्षाद् व्यवसायात्मकः प्रसिद्धः स्वप्नदशायां यद्देशकालाकारतया अर्थः प्रतिपन्नः पुनर्जाग्रद्दशायामपि तद्देशकालाकारतयेव तस्य व्यवसीयमानत्वात् / कश्चित् सत्यः स्वप्नः परम्परया अर्थव्यवसायी स्वप्नाध्यायनिगदितार्थप्रापकत्वात् तदुक्तम्यस्तु पश्यति रात्र्यन्ते राजानं कुञ्जरं हयम् / सुवर्ण वृषभं गाञ्च कुटुम्ब तस्य वर्द्धते॥ प्रमाणपरी.पृ०५८॥ स्या. रत्ना० पृ. 186 / 6 प्रति हे- आ० / 7 व्यभिचारीति भा• / 8 स्वापादौ ब०, ज०, आ० /