________________ ____ 133 * लंघी० 115] शून्याद्वैतवादः 133 " मन्त्राद्युपप्लुताक्षाणां यथा मृच्छकलादयः / __ अन्यथैवाऽवभासन्ते तद्रूपरहिता अपि // " [ प्रमाणवा० 3 / 355 ] तथा प्राह्य-ग्राहकभावादिरपि अविद्याविनिर्मित एव , तंदविपर्यासितदर्शनानां तथाप्रतिभासाऽभावात् / उक्तञ्च " अविभागोजपि बुद्ध्यात्मा विपर्यासितदर्शनैः / ग्राह्य-ग्राहक-संवित्तिभेदवानिव लक्ष्यते // " [ प्रमाणवा० 3 / 354 ] इति। रविकिरणसंस्पृष्टनीहारनिकरवत् तत्त्वज्ञानात् निखिलाविद्याविलास विलये तु ग्राह्य-प्राहकमावाद्यखिलधर्मविकलं संवित्स्वरूपमात्रमाभासते / तदुक्तम् “नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः / ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते // " [प्रमाणवा० 3 / 327 ] इति। 10 अत्र प्रतिविधीयते / यत्तावदुक्तम्-'नोलाद्याकारप्रतिभासस्य अविद्याशिल्पिकल्पितत्वा: प्रोक्तस्य माध्यमिकमतस्य वास्तवत्वम्' इत्यादि / तत्र कुतोऽयं नीलादिप्रतिभासोऽविद्याप्रभवः प्रतिविधानम् - बाध्यमानत्वात् , तद्गोचरस्यार्थक्रियाकारित्वाऽभावाद्वा ? प्रथमपक्षे न सर्वत्र जल-नीलादिप्रतिभासस्याऽविद्याप्रभवत्वसिद्धिः, यत्र हि असौ बाध्यमानः तत्रैवाऽविद्याप्रभवः यथा मरीचिकायां जलप्रतिभासः शुक्तिकाशकले च रज- 15 तप्रतिभासः, न पुनः सत्ये जले जलप्रतिभासः रजते वा रजतप्रतिभास इति / किञ्च, अत्र . . 1 उद्धृतञ्चैतत्-सिद्धिवि० टी० पृ० 57 पू०, 165 उ०, 216 उ० / न्यायवि० टी० पृ० 168 पू० / स्या० रत्ना० पृ. 182 / 2 तद्विपर्या-आ० / 3 उद्धृतश्चैतत्-न्यायमं० पृ० 540 / सिद्धिवि० टी० पृ० 165 उ०, 313 उ० / अष्टसह० पृ. 93 / न्यायवि० टी० पृ. 168 पू. / स्या. रत्ना० पृ. 182 / शास्त्रवा० टी० पृ. 215 उ० / मी० श्लोकवा० टी० पृ. 272 / सर्वदर्शनसं० पृ. 32 / 'अभिन्नोऽपि हि बुद्धयात्मा' इति पाठान्तरेण बृहदारण्यकभा० वा. 4 / 3 पृ. 1458 / 4 नान्योनुभाव्यस्तेनास्ति तस्या नानुभवोऽपरः। तस्यापि तुल्यचोद्यत्वात् स्वयं सैव प्रकाशते // बुद्धद्या योऽनुभूयते स नास्ति परः, यथा अन्योऽनुभाव्यो नास्ति तथा निवेदितम् / तस्याः तर्हि परोऽमुभवो बुद्धरस्तु; न; तत्रापि ग्राह्यग्राहकलक्षणाभावः / परं हि संवेदनस्वरूपे अवस्थितं कथं परस्यानुभवः साक्षात्करणादिकं प्रत्याख्यातम् / तत्संवेदनानुप्रवेशे च तयोरेकत्वमेव स्यात् तथा च स्वयं सैव प्रकाशते -न ततः पर इति स्थितम् / " प्रमाणवार्त्तिकालंका. 31327 / तत्त्वार्थश्लो० वा. पृ. 121 / आप्तपरी. पृ. 47 / प्रमेयक. पृ. 24 पू० / न्यायवि. टी. पृ. 132 उ.। सन्मति• टी० पृ. 483 / "नान्योनुभावो' 'स्वयमेव प्रकाशते' इति पाठान्तरेण न्यायमं० पृ० 540 / मी० श्लोकवा० टी० पृ. 275 / सर्वदर्शनसं० पृ. 31 / षड्दर्शनसमु० वृह पृ. 40 / स्याद्वादमं पृ० 139 / 5 पृ० 130 पं० 21 / 6 “कुतोऽयं नीलाद्याकारप्रतिभासोऽविद्यानिबन्धनः-किं बाध्यमानत्वात् , गोचरस्य अर्थक्रियाकारित्वाभावाद्वा?" स्या० रत्ना० पृ. 183 /