________________ 128 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० किञ्च , अन्तस्तत्त्वस्य अनेकाकाराक्रान्तस्यापि अशक्यविवेचनत्वाद् एकत्वाऽविरोधे बहिस्तत्त्वस्यापि अवयव्यादेः अत एव एकत्वाऽविरोधोऽस्तु विशेषाऽभावात् / बुद्धया तत्स्वरूपविवेचनम् अन्यत्राप्यविशिष्टम् , चित्रज्ञानेऽपि नीलाद्याकाराणाम् अन्योन्यदेशपरिहारेण स्थितत्वाऽ विशेषात् / एकदेशत्वे च एकाकार एवाशेषाकाराणामनुप्रवेशप्रसङ्गतः तद्वैलक्षण्याऽभावात् तच्चि५ त्रता विरुद्धयेत् / यदेकदेशं न तस्य आकारवैलक्षण्यम् यथा एकनीलाकारस्य, एकदेशाश्च चित्रज्ञाने नीलाद्याकारा इति / तथा, यत्र आकाराऽवैलक्षण्यम् न तत्र चित्ररूपता यथा एकनीलज्ञाने, आकाराऽवैलक्षण्यञ्च एकदेशतयाऽभिमतानां नीलाद्याकाराणामिति / किञ्च, एते आकाराः चित्रज्ञाने सम्बद्धाः सन्तस्तद्वथपदेशहेतवः, असम्बद्धा वा ? न तावदसम्बद्धाः; अतिप्रसङ्गात् / अथ सम्बद्धाः ; किं तादात्म्येन , तदुत्पत्त्या वा ? न तावत्तदु१० त्पत्त्या; समसमयवर्तिनां नारीनयनयुग्मवत् तदसंभवात् / नापि तादात्म्येन ; ज्ञानस्य अनेका काराऽव्यतिरिच्यमानत्वेन एकरूपत्वाऽभावप्रसङ्गात् / यदनकाकाराऽव्यतिरिच्यमानस्वरूपं तदनेकम् यथा अनेकाकारस्वरूपम् ,अनेकाकाराऽव्यतिरिच्यमानस्वरूपञ्च चित्रज्ञानस्वरूपमिति / अनेकाकाराणाञ्च एकस्माज्ज्ञानस्वरूपादव्यतिरेकेऽनेकत्वानुपपत्तिः / यदेकस्मादव्यतिरिक्तं न तदनेकम् यथा तस्यैव ज्ञानस्य स्वरूपम् , एकस्माज्ज्ञानस्वरूपादव्यतिरिक्ताश्च अनेकत्वेनाभि१५ मता नोलादय आकारा इति / यदप्युक्तम् -'ग्रहणाऽग्रहणलक्षणविरुद्धधर्माध्यासान्नार्थधर्मश्चित्रता' इति; तदप्यसुन्दरम् ; प्रत्यक्षविरोधेऽनुमानाऽप्रवृत्तेः, बाह्यार्थधर्मतया हि अबाधिताध्यक्षप्रत्यये चित्राकारः प्रतिभासते, न तस्य ज्ञानधर्मता युक्ता अतिप्रसङ्गात् / यो यद्धर्मतया प्रतीयते न स ततोऽन्यधर्मा यथा अग्निधर्मतया प्रतीयमाना भास्वरोष्णता न जलधर्मः, बाह्यार्थधर्मतया प्रतीयते च चित्रतेति / कथं तद्धर्मत्वे ग्रहणाऽग्रहणयोरुपपत्तिः इति चेत् ? चित्रप्रतिपत्तेः अनेकवर्णप्रतिपत्तिनिबन्धनत्वात्, प्रतिपन्नेऽपि नीलभागे पीतादिभागाऽप्रतिपत्तौ चित्रताऽप्रतिपत्तिरुपपन्नैव / विरोधश्व ज्ञानधर्मत्वेऽपि चित्रतायाः तुल्य एव; ताहि-ज्ञानमेकमनेकाकारम् , तद्विपरीतं वा ? न तावदाद्यविकल्पो युक्तः; परस्परव्यावृत्तत्वेनाऽऽकाराणाम् एकत्रानंशे ज्ञाने वृत्त्यनुपपत्तेः , येषां परस्परव्यावृत्तिः न तेषामेकत्राऽनशे वृत्तिः यथा गवाश्वादीनाम् , परस्परव्यावृत्तिश्च नीलाद्या५५ काराणामिति / न चैकस्याऽनंशस्याऽस्य परस्परविरुद्धाकारैस्तादात्म्यं युक्तम् , तावद्धा तस्यापि भेदप्रसङ्गात् / प्रयोगः-यद् एकमनंशं न तस्य परस्परविरुद्धाकारैः सह तादात्म्यम् यथा उत्पन्नस्य क्षणस्य उत्पत्त्यनुत्पतिभ्यां सत्त्व-विनाशाभ्यां वा. एकमनंशचे चित्रज्ञानं भवद्भिर १“किञ्चैते नीलाद्याकाराः चित्रज्ञाने सम्बद्धाः सन्तः तद्वयपदेशहेतवः असम्बद्धा वा ?" स्या०रत्ना० पृ. 177 / 2 ज्ञानस्वरूपम् ब०, ज०, आ० / 3 अनेकत्वाभि-ब०, ज०, आ० / 4 पृ० 126 पं० 8 / 5 भासुरोष्ण-आ० / 6 “तथाहि-तदेकं वा सदनेकाकारं तद्विपरीतं वा ?" स्या० रत्ना० पृ. 177 / ७-द्धाकारता-ब०, ज० / ८-त्तिभ्यां वा आ० / ९-ञ्च ज्ञानं भां० /