________________ 134 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे 1 प्रत्यक्षपरि बाधकं मध्यक्षणरूपं संविमात्रञ्चेत; कुतस्तत्सिद्धिः ? नीलादिप्रतिभासानामवास्तवत्वाचेत्, इतरेतराश्रयत्वम्-सिद्धे हि मध्यक्षणरूपे संविन्मात्रे तत्त्वे तत्प्रतिभासानामवास्तवत्वसिद्धिः, तसिद्धौ च तथाविधसंविन्मात्रतत्त्वसिद्धिरिति / अन्यञ्च यत् संविन्मात्रप्रसाधकं प्रमाणं तत् प्रागेवाऽपास्तम् / तद्गोचरस्य अर्थक्रियाकारित्वाभावस्तु असिद्धः; जलानलादेस्तद्गोचरस्य 5 स्नानपानाद्यर्थक्रियाकारित्वेन सदा सुप्रसिद्धत्वात् , तस्याश्च अनर्थक्रियात्वे काऽपरा अर्थक्रिया स्यात् ? स्वरूपानुभवनं सा इति चेत् / तदपि ज्ञानगतानां नीलाद्याकाराणामस्त्येव, नहि निराकारस्य मध्यक्षणरूपस्य संविन्मात्रस्यानुभवनं कदाचिदप्यस्ति, बहिरन्तर्वाऽनेकाकारस्यैवार्थस्य अनुभवनात् / - अथ नीलाद्यनेकाकारानुभवो मिथ्या ; ननु संवित्-नीलाद्याकारयोः एकानेकस्वभा१० वयोः प्रतिभासाऽविशेषेऽपि कुतो वास्तवेतरत्वप्रविवेकः ? एकाकारस्य अनेकाकारेण विरोधा त्तस्य अवास्तवत्वे कथमेकाकारस्यैवाऽवास्तवत्वं न स्यात् ? स्वप्नज्ञाने अनेकाकारस्याऽवास्तवस्य प्रसिद्धेः चित्रज्ञानेऽपि तस्य अवास्तवत्वे केशादौ एकाकारस्याप्यवास्तवस्य प्रसिद्धेः अन्यत्रा-. प्येकाकारस्यैव अवास्तवत्वं किन्न स्यात् ? यथा च अनेकाकारस्य एकाकारादभेदेऽनेकत्वं विरु द्धयते, भेदे तु संवेदनान्तरत्वमनुषज्यते; तथा एकाकारस्यापि अनेकाकारादभेदेऽनेकत्वम् , भेदे 15 तु संवेदनान्तरत्वमनुषज्यत इति / यदि च एकस्याऽनेकाकारता नेष्यते तदा प्रत्याकारं ज्ञानस्य सन्तानान्तरवद्भेदः स्यात् , तेषाञ्चाकाराणां नीलाकारेणाऽनुपलम्भतः तद्वदेवाऽसत्त्वं स्यात् / नीलींशस्यापि प्रतिपरमाणु भेदात् नीलाणुसंवेदनैः परस्परं भिन्नैर्भवितव्यम् , तेषाञ्च एकनीलाणुसंवेदनेनाऽनुपलम्भादसत्त्वम् , एकनीलाणुसंवेदनस्याप्येवं वेद्य-वेदक-संविदाकारभेदात् त्रितयेन भवितव्यम् , वेद्याकारादिसंवेदनत्रयस्यापि प्रत्येकमपरस्ववेद्याकारादिसंवेदनत्रयेण इत्यनवस्था, 20 अतो नेष्टतत्त्वसिद्धिः स्यात् / तथाभूतस्य चास्य अनुपलम्भतोऽभावप्रसङ्गात् सकलशून्यतैक स्यात् / ततः प्रतीतितो वस्तुव्यवस्थामभ्युपगच्छद्भिः बहिरन्तर्वा एकानेकप्रतिभासात् तथाविधं वस्तु प्रेक्षादक्षैः प्रतिपत्तव्यम् / 1 स्नानादिक्रियायाः / २-र्थक्रियाकारित्वे भां० / 3 “अथ स्वरूपानुभवनमर्थक्रिया" स्या० रत्ना० पृ० 183 / ४-रूप संवि-आ० / ५-षे कुतो भां० / “कथमेकानेकाकारयोः प्रतिभासाऽविशेषेऽपि वास्तवेतरत्वप्रविवेकः एकाकारस्य अनेकाकारेण विरोधात् तस्य अवास्तवत्वे कथमेकाकारस्यैव अवास्तवत्वं न स्यात् ? स्वप्नज्ञाने अनेका कारस्य अवास्तवस्य प्रसिद्धः चित्रज्ञानेऽपि तस्य अवास्तवत्वं युक्तं कल्पयितुमिति चेत् ; केशादावेकाकारस्यापि अवास्तवत्वसिद्धः तत्रावास्तवत्वं कथमयुक्तम् ?" अष्टसह. पृ. 76 / स्या० रत्ना० पृ० 184 / 6 “नन्वेवं नीलवेदनस्यापि प्रतिपरमाणुभेदात् नीलाणुसंवेदनैः परस्पर भिन्नः भावतव्यं तत्र एकनीलपरमाणुसंवेदनस्याप्येवं वेद्यवेदकसंविदाकारभेदात् त्रितयेन भवितव्यं वेद्याकारादिसंवेदनत्रयस्यापि प्रत्येकमपरस्ववेद्यादिसंवेदनत्रयेण इति परापरवेदनत्रयकल्पनादनवस्थानात् न. क्वचिदेकवेदनसिद्धिः संविदद्वैतविद्विषाम् / " अष्टसह. पृ. 77 //