________________ 131 लघो० 115] शून्याद्वैतवादः ___ ने च ज्ञाने चित्ररूपतापाये तत्स्वरूपप्रतिपत्तिः विरुद्धयते; तदपायेऽपि स्वरूपस्य स्वतो गतेरुपपत्तेः, संवेदनमात्रतापाये एव तद्विरोधात् / न च अनेकत्वप्रतिभासो वास्तवाऽनेकत्वे सत्येवोपपद्यत इत्यभिधातव्यम् ; स्वप्नावस्थायां तदभावेऽपि तदर्शनात् / अतः संवेदनमात्रमेव आलम्बनप्रत्ययरहितं वास्तवं तत्त्वम् सकलप्रत्ययानां निरालम्बनस्वभावत्वात् , तत्स्वभावत्वचैतेषां प्रत्ययत्वेन हेतुना प्रसाध्यते, स्वप्नादौ प्रत्ययत्वस्य निरालम्बनत्वेनाऽविनाभावप्रतिपत्तेः / 5 तथा च प्रयोगः-सर्वे प्रत्यया निरालम्बनाः प्रत्ययत्वात् स्वप्नेन्द्रजालादिप्रत्ययवत् इति / नचाऽनुभूयमानमध्यक्षणरूपसंविद्वयतिरिक्तेऽर्थे किठिचत्प्रमाणं क्रमते ; समकालस्य भिन्नकालस्य वा तत्र तस्य प्रवृत्त्यनुपपत्तेः / सैव परमार्थसती मध्यमा प्रतिपत्तिः सर्वधर्मनिरात्मता सकलशून्यता.चोच्यते / तदुक्तम् " मध्यमा प्रतिपत् सैव सर्वधर्मनिरात्मता / भूतकोटिश्च सैवेयं तथ्यता सैव शून्यता // " [ ] इति / सर्वधर्मरहितता चार्थानाम् एकानेकस्वरूपविचाराऽसहत्वात् सिद्धा। ताहि-ये एकानेकस्वरूपविचाराऽसहाः न ते परमार्थसन्तः यथा खरविषाणादयः , एकाऽनेकस्वरूपविचाराऽसहाश्च परपरिकल्पिता आत्मादयो भावा इति / आत्मादिभावानां हि एकरूपतयोपगतानां क्रमवद्विज्ञानादिकार्योपयोगित्वाऽभ्युपगमे तावद्धा भेदप्रसङ्गात् नैकरूपताऽवतिष्ठते, अनेकरूपतो तु 15 देवेन्द्रव्याख्या-यदि नाम एकस्यां मतौ न सा चित्रता भावतः स्यात् , किं स्यात्-को दोषः स्यात् ? तथा च भावत: चित्रया मत्या भावा अपि चित्राः सिद्धयन्ति, तद्वदेव च सत्या भविष्यन्तीति प्रष्टरभिप्रायः / शास्त्रकार आह-'न स्यात्तस्यां मतावपि' इति, व्याहतमेतत्-'एका, चित्रा च' इति, एकत्वे हि सत्यनानारूपापि वस्तुतो नानाकारतया प्रतिभासते, न पुनर्भावतस्ते तस्या आकाराः सन्ति इति बलादेष्टव्यम् एकवहानिप्रसङ्गाद् / न हि नानात्वैकत्वयोः स्थितेरन्यः कश्चिदाश्रयः, अन्यत्र भाव काभ्यामाकारभेदाऽभेदाभ्याम् , तत्र यदि बुद्धिः भावतो नानाकारा एका चेष्यते तदा सकलं विश्वमप्येकं द्रव्यं स्यात् , तथा च सहोत्पत्त्यादिदोषः, तस्मान्नैका अनेकाकारा, किन्तु यदीदं स्वयमर्थानां रोचते अतद्रूपाणामपि सतां यदेतत् ताद्रूप्येण प्रख्यानम् तदेतद् वस्तुत एव स्थितं तत्त्वम् , तत्र के वयं निषेद्धारः ‘एवमस्तु' इत्यनुमन्यते इति / " स्या. रत्ना० पृ० 180 / उद्धृतश्चायं निम्नग्रन्थेषु-सिद्धिवि० टी० पृ० 51 पू० / अष्टसह. पृ. 77 / प्रमेयक० पृ. 25 उ०। सन्मति० टी० पृ. 241 / न्यायवि० टी० पृ०२०९ पू० / स्या० रत्ना• पृ० 180 / 1 ननु आ० / 2 ".."स्वरूपस्य स्वतोगतेः" प्रमाणवा० 2 / 4 / 3 “अत एव सर्वे प्रत्यया अनालम्बनाः प्रत्ययत्वात् स्वप्नप्रत्ययवदिति प्रमाणस्य परिशुद्धिः / " प्रमाणवार्तिकालंकार पृ. 22 / ४"तथता भूतकोटिश्चानिमित्तः परमार्थिकः / धर्मधातुश्च पर्यायाः शून्यतायाः समासतः॥" मध्यान्तवि०सू० टी०पृ० 41 // 5 प्रतिपित्सव ज० / 6 'मध्यता सैव शून्यता' स्या० रत्ना० पृ. 181 / 7 सैव कथ्यते भां० / '८"प्रयोगः-यदेकानेकस्वभावं न भवति न तत् सत्त्वेन ग्राह्यम् प्रेक्षावता यथा व्योमोत्पलम् एकानेकस्वभावरहिताश्च पराभिमताः पृथिव्यादयः इति व्यापकानुपलब्धिः।” तत्त्वसं० पं०पृ०५५०।९, तानुमित्यै-ब०,ज०।