________________ 130 10 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० किञ्च, उपादानकारणापेक्षया सुखादीनां विज्ञानाऽभिन्नहेतुजत्वमुच्यते, सहकारिकारणापेक्षया वा ? तत्राद्यविकल्पे किमेषामभिन्नमुपादानम्-आत्मद्रव्यम् , ज्ञानक्षणो वा ? न तावदात्मद्रव्यम् ; अनभ्युपगमात् / अभ्युपगमे वा किमेतेषामुपादानापेक्षया अभेदः साध्यते , स्वरूपापेक्षया वा ? यधुपादानापेक्षया; तदा सिद्धसाधनम् चेतनद्रव्यार्थादेशात् सुखादीनामभेदा५ भ्युपगमात् , सुखज्ञानादिप्रतिनियतपर्यायार्थादेशादेव अमीषामन्योन्यं भेदाऽभ्युपगमात् / स्व रूपापेक्षया तु अभेदाऽभ्युपगमे घटादिभिर्व्यभिचारः, न ह्यभिन्नोपादानानां घट-घटी-शरावोदञ्चनादीनां स्वरूपतोऽभेदोऽस्ति / अथ ज्ञानक्षणोपादानत्वं विज्ञानाभिन्नहेतुजत्वमभिप्रेतम् ; तदसिद्धम् ; आत्मद्रव्योपादानत्वात्तेषाम् , न खलु पर्यायाणां पर्यायान्तरोत्पत्तौ उपादानत्वं क्वचिद् दृष्टम् द्रव्यस्यैव अन्तर्वहिर्वोपादानत्वोपपत्तेः / तदुक्तम् - “त्यक्ताऽत्यक्तात्मरूपं यत् पौर्वापर्येण वर्तते / कालत्रयेऽपि तद्रव्यमुपादानमिति स्मृतम् // " [ ] आत्मद्रव्यसिद्धिश्च सन्तानविचारावसरे प्रसाधिता, जीवसिद्धचवसरे प्रसाधयिष्यते च / अथ सहकारिकारणापेक्षया विज्ञानाभिन्नहेतुजत्वं सुखादीनां विवक्षितम् ; तदपि विवक्षामात्रम्; तस्य चक्षुरादिभिरनेकान्तिकत्वप्रतिपादनात् / यदि च सुखादयो ज्ञानात् सर्वथाऽभिन्नाः तर्हि तद्व१५ देव एषामप्यर्थप्रकाशकत्वं स्यात्, न चात्र तदस्ति स्वरूपप्रकाशनियतत्वात्तेषाम् / 'ज्ञानं हि स्वपरप्रकाशनियतम् , सुखादिकं तु स्वप्रकाशनियतम्' इति प्रतिप्राणि प्रसिद्धम्, अतो विरुद्धधर्माध्यासात् कथमत्राऽभेदः ? यत्र विरुद्धधर्माध्यासो न तत्राऽभेदः यथा जलाऽनलादौ, विरुद्धधर्माध्यासश्च ज्ञानसुखादाविति / तदेवं सुखादीनां ज्ञानरूपत्वाऽप्रसिद्धः “नीलसुखादि विचित्रप्रतिभासापि एकैव बुद्धिः, अशक्यविवेचनत्वात्" [ ] इत्येतद्वचः सत्यम् 20 अभिप्रायमात्रमेव सूचयतीति / ___ ननु चित्रज्ञाने नीलाद्याकारप्रतिभासस्य अविद्याशिल्पिकल्पितत्वादवास्तवत्वमेव, ज्ञानस्यै'संवेदनमात्रमेव आलम्बन-वानुभवपथप्राप्तस्य एकस्य मध्यक्षणस्वभावस्य वास्तवत्वम् , ततो नीलाप्रत्ययरहितं वास्तवं तत्त्वम् / अनि बोकदेशिमाध्यमिकस्य द्याकाराणामभेदेऽनेकत्वविरोधात्, भेदे प्रतिभासाऽसंभवात् , संभवे वा संवेदनान्तरत्वापत्तेः कथं तच्चित्रता स्यात् ? तदुक्तम्२५ "किं स्यात् सा चित्रतैकस्यां न स्यात्तस्यां मतावपि / यदीदं स्वयमर्थेभ्यो रोचते तत्र के वयम् // " [ प्रमाणवा० 3 / 210 ] इति / 1 उद्धृत चैतत्-अष्टसह. पृ० 210 / युक्त्यनुशा० टी. पृ० 79 / स्या. रत्ना० पृ० 179 / 2 ज्ञानाभिन्नाः आ० / 3 स्वप्रकाशम् आ० / 4 अस्य चित्राद्वैतवादस्य समर्थनपरं प्रमाणवार्तिकस्य तृतीयपरिच्छेदे चिकत्वसिद्धान्ताख्यं प्रकरणं द्रष्टव्यम् / खण्डनएराश्च-तत्त्वार्थश्लो० पृ. 35 / प्रमेयक. पृ० 25 पू० / न्यायवि. टी. पृ० 204 / स्या. रत्ना० पृ. 174 / इत्यादयो प्रन्थाः समबलोकनीयाः / 5 न सान्यस्यां आ० / ६-मर्थानां रो-त्या० रत्ना० पृ० 180 / प्रमाणवा० / “अत्र पर्वपक्ष: