________________ लघी० 1 / 5-] चित्राद्वैतवादः 127 यदप्युक्तम्'-'प्रमेयात् पूर्वकालभावि प्रमाणम्' इत्यादि; तदप्यसमीक्षिताभिधानम् ; प्रकाशकस्य पूर्वापरसहभावनियमाऽभावात / तथाहि-क्वचित् पूर्व विद्यमानः पश्चाद्भाविनां प्रकाशको भवति, यथा आदित्यः समुत्पद्यमानानाम् / क्वचिच्च पूर्व सतां प्रकाश्यानां पश्चाद्भवन् प्रकाशकः यथा प्रदीपः अपवरकान्तर्वर्तिघटादीनाम् / क्वचित्तु सहभाविनां प्रकाशकः, यथा कृतकत्वादिः अनित्यत्वादीनाम् / अतः प्रमाणं पूर्वापरसहभावनियमनिरपेक्षं वस्तु प्रकाशयति, प्रकाशकत्वात् , 5 आदित्यादिवत् / __ यच्चान्यदुक्तम् -'स्वप्नावस्थायां बहिरर्थाभावेऽपि नीलाद्यनुरागः प्रतीयते' इत्यादि; तदप्युक्तिमात्रम् ; स्वप्नज्ञाने अनन्तरमेव माध्यमिकमतविचारावसरे बाह्यार्थविषयत्वस्य प्रसाधयिष्यमाणत्वात् / / यदप्युक्तम्-'चित्राकारतया प्रतिभासमानस्यापि ज्ञानस्य अशक्यविवेचनत्वादेकत्वम्' इति; 10 तत्र किमिदम् अशक्यविवेचनत्वं नाम-ज्ञानाऽभिन्नत्वम् , सहोत्पन्नानां नीलादीनां ज्ञानान्तरपरिहारेण तज्ज्ञानेनैवाऽनुभवः, भेदेन विवेचनाऽभावमात्रं वा ? प्रथमपक्षे साध्यसमो हेतुः, यदुक्तं भवति ज्ञानादभिन्ना नीलादयः ततोऽभिन्नत्वात् , तदेवोक्तं भवति 'अशक्यविवेचनत्वात्' इति / द्वितीयपक्षे तु अनैकान्तिकत्वम् , सचराचरस्य जगतः सुगतज्ञानेन सहोत्पन्नस्य ज्ञानान्तरपरिहारेण तज्ज्ञानेनैव ग्राह्यस्य तेन सहैकत्वाऽभावात् / एकत्वे वा सुगतस्य संसारित्वम्, 15 संसारिणां वा सुगतत्वं स्यात्, संसारेतररूपता चैकस्य ब्रह्मवादं समर्थयते / ज्ञानान्तरपरिहारेण तज्ज्ञानेनैवानुभवश्च असिद्धः, नीलादीनां ज्ञानान्तरेणाप्यनुभवात् / ज्ञानरूपत्वात्तेषां तत्सि• द्धौ च अन्योन्याश्रयः-ज्ञानरूपत्वसिद्धौ हि तेषां ज्ञानान्तरपरिहारेण तज्ज्ञानेनैवाऽनुभवसिद्धिः, तत्सिद्धौ च ज्ञानरूपत्वसिद्धिरिति / भेदेन विवेचनाऽभावमात्रमप्यसिद्धम् ; बहिरन्तर्देशसम्बन्धिवेन नील-तज्ज्ञानयोर्विवेचनप्रसिद्धेः / न चेत्थं विवेच्यमानयोरप्यनयोः विवेचनापह्नवो युक्तः; 20 सर्वापह्नवप्रसङ्गतः सकलशून्यतानुषङ्गात् / कारादेव प्रत्ययात् प्रतिकर्मव्यवस्थोपपत्तेः प्रतिपादयिष्यमाणत्वात् / ' प्रमेयक० पृ. 23 पू०। “निराकारत्वे कुतो विषयनियम इति चेत् ; स्वहेतुप्रयुक्तादेव शक्तिनियमादिति ब्रूमः / न्यायवि० टी० पृ. 127 पू० / 1 पृ. 125 पं० 1 / 2 “उपलब्धिहेतोरुपलब्धिविषयस्य चार्थस्य पूर्वापरसहभावाऽनियमाद् यथादर्शनं विभागवचनम् / क्वचिदुपलब्धिहेतुः पूर्व पश्चाद् उपलब्धिविषयो यथा आदित्यस्य प्रकाशः उत्पद्यमानानाम् / क्वचित् पूर्वमुपलब्धिविषयः पश्चादुपलब्धिहेतुः यथा अवस्थितानां प्रदीपः। क्वचिदुपलब्धिहेतुरुपलब्धिविषयश्च सह भवतो यथा धूमेन अग्नेर्ग्रहणमिति / न्यायभा० 2 / 1 / 11 / स्या. रत्ना. पृ० 174 / 3 पृ० 125 पं० 15 / 4 पृ० 125 पं० 18 / 5 ज्ञानादभिन्नत्वम् ब०, ज. / एभिरेव विकल्पैचित्रज्ञानस्य खण्डनम् प्रमेयकमलमार्तण्डे (पृ० 25 पू० ) प्रकारान्तरेण च तत्त्वार्थश्लोक वा• पृ. 35 / न्यायविनि० टा. पृ. 240 पू० इत्यादिषु च द्रष्टव्यम्। 6 “अशक्यविवेचनत्वं साधनमसिद्धमुक्तं नीलतवेदनयोः अशक्यविवेचनत्वासिद्धः अन्तर्बहिर्देशतया विवेकेन प्रतीतेः।" अष्टसह पृ०२५४ /