________________ 126 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० चित्रप्रतिभासाप्येकैव बुद्धिः बाह्यचित्रविलक्षणत्वात् , शक्यविवेचनं हि बाह्यं चित्रम् अशक्यविवेचनास्तु बुद्ध लादय आकारा इति / ननु चित्रपट्यादौ चित्ररूपता प्रतीयते तस्याः कुतो ज्ञानधर्मतेति चेत् ? अर्थधर्मत्वानुपपत्तेः / तथाहि-चित्रपट्यादिकमेकमवयविरूपं निरं शं वस्तु स्यात् , तद्विपरीतं वा ? प्रथमपक्षे नीलभागे गृह्यमाणे पीतादिभागानामग्रहणं नस्यात् , 5 तेषां ततो भेदप्रसङ्गात् , यस्मिन् गृह्यमाणे यन्न गृह्यते तत् ततो भिन्नं यथा सह्ये गृह्यमाणे विन्ध्यः, गृह्यमाणे नीलभागे न गृह्यते च पोतभागादिकमिति / तथा च अवयविनोऽप्येकरूपतानुपपत्तिः विरुद्धधर्माध्यासात् , यस्य विरुद्धधर्माध्यासो न तस्यैकरूपता यथा जलाऽनलादेः, ग्रहणाऽग्रहणलक्षणविरुद्धधर्माध्यासश्च अवयविनः इति / नीलभागस्य पीतादिभागात्मकत्वाद्वा पीताद्यग्रहे तस्याप्यग्रहणमेव स्यात् / यद् यदात्मकम् तस्याऽग्रहे तदपि न गृह्यते यथा पीता१० देरग्रहे न तत्स्वरूपम्, पीताद्यात्मकञ्च नीलमिति / तद्विपरीतत्वे तु चित्रपट्यादेः सिद्धः स्वय मेव चित्रतापायः विभिन्नाश्रयवृत्तिनोल-पीतादिवत् / तन्नार्थधर्मश्चित्रता किन्तु ज्ञानधर्मः, स्वकारणकलापाद् विज्ञानमुपजायमानम् अनेकाकारखचितमेवोपजायते अनुभूयते च / अतः तथाभूतं ज्ञानमेव एकं तत्त्वम्, इति चित्राद्वैतसिद्धिः / अथ अचेतनस्य सुखादेर्ज्ञानस्वरूपताविरहात् कथं चित्रप्रतिभासं ज्ञानमेवैकं तत्त्वं स्यात् 15 यतश्चित्राद्वैत सिद्धयेत इत्युच्यते; तदप्युक्तिमात्रम् ; यतः सुखादेरपि ज्ञानाऽभिन्नहेतुजत्वेन ज्ञानात्मकत्वोपपत्तेः। तथाहि-ज्ञानात्मकाः सुग्वादयः ज्ञानाभिन्नहेतुजत्वात् ज्ञानान्तरवत् / तदुक्तम् " तदेतद्रूपिणो भावाः तदत द्रूपहेतुजाः / तत्सुखादि किमज्ञानं विज्ञानाऽभिन्नहेतुजम् // " [प्रमाणवा 3 / 251 ] इति / 20 अत्र प्रतिविधीयते / यत्तावदुक्तम् -' साकारं निराकारं वा ज्ञानं बहिरर्थसद्भावे प्रमाणं स्यात्' _ इत्यादि, तत्रै निराकारमेव ज्ञानं तत्सद्भावे प्रमाणम् साकारपक्षस्य चित्राद्वैतवादिमतखण्डनम् निराकरिष्यमाणत्वात् / न च निराकारसंवेदनस्य सर्वत्राऽविशेपात् प्रतिकर्मव्यवस्थाहेतुत्वाभावः; योग्यतातो निराकारत्वेऽपि तद्धेतुत्वस्य समर्थयिष्यमाणत्वात् / तदन्यपीतादिप्रतिभासविवेकेन न केवलः शक्यते दृष्टुं तस्मिन् प्रतिभासमाने सर्वेषामेव तज्ज्ञानतया तदन्येषामपि नियोगतः प्रतिभासनात् / तस्माद् यदैवैकं नीलादिकमाकारं तदन्येभ्यः पीतादिभ्यो 'अयं नीलः' इति ज्ञानान्तरेण विवेचयति प्रमाता, तदैव तथा विवेचयन्नसौन तज्ज्ञानमामृशति अतद्रूपत्वात्तस्य, किं तर्हि ? अथें पतति, अर्थ एव तज्ज्ञानं प्रवृत्तं भवतीत्यर्थः / तस्मादेकस्मिन्नप्याकारे प्रतिभासमाने 'सर्वमाभाति, न वा किंचिदपि' इति अशक्यो विवेकतो दर्शने नीलादिप्रतिभास इति / " स्या. रत्ना० पृ० 173 / उधृतश्चैतत्-सि० वि० टी० 54 उ० / शास्त्रवा० टी० पृ० 182 पू० / 1 उद्धृतश्चैतत्-अभिसमयालंकारालोक पृ० 442 / हेतुबिन्दुटी० पृ. 97 / तत्त्वोपप्लव० पृ० 58 / अष्टसह पृ. 78 / जैनतर्कवा० पृ० 15 / मीमांसाश्लो० काशिका पृ० 239 / स्या० रत्ना० पृ० 174 / न्यायमं० पृ० 74 / व्योमवती पृ० 627 / 2 पृ. 124 पं०१३ / ३“साकारवादप्रतिक्षेपेण निरा