________________ उघी० 115} चित्राद्वैतवादः 129 भिप्रेतमिति / तत्तादात्म्ये च आकाराणां भेदवार्ताऽपि दुर्लभा इति कथं तचित्रता ? अथ नीलाद्याकारवत् तज्ज्ञानमप्यनेकमिष्यते, तदाऽपि किं कथञ्चित् , सर्वथा वा ? यदि सर्वथा; तदा तज्ज्ञानानां परस्परमत्यन्तभेदात् चित्रप्रतिपत्तिः स्वप्नेऽपि न प्राप्नोति / येषां परस्परमत्यन्तभेदो न तेषां चित्रप्रतिपत्तिः यथा सन्तानान्तरज्ञानानाम् , परस्परमत्यन्तभेदश्च आकारवत् तज्ज्ञानानामिति / कथञ्चिदभेदे तु ज्ञानवद् बहिरर्थस्यापि स्वाकारैर्विचित्रैः कथञ्चित्तादात्म्यमनुभ- 5 वतः प्रत्यक्षादिप्रमाणेन प्रतीयमानस्य चित्रस्वभावता इष्यताम् , किं दुराग्रहग्रहाभिनिवेशेन आक्षेप-समाधानयोः बहिरन्तर्वा चित्रतायां समानत्वात् ? ___ यदप्यभिहितम् -'ज्ञानात्मकाः सुखादयः, ज्ञानाऽभिन्नहेतुजत्वात्' इत्यादि; तत्र किं सर्वथा ज्ञानाभिन्नहेतुजत्वं तेषामभिप्रेतम् , कथञ्चिद्वा ? प्रथमपक्षे अँसिद्धो हेतुः; सुखादीनां सदसद्वेद्योदय-स्रग्वनितादिनिमित्तनिवन्धनत्वात् , ज्ञानस्य च ज्ञानावरणक्षयोपशम-इन्द्रियादिकारण- 10 कलापप्रभवत्वात् / विभिन्नस्वरूपत्वाच्च अमीषां सर्वथाऽभिन्नहेतुजत्वमनुपपन्नम् ; येषां विभिन्नस्वरूपत्वं न तेषां सर्वथाऽभिन्नहेतुजत्वम् यथा जलानलादीनाम् , विभिन्नस्वरूपत्वञ्च ज्ञानसुखादीनामिति / न चेदमसिद्धम् ; सुखादेः आह्नादनाद्याकारत्वात् , ज्ञानस्य च प्रमेयानुभवस्वभावत्वात् / उक्तञ्च. " सुखमालादनाकारं विज्ञानं मेयबोधनम् / .. शक्तिः क्रियानुमेया स्याद् यूनः कान्तासमागमे // 1 // "[ ] इति / विभिन्नस्वरूपाणामपि अभिन्नोपादानत्वे सर्व सर्वस्योपादानं स्यात् / अथ कथञ्चिद् विज्ञानाऽभिन्नहेतुजत्वं विवक्षितम् / तद् रूपाऽऽलोकादिनाऽनैकान्तिकम् , यथैव हि ततो विज्ञानस्योसत्तिः तथा रूपाऽऽलोकादिक्षणान्तरस्यापि / 1 “अथ नीलाद्याकारवत् तज्ज्ञानमप्यनेकमिष्यते बदापि किं कथञ्चित् , सर्वथा वा ?" स्या० रत्ना. पृ० 17812 पृ०१२६पं०१६। ३“सर्वथा विज्ञानाभिन्नहेतुजत्वाऽसिद्धत्वात् सुखादीनां सद्वद्योदयादिनिमि' त्तत्वात् विज्ञानस्य ज्ञानावरणान्तरायक्षयोपशमादिनिबन्धनत्वात् / " अष्टसह. पृ०७८ / स्या. रत्ना• पृ० 178 / "सुखादीनां विज्ञानाभिन्नहेतुजत्वेन विज्ञानत्वादशक्यं व्यावर्त्तनमिति चेत् ; न; अभिन्नहेतुजत्वाऽसिद्धेः / न खलु यैव चन्दनस्पर्शज्ञानस्योत्पत्तौ सामग्री सैव सुखस्यापोति"..'न्यायवा ता० टी० पृ. 123 / “अत्र शाक्याश्चोदयन्ति'"ज्ञानरूपाः सुखादयः तदभिन्नहेतुजत्वादिति; तदिदमनुपपन्नम् ; प्रत्यक्षविरुद्धत्वाद्धेतोः ।न्यायमं० पृ. 74 / “नचानयोर्विज्ञानाभिन्नहेतुजत्वम् ; ज्ञानस्य अर्थाकारादुत्पत्तेः, तस्माच्च वासनासहायात् सुखदुःखयोरुत्पादात् अन्यथा उपेक्षाज्ञानाभावप्रसङ्गात् / " प्रशस्त. कन्दली पृ. 90 / ४"कथमन्यथा न्यायविनिश्चये 'सहभुवो गुणाः' इत्यस्य-'सुखमालादनाकारं विज्ञानं मेयबोधकम् / शक्तिः कियानुमेया स्याङ्नःकान्तासमागमे / / इति निदर्शनं स्यात् / " सिद्धिवि० टी० पृ. 96 उ० / अष्टसह. पृ. 78 / सन्मति.टी. पृ. 478 / 'उक्तञ्च स्याद्वादमहार्णवे' इति कृत्वा न्यायवि. टी. पृ० 230 उ० / स्या. रत्ना० पृ. 178 / प्रमेयरत्नमा० पृ. 182 / 5 "कथञ्चिद् विज्ञानाभिन्नहेतुजत्वं तु रूपालोकादिनाऽनैकान्तिकम् / " अष्टसह. पृ. 78 / स्या. रत्ना० पृ. 178 / 17