________________ 132 लघीयस्खयालङ्कारे न्यायकुमुदचन्द्र [1 प्रत्यक्षपरि० नित्यैकरूपतयोपगतत्वात् नितरां नावतिष्ठते / अतो भावा यथा यथा विचार्यन्ते तथा तथा प्लवन्त एव केवलम् इति सिद्धं तेषां तद्विचाराऽसहत्वम् / उक्तञ्च "भावा येन निरूप्यन्ते तद्रूपं नास्ति तत्त्वतः / यस्मादेकमने च रूपं तेषां न विद्यते // " [ प्रमाणवा० 3 / 360 ] " तदेतन्नूनमायातं यद्वदन्ति विपश्चितः / यथा यथाऽश्चिन्त्यन्ते विशीर्यन्ते तथा तथा ॥”[प्रमाणवा० 3 / 206] इति / तथा, उत्पादादिधर्मरहिताश्चैते तद्रूपतयाऽपि विचाराऽसहत्वा विशेषात् / तथाहि-न स्वतो भावाः समुत्पद्यन्ते कारणनैरपेक्ष्येणोत्पद्यमानानां देशादिनियमाऽभावप्रसङ्गात् / परतोऽपि सतः, असतः, सदसद्रूपस्य वोत्पत्तिः स्यात् ? न तावत् सतः ; कारणवत् तथाविधस्योत्पत्तिवि१० रोधात् / नाप्यसतः ; खरविषाणवत् / नापि सदसद्रूपस्य; विरोधादेव। नाप्युभाभ्यामेषामुत्पत्तिः, उभयदोषानुषङ्गात् / अहेतुका तूत्पत्तिर्न केनचिदिष्टा / तदुक्तम् " नै स्वतो नापि परतः न द्वाभ्यां नाप्य हेतुतः / . उत्पन्ना जातु विद्यन्ते भावाः क्वचन केचन // " [माध्यमिकट० प्रत्ययप० कारि० 1 ] इति / एतेन स्थितिभङ्गावपि चिन्तिती, तयोरपि 'स्वतः परतो वा' इत्यादिप्रकारेण सद्भावा१५ भ्युपगमे उक्तदोषानुषङ्गात् / अतो मरीचिकादौ तोयादिप्रतीतिवत् भावेषु उत्पादादिप्रतीति र्धान्तिरेव / उक्तञ्च" यथा माया यथा स्वप्नो गन्धर्वनगरं यथा / तथोत्पादस्तथा स्थानं तथा भङ्ग उदाहृतः // " [माध्यमिकट० संस्कृतपरी० कारि० 34] इति। यद्येवम् असतां कथं तेषां प्रतिभासः इति चेत् ? अनाद्यविद्यावासनाप्रभावात्, करि२० तुरगादीनामसतां मन्त्राद्युपप्लवसामर्थ्यात् मृच्छकलादौ केषाश्चित् प्रतिभासवत्। तदुक्तम् 1 उद्धृतश्चैतत् अष्टसह पृ० 115 / तत्त्वार्थश्लो० पृ० 145 / सन्मति० टी० पृ० 376 / शास्त्रवा० टी० पृ. 215 पू० / स्या० रत्ना० पृ० 181 / 2 "इदं वस्तुबलायातं यद्वदन्ति विपश्चितः। यथा यथार्था विद्यन्ते विविच्यन्ते तथा तथा // " प्रमाणवा० / सिद्धिवि० टी० पृ० 77 उ० / न्यायवि. टी० पृ. 408 उ० / स्या० रत्ना० पृ. 181 / 3 स्या. रत्ना० पृ० 181 / 4 स्या० रत्ना० पृ. 182 / “यथा मायादयः स्वभावेन अनुत्पन्ना अविद्यमाना मायादिशब्दवाच्या मायादिविज्ञानगम्याश्च लोकस्य / एवमेतेऽपि लोकप्रसिद्धिमात्रेण उत्पादादयः स्वभावेन अविद्यमाना अपि भगवता तथाविधविनेयजनानुग्रहचिकीर्षुणा निर्दिष्टा इति / अत एवोक्तम् ( समाधिराजसूत्रे ) * यथैव गन्धर्वपुरं मरीचिका यथैव माया सुपिनं यथैव / स्वभावशून्या तु निमित्तभावना तथोपमान जानथ सर्वधर्मान् // " माध्यमिक० संस्कृतपरी• पृ. 177 / " यत्तूक्तं भगवता मायोपमा धर्मा यावत् निर्वाणोपमा इति।” महायानसूत्रालं० पृ० 62 / "एतदुक्तं भगवता-अनुत्पन्नाः सर्वभावा मायोपमाश्च इति / " लंकावतार सू.द्वि. भा० पृ०.१११ /